SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीपाल - मयणामृत तस्य राज्ञी सुशीला च कर्पूरतिलकाभिधा । द्विपुत्रयोरुपर्येका समुत्पन्ना सुता तयोः ॥६९०॥ रम्भा तुल्यास्ति रूपेण नाम्ना सा गुणसुन्दरी । सर्वकलासु सा दक्षा वीणायां तु विशेषतः ॥ ६९१ ॥ तया कृता प्रतिज्ञा यद् भर्ता मे स भविष्यति । जेष्यति यः पुमान्वीणा वादने मां तदैव हि ॥ ६९२ ॥ तत् श्रुत्वा राजपुत्रास्तु मिलित्वा देश - देशतः । वीणाभ्यासं प्रकुर्वन्ति गुरुपार्श्वे दिने दिने ॥६९३॥ प्रतिमासं परीक्षायां केनापि सा न जीयते । रूपं ते सफलं चैतां वादे त्वं यद् विजेष्यसि ॥६९४॥ निशम्यैवं कुमारेण सन्मान्य स विसर्जितः । निजगेहं समागत्य चिन्तितं गमनेच्छ्या ॥ ६९५ ॥ प्रेक्षिष्ये कौतुकं केन नगरं खलु दूरगम् । द्रक्ष्यामि यन्न वैचित्र्यं जन्म मे विफलं तदा ॥ ६९६ ॥ कथं करोमि दुर्ध्यानं मत्पार्श्वे विश्वदुर्लभम् । आस्ते नवपद ध्यान - मलञ्चापर चिन्ता ॥ ६९७ ॥ विचिन्त्य चेतसि दध्यौ यावन्नवपदं स हि । कुमारस्तत्क्षणादेव दैवीभास्तत्र जायते ॥ ६९८ ॥ सौधर्मकल्पवास्यथ प्रकट्य विमलेश्वरः । करयो हरमाधाय कुमारं तु वदत्यदः ॥ ६९९ ॥ Jain Education Inten 02 2010_05 For Private & Personal Use Only काव्यम् ७८ jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy