________________
काव्यम्
श्रीपालमयणामृत
盤靈靈靈靈器靈靈靈靈靈靈靈靈靈靈靈激盟
रसार्थं भ्रमरो याति यथाऽऽरामे' सुमान्तरम् । वरार्थं सा कुमारी तु याति नृपान् नृपान्तरम् ॥७४२॥ अखिलेष्वपि भूपेषु वेत्रिणा दर्शितेष्वपि । प्रसन्ना नैव भूता सा मौनमादाय तिष्ठति ॥७४३॥ तदैव शालभञ्जिका-मुखेन हार-देवता । वाण्या मधुरया वक्ति श्रृणोति सैव नेतरे ॥७४४॥ यदि धन्यासि विज्ञासि जानासि च गुणाऽगुणम् । तदैनं कुब्जकाकारं वत्से ! वृणु नरोत्तमम् ॥७४५। संश्रुत्यैवं कुमारी सा कुब्जकं प्रवृणोति तम् । तत्कण्ठे पुष्पमालाञ्च प्रक्षिप्य मुमुदे भृशम् ॥७४६॥ त्रैलोक्यसुंदरीवृतेन कुब्जीभूतश्रीपालेन नृपाः जिताः समीक्ष्य वृत-कुब्जां तां नृपाः सर्वे वदन्ति तं । रे कुब्ज ! मुञ्च मालां त्वमात्मनो मृत्युदायिनीम् ॥७४७॥
यद्यपि सातिमुग्धास्ति जानाति न गुणागुणम् । कन्यारत्नं तु कुब्जायाऽऽस्माभिर्देयं कदापि न ॥७४८॥ | तत् शीघ्रं त्यज मालां त्वं वदन्त्युदायुधा नृपाः । चेन्नेति करवालस्ते गलनालं लविष्यति ॥७४९॥
飄飄飄靈靈靈靈飄飄盟靈綴飄飄靈靈靈靈綴飄飄飄飄靈飄飄
१. वेले = आरामे ।
Jain Education Internet | 2010_05
For Private & Personal use only
X
ainelibrary.org