________________
श्रीपाल
काव्यम्
मयणामत-1
.
अथ श्रेष्ठी महायानं दृष्ट्वा ऋद्धिमचिन्तयत् । स्वामित्वं सेवकः प्राप्तो वस्त्रं दास्यति मे नवा ॥४३५॥ • याचतेऽथ गते मासे भाटकं स कुमारकम् । दापयति स तस्मै च दश-गुण प्रमाणकम् ॥४३६॥
स्वीयं कन्याकुमारं च स्थापयित्वा सुयानके । दत्वा शुभाशिषं भूपो याति स्वीयां पुरीं प्रति ॥४३७॥ सार्थोपेतः कुमारोऽथ सागरेऽवाह्यत्तरी । रतिकामौ यथा भातः नौ गवाक्षोपरि स्थितौ ॥४३८॥ | पुण्येनेव प्रशान्तेऽथ पवनेन महाम्बुधौ । प्रयान्ति सुखगत्याऽमि पोता: सुधी नियंत्रकैः ॥४३९॥
रत्नद्वीपं क्रमात्प्राप्य पथिका इव पादपः । वाणिज्याद्यै निजान्योताँस्तम्भयन्ति च नङ्गरैः ॥४४०॥ | पोतादुत्तार्य भाण्डानि स्थापितान्यथ मण्डपे । महार्घाणि च दय॑न्ते वणिग्भिरागतान्पुरात् ॥४४१॥ वरमंडपमध्यस्थः कुमारोऽथ सुरेशवत् । रमते नाटकाद्यैश्च न कुर्वन् क्रय-विक्रयं ॥४४२॥ विज्ञाय बहुलाभं स ऊचे श्रेष्ठी कुमारकम् । देव ! पोतस्थितं भाण्डं विक्रीणासि कथं न हि ॥४४३॥ १. वस्त्रं = भाटकं ।
X
w
.jainelibrary.org
For Private & Personal Use Only
Jain Education inteR
2010_05