________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈靈靈蒙蒙蒙靈靈靈靈靈靈靈飄飄飄飄飄靈靈靈驗
मार्गोऽस्ति चात्रतस्तस्य त्रिंशद्योजनमानकः । श्रुत्वा व्यसर्जयत् तस्मै प्रदाय कंठ-मण्डनम् ॥७३२॥ कुमारः कुब्जरूपेण हारतः काञ्चने पुरे । गत्वा मण्डपमास्थित्य कलां च तस्य पश्यति ॥७३३॥ राजमानां सभासीनां भूषितां रत्न-भूषणैः । राजमालां भ-मालां च गगने वरमण्डपे ॥७३४॥ तन्मण्डपे प्राविशन्द्वार-पालेन वारितो यदा । सुवर्ण-वलयं दत्त्वा वारितं स्वप्ररोधनम् ॥७३५।। प्रविश्याऽथ निषण्णश्च तत्रोपशालभञ्जिकाम् । प्रेक्ष्य तत्कुब्जकं रूपं पृच्छन्ति तं नरेश्वराः ॥७३६॥ आगतोऽसि कथं कुब्ज ! त्वमत्र राज-मण्डपे । वक्ति कुब्जोऽपि तेभ्यस्तु प्रसन्नास्यः प्रमोदतः ॥७३७॥ येन कार्येण सर्वेऽपि यूयं सम्मीलिता इह । नरेशा: केवलं तस्मै कार्यायैवाहमागमम् ॥७३८॥ भूपेन्द्रास्तं हसित्वोचुः कंदर्प-रूपवानहो । धन्या तदैव कन्यैषा सुरूपं त्वां वरिष्यति ॥७३९॥ रम्भारूप-धरा तत्र कुमारी शिबिकास्थिता । पुष्पमालाधरा धन्या शुभ्र-वस्त्रा समागता ॥७४०॥ निसर्ग-स्वरूपं प्रेक्ष्य श्रीपालस्य प्रशंसति । निजात्मानं "महाधन्याऽद्वितीयाऽस्मीति विष्टपे ॥७४१॥
幽靈靈靈靈蒙蒙蒙蒙蒙靈靈靈靈靈靈靈飄飄飄靈靈靈激激
_Jain Education inte|
ForLijainelibrary.org
For Private & Personal Use Only
1 2010_05