________________
श्रीपाल - मयणामृत
वर्तत उज्जयिन्यां स गृहिण्या च समन्वितः । शुभे साधर्मिकावासे धर्मकर्म-परायणः ॥२१८॥ श्रुत्वा गुरुवचो वत्स ! सम्प्राप्ताऽस्म्यत्र साञ्जसा । दृष्टोऽसि त्वं समं वध्वा ज्योत्स्त्रया शशिवन्मया ॥ २१९ ॥ जिनेन्द्रपादपद्मञ्च संपूज्य सद्गुरूंस्तथा । धर्मं कुर्वन्ति सानंदं तत्रस्थास्ते जिनोदितम् ॥ २२० ॥ त्रयोऽपि तेऽन्यदा हर्षात् द्रव्य - पूजां विधाय च । भावार्चां ते प्रकुर्वन्तः यावद् देवं स्तुवन्ति च ॥२२९॥ इतो रोषान्विता व्यग्रा शोकाच्चेतसि विह्वला । स्वभ्रातुः पुण्यपालस्य गृहेऽगात् रूपसुन्दरी ॥२२२॥ मदनायाः मातुरग्रे श्रीपाल कुलकथनं
तत्र जिनेन्द्रपूजां सा करोति शोक - हारिणीं । स्वस्था जाताऽथ धर्मेण धर्मो हि जगतां धनम् ॥२२३॥ क्रमेण शोकनिर्मुक्ता राहुमुक्तेव चन्द्रिका । तदा जिनालयं तत्र समागाद् रूपसुन्दरी ॥२२४॥ कुमारं पुरतः प्रेक्ष्य मात्रा पल्या समं तदा । उपलक्ष्य च पुत्रीं स्वा-मचिन्तयद्यथातथा ॥२२५॥ नूनं तं कुष्ठिनं त्यक्त्वा नरान्यं मदना लगत् । संभाव्येन्न दृष्टेऽपि सुता मे कुलिनी खलु ॥२२६॥
Jain Education International 2010_05
For Private & Personal Use Only
88
काव्यम्
२५
www.jainelibrary.org