SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीपाल • दुरेऽस्तु ह्युपकारस्त्व-पकारः क्रियते कथम् । नास्त्यकृत्यविधेः सीमा प्रायो दुष्टात्मनां नृणाम् ॥६७३॥ मयणामृत स्वच्छुरिकयैव धवलस्य मरणं पादं मुञ्चत्यथोन्मार्गे भय-त्वरांधकारतः । सप्तम्याभूमितः शीघ्रमधोऽपतत्तदैव सः ॥६७४॥ उरोविद्धं मृतस्तेन क्षुरिकया करस्थया । यियासुः सप्तमीभूमी यातो यातोऽधस्सप्तमावनिम् ॥६७५॥ तथैवं श्रेष्ठिनं दृष्ट्वा प्रातस्तु चिन्तितं जनैः । मारणाय कुमारस्य नूनं हि धावितो निशि ॥६७६॥ | विस्मार्यन्तेऽधमत्वेनोपकर्तृणां गुणा अपि । किन्त्वत्युग्रपापानां फलमत्रैव दृश्यते ॥६७७॥ • भावना भाव्यते यादृग् तादृगासाद्यते फलम् । परस्मै खनिते कूपे स्वयं पतितवान्खलु ॥६७८॥ मृतोऽप्यदर्शनीयोऽयं पापोऽथ पुरतो गतः । धिकृत्वा निखिला लोकाः निर्ययुः सदसस्तदा ॥६७९॥ धनवैभवसम्पत्त्या ऋद्धोऽपि धवलः खलु । अवाप कीदृशं मृत्युं नियतिः केन लझ्यते ॥६८०॥ • पातकं पातयत्येव यद्गुप्तमपि निर्मितम् । विजनेऽन्यं जिघांसु हि संयमनीं' स आप्तवान् ॥६८१॥ १. संयमनी = यमपुरीम् । 盟强强强强强强强强强强强强器蒙靈靈靈飄飄飄蹤器 聚蒙蒙蒙蒙蒙蒙蒙蒙蒙靈靈靈靈靈靈靈靈靈靈靈靈靈飄飄飄 Jain Education Intel 2010_05 For Private & Personal use only w.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy