________________
काव्यम्
मयणामृत
श्रीपाल- * भूपोऽयं नागतो मन्त्रिन्कथं शुद्धिं कुरु द्रुतम् । निर्भयः किं नु सोऽज्ञो नु राजस्थितेः प्रणालितः ॥८०७॥
अमात्यो वक्ति भो नाथ ! शुद्धिं कृता मया पुरा । शोकार्तोऽस्ति महासेनो दुखदां तत्कथां शृणु ॥८०८॥ | तस्य प्रिय सुतकाऽस्ति नाम्ना तिलकसुन्दरी । दष्टा साऽद्यैव सर्पण दुष्टेन कालबाहुना ॥८०९॥ विहितेषूपचारेषु नृपेण सकलेष्वपि । कन्यां न चेतनां प्राप्ता तेन शोकेन नागतः ॥८१०॥ ततोऽश्वं स समारुह्य प्रेत्य प्रेतगृहं द्रुतम् । भो भूप ! नागरा ! वक्ति कुमारेन्द्रः निशम्यताम् ॥८११॥ | मृतवद् दृश्यते मर्त्यः सर्पदंशेन मूछितः । कर्तव्या उपचारादि कदापि नैव दह्यते ॥८१२॥ | इत्युदीर्य चितायास्तं प्रेतं संस्थाप्य भूतले । कंठस्थ-हार-पूतेन सिक्तः स्वहस्त-वारिणा ॥८१३॥
क्षणान्नीराऽनुभावेन सापि सम्प्राप्त-चेतना । शीघ्रमेवोत्थिता तत्र निशान्ते हि यथा जनाः ॥८१४॥ | पूर्जनैः परिवृत्तां सा निजां दृष्ट्वा स्मशानगां । चेतस्याश्चर्यमुत्पन्नं नृपं पृच्छति विह्वला ॥८१५॥ तात ! ताताद्य किं जातं पूर्जना मिलिताः कथम् । अहमप्यागता केन ज्ञायते न मयाऽधुना ॥८१६॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈盟盟靈靈靈靈蹤器
盟靈靈靈飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈蹤器
Education Inter
01 201005
For Private & Personal Use Only
w.jainelibrary.org