________________
काव्यम्
श्रीपालमयणामृत-
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈器
उदन्तं श्रेष्ठिनः श्रुत्वा कुमारोऽथ शुचाऽसहम् । आक्रंदति भृशं जाने निजपितुम॒तौ तदा ॥६८२॥ प्रेतक्रियां स कृत्वाथ दापयति जलाञ्जलिं । श्रेष्ठिनं स्वोपकारिण मिव स्मरति स ध्रुवम् ॥६८३॥ त्रयोऽपि धवलस्याथ सुबुद्धिदायकाश्चये । स्थापितास्ते कुमारेण श्रेष्ठिलक्ष्यधिकारिणः ॥६८४॥ | तत्रस्थोऽथ कुमारोऽपि मदनात्रिक-संयुतः । भोगं भुनक्ति मानुष्ये-जन्मन्याम्रफलोपमम् ॥६८५॥
कुमारो निर्गतो राज-पाटिकार्थमथोऽन्यदा । दृष्ट्वा च सार्थपं कञ्चित्तं पृच्छति स यद्यथा ॥६८६॥ कुतस्त्वमागतः कुत्र यियासु वेद भव्य भो । त्वयाश्चर्यञ्च दृष्टं यद् विदेशभ्रमणे वरं ॥६८७॥ प्राहाथ सार्थपः कान्ती-पुरीत आगमं त्वितः । कम्बुद्वीपं गमिष्यामि देव ! चित्रं श्रृणोतु तत् ॥६८८॥ कुण्डलपुरे गुणसुंदरी वृत्तान्तः कुण्डलपुरनामास्ति शतयोजनदुरगम् । नगरं राजते राजा मकरकेतु नामतः ॥६८९॥ १. देवचित्रं = हे देव ! चित्रं, देवानां अपि चित्रं ।
肌張張讓張靈靈靈靈靈覺靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
७७
For Private & Personal Use Only
___JainEducation International 2010_05
www.jainelibrary.org