________________
काव्यम्
श्रीपाल- तथैव स कुमारोऽपि मोचयति कृपाधरः । नृपात्तं धवलं डुम्बं सकुटुम्बं च मित्रवत् ॥६६३॥ मयणामृत-18|
कथं मातङ्गनाथोऽय मित्युदितं तदा त्वया । एवं पृष्टे नृपेणाथ वक्ति नैमित्तिकः प्रभो ॥६६४॥ मातङ्गो हस्ति पर्यायस्तेषां नाथो नृपो हि वै । ज्ञात्वाऽभिप्रेतमस्येति तुष्टो भूपो व्यसर्जयत् ॥६६५॥ | कुमारो धवलं नीत्वा स्थापितवान् स्व-वेश्मनि । उचितं सादरं तस्य सदा करोति मानदम् ॥६६६॥ धवलश्चन्द्रशालायां सुप्तोऽथ निश्यचिंतयत् । विधि र्खलु विचित्रोऽयं सर्वसत्त्वान् प्रनर्तयन् ॥६६७॥ यद् यत्करोमि कार्यं तत्सर्वं भवति निष्फलम् । मद् दैवः कीदृशो वक्रो वर्तते हा प्रभो खलु ॥६६८॥ | चिन्तां मा कुरु चित्त ! त्वं किमुपायैर्न साध्यते । उपाये प्रबले प्राप्ते नोपेयं दुर्लभं यतः ॥६६९॥ तथैवायं कुमारश्चेन् मयोपायेन केनचित् । मुक्तप्राणः कृतस्तर्हि सर्वा लक्ष्मी भवेन्मम ॥६७०॥ सप्तमभूमिकायां तं सुप्तप्रेव निहन्मि चेद् । स्त्रियौ श्रियं ततः तस्य भुनज्म्यहं बलादपि ॥६७१॥ चिन्तयित्वेति स श्रेष्ठी स्वहस्त-क्षुरिकाधरः । धाविता उपभूमिं तां धृष्टो दुष्टो निकृष्टकः ॥६७२॥
取盤靈靈靈靈靈靈靈靈跟靈靈靈靈强
毁强靈靈靈盟盟飄飄飄飄飄體飄飄激缴费最蒙激發靈靈盟盟
Jain Education Intel
2010_05
For Private & Personal use only
F
w
.jainelibrary.org