SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 靈器靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈跟靈靈靈爆强网 कुमारणोज्जीविता कन्या राज्ञा विवाहिता कथयित्वाऽथ तद्वृत्तं महासेनः पिता सुधीः । स्वपुत्री दत्तवान् तस्मै कुमाराय रसेश्वरः ॥८१७॥ एवमष्ट-प्रियायुक्तः स्वमातुर्नति-तत्परः । मदन-सुन्दरी-संग-समुत्सुकमना हि सः ॥८१८॥ वधू-वरूथिनीयुक्तः प्रयाति मालवं प्रति । देशान् जित्वा महाराष्ट्र-सौराष्ट्र-लाटकान् पथि ॥८१९॥ वर्धितवारिकुल्या'वत् स्वबलौघ-विवर्धितः । एवं श्रीपाल-भूपेन्द्रः प्राप्तवान् मालवान् क्रमात् ॥८२०॥ पर-चक्रागमं श्रुत्वा मालवेन्द्रश्चराननात् । घृत-धान्यादि सङ्गृह्य बलानि स्वानि सज्जति ॥८२१॥ नृपादेशेन रक्ष्यन्ते गोपुराण्यपि सर्वतः । धावमानै जनै भीत्या जातः कोलाहलः पुरे ॥८२२॥ ततः श्रीपाल-सैन्येन दुर्गस्तु परिवेष्टितः । आद्यो जम्बूद्वीपो वृत्तो लवणोदधिना यथा ॥८२३॥ एवमावासिते सैन्ये स्वयं यामे निशादिमे । श्रीपालो व्योम-मार्गेण प्राप्तवान् मातृ-मन्दिरम् ॥८२४॥ १. वरूथिनी = सैन्यम् । २. कुल्या = नदी । 盟飄飄飄飄飄飄飄飄飄靈飄飄盟飄飄盪盪盤盤靈靈靈靈靈盟网 ARTwiainelibrary.org Jain Education in 2010/05 For Private & Personal Use Only
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy