SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत | कुमार-मातरं श्रुत्वा ह्यपृच्छद् रूपसुन्दरी । हर्षो जातः किमेतच्च सद्वृत्तान्तः कथं भवेत् ॥२३४॥ | सम्ब्रूते मदना तत्र वार्ता न शोभते यतः । भवेद् नैषेधिकाभंगो वार्तालापे जिनालये ॥२३५॥ अतो मे गृहमेहि त्वं पूजाविधेरनन्तरम् । कथयिष्यामि मातस्ते सद्धर्मस्याखिलं फलं ॥२३६॥ गृहं गत्वा समग्रोऽपि वृत्तान्तः कथितस्तदा । सिद्धचक्रस्य माहात्म्य-युतो मदनया शुभः ॥२३७॥ हर्षिता तदुदन्तेन रूपा कुमारमातरम् । वदति ब्रूहि जामातृ-वंशं श्रेष्ठत्वसूचकम् ॥२३८॥ भणत्यथ कुमारस्य-माताऽऽनन्देन तां यथा । अङ्गदेशे प्रसिद्धाऽस्ति चम्पापुरी यथादिवम् ॥२३९॥ तत्र सिंहस्थो राजा राजते देवराजवत् । न्यायी गुणगणाऽऽपाती क्षमी सुधी यशोधरः ॥२४०॥ पतिव्रता सुशीला च तज्जाया कमलप्रभा । कोङ्कणदेशनाथस्य लघुस्वसाऽस्ति या सती ॥२४१॥ प्राज्य-राज्य-प्रभुत्वेऽपि समर्थे साधनेऽपि च । पुत्रप्राप्तेः कृते नित्यं चिन्तास्ति तस्य चेतसि ॥२४२॥ 强强强强强强强靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈 SANSAR For Private & Personal Use Only Jain Education Inter 1989w.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy