________________
काव्यम्
श्रीपाल- * महिमा दिक्कुमारीभिर्यज्जन्मनि विधीयते । चतुःषष्टि सुरेन्द्रश्च तमर्हन्तं नमाम्यहम् ॥१०३७॥ मयणामृत
& जन्मनि यस्य कल्याणे सर्व-शाता-प्रदेऽपि वै । इन्द्रोऽपि प्राप पञ्चत्वं तमर्हन्तं नमाम्यहम् ॥१०३८॥
आ जन्मतः सुरेन्दैश्च घातिकर्म-क्षयात् तथा । जायन्तेऽतिशया यस्य तमर्हन्तं नमाम्यहम् ॥१०३९॥ | रोगाः शोका विलीयन्ते मण्डले योजनावधौ । यस्यागमनमात्रेण तमर्हन्तं नमाम्यहम् ॥१०४०॥
येन प्रवर्तितं तीर्थं भव्यानां मोक्षदायकम् । जिनेन कृतकृत्येन तमर्हन्तं नमाम्यहम् ॥१०४१॥ | पञ्चत्रिंशद्गुणैर्वाचा विबोध्यन्ते च भव्यकाः । प्रातिहार्याष्टकोपेतं तमर्हन्तं नमाम्यहम् ॥१०४२॥ | चलत्यग्रे ध्वजो यस्य योजनैक-प्रमाणकः । नव-स्वर्णाम्बुजे यान्तं तमर्हन्तं नमाम्यहम् ॥१०४३॥ त्रिज्ञानं गर्भतो यस्य तुर्यं चारित्रतोऽभवत् । पञ्चमं कर्मनाशेन तमर्हन्तं नमाम्यहम् ॥१०४४॥ यदन्तिम-शरीरस्य-त्रिभागोनावगाहनात् । लोकाग्रं प्राप्यते यैस्ते सिद्धाः सिद्धि दिशन्तु मे ॥१०४५॥ पूर्व-प्रयोग-निसर्ग-बन्धच्छेद-स्वभावतः । येषामूर्ध्वगतिश्चैव सिद्धाः सिद्धि दिशन्तु मे ॥१०४६॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
数眾眾飄飄飄飄飄飄飄飄飄飄靈蒙飄盪盪靈靈靈靈靈跟靈靈盟第
१२०
Jain Education Interfal
2010_05
For Private & Personal use only
ARw.jainelibrary.org