________________
श्रीपाल -
मयणामृत
सोsपि प्राह त्वमेवात्र यज्जानासि कुरुष्व तत् । एक स्थानस्थयोर्मध्ये नैवान्तरं मयि त्वयि ॥४४४॥ श्रीपालस्य वचः श्रुत्वा श्रेष्ठी हृष्यति चेतसि । पयः पश्यन्यथौतुर्वा चिन्तामणि करे नरः ॥ ४४५ ॥ इतश्चैति हयारूढः कोऽपि स्वरूपवान्नरः । आहूत स कुमारेण सानंदं पट - मन्दिरम् ॥४४६ ॥ सन्मानित: कुमारेण नम्र आगन्तुकः पुनः । स्वपार्श्वमुपाविश्याध प्रेक्षते देवनाटकम् ॥४४७॥ नाटके पूर्णतां प्राप्ते सुरसे सुरदुर्लभे । स्मितेन वदनेनैवं कुमारेण प्रपृच्छ्य ॥४४८॥
महाभाग भवान् कस्त्वं वासस्ते कुत्र वर्तते । चित्रं ब्रूहि जगत्यां यन्नवं दृष्टं श्रुतं त्वया ॥४४९ ॥
रत्नसञ्चयानगरी स्वर्णकेतुः नृपः मदनमञ्जूषा कन्या
सोऽप्याह रत्नसान्वौ पुर्यस्ति रत्नसञ्चया । वसन्ति धनिनस्तत्र समृद्ध्याऽपि कुबेरवत् ॥४५० ॥ स्वर्णकेतुर्नृपस्तत्र सुख सौभाग्य शेखरः । वरे तस्याऽवरोधेऽस्ति स्वर्णमाला प्रिया सती ॥४५१ ॥
१. ओतुः बिडालः ।
Jain Education Intel 2010 05
| YOY
=
For Private & Personal Use Only
काव्यम्
५०
www.jainelibrary.org.