________________
श्रीपाल
• दुरेऽस्तु ह्युपकारस्त्व-पकारः क्रियते कथम् । नास्त्यकृत्यविधेः सीमा प्रायो दुष्टात्मनां नृणाम् ॥६७३॥ मयणामृत
स्वच्छुरिकयैव धवलस्य मरणं पादं मुञ्चत्यथोन्मार्गे भय-त्वरांधकारतः । सप्तम्याभूमितः शीघ्रमधोऽपतत्तदैव सः ॥६७४॥ उरोविद्धं मृतस्तेन क्षुरिकया करस्थया । यियासुः सप्तमीभूमी यातो यातोऽधस्सप्तमावनिम् ॥६७५॥ तथैवं श्रेष्ठिनं दृष्ट्वा प्रातस्तु चिन्तितं जनैः । मारणाय कुमारस्य नूनं हि धावितो निशि ॥६७६॥ | विस्मार्यन्तेऽधमत्वेनोपकर्तृणां गुणा अपि । किन्त्वत्युग्रपापानां फलमत्रैव दृश्यते ॥६७७॥ • भावना भाव्यते यादृग् तादृगासाद्यते फलम् । परस्मै खनिते कूपे स्वयं पतितवान्खलु ॥६७८॥
मृतोऽप्यदर्शनीयोऽयं पापोऽथ पुरतो गतः । धिकृत्वा निखिला लोकाः निर्ययुः सदसस्तदा ॥६७९॥
धनवैभवसम्पत्त्या ऋद्धोऽपि धवलः खलु । अवाप कीदृशं मृत्युं नियतिः केन लझ्यते ॥६८०॥ • पातकं पातयत्येव यद्गुप्तमपि निर्मितम् । विजनेऽन्यं जिघांसु हि संयमनीं' स आप्तवान् ॥६८१॥
१. संयमनी = यमपुरीम् ।
盟强强强强强强强强强强强强器蒙靈靈靈飄飄飄蹤器
聚蒙蒙蒙蒙蒙蒙蒙蒙蒙靈靈靈靈靈靈靈靈靈靈靈靈靈飄飄飄
Jain Education Intel
2010_05
For Private & Personal use only
w.jainelibrary.org