________________
काव्यम्
श्रीपाल- अहो ! वृष्टिरनभ्राऽद्य जातास्ति जननि ! खलु । देव गुर्वोः प्रसादेन कुशलं वर्तते नु वः ? ॥२०८॥ मयणामृत-8||
• वंदते मदनानम्रा ज्ञात्वा नाथस्य मातरम् । श्रीपालो वक्ति वध्वास्ते प्रभावोऽस्त्यखिलो ह्ययम् ॥२०९॥ | आशीर्ददाति माता तं पुत्रं पुत्रवधूं तथा । वृत्तं कथयति स्वीयं सकलं हर्षदं यथा ॥२१०॥
यावद् व्रजामि कौशाम्ब्यां मुक्त्वात्वामत्र हे सुत ! । वैद्यं श्रुत्वा जनश्रुत्या सर्वरोगनिवारकम् ॥२११॥ | वैद्यो न मिलितस्तत्र तीर्थयात्रां गतस्तु सः । प्रतीक्षामकरोत्तस्य धैर्याद् धर्मपरायणा ॥२१२॥ तावज्जिनगृहे तत्र दृष्टो मुनिवरस्तदा । शान्तदान्तगुणोपेतश्चारित्रैकमनाः शुभः ॥२१३॥ नत्वा पृष्टं प्रभो ! पुत्र: नयनानंद-कारकः । प्रदर्शय कृपां कृत्वा नीरूङ् मे किं भविष्यति ॥२१४॥ | मुनिरुवाच भो भद्रे ! श्रूयतां तत्कथां मुदा । तेनैव कुष्ठिवृन्देन गृहीतोऽस्ति सुतस्तव ॥२१५॥ नाम्ना ह्युम्बरराजेतिस्वामित्वेन प्रमाणितः । यो मालवपतेः पुत्री-प्राणनाथोऽधुनाऽभवत् ॥२१६॥ सिद्धचक्रं समाराध्य सद्गुरुवचनेन च । काञ्चनीकान्तिवान्जातः पुण्यकर्म विपाकतः ॥२१७॥
__JainEducation intely
2010_05
For Private & Personal use only
brary.org