________________
काव्यम्
श्रीपालमयणामृत-
盟靈靈靈靈靈靈蒙蒙蒙蒙蒙蒙蒙靈靈靈靈靈靈靈
जातो ननु चमत्कारस्तत्र कोऽपि न संशयः । कलिकालेऽपि कल्पद्रु-रेषाह्याराधना खलु ॥१९९॥ भणितं गुरुणा तावद् ह्याश्चर्यं चात्र किं ? श्रृणु । शान्तेर्जलेन गच्छन्ति विलयं विष-वेदनाः ॥२००॥
भूत-प्रेतादिदोषाश्च जल-ज्वलन-सङ्कटाः । स्त्रीदोषा ईतयः शीघ्रं नश्यन्ति तत्प्रभावतः ॥२०१॥ | संसिक्तं तज्जलं कुष्ठि-पेटके च ततस्तदा । जाताः सर्वेऽपि ते प्रायो रूप-सौन्दर्य-शालिनः ॥२०२॥ | रूपं निरूपमं दृष्ट्वा मदनोवाच "पश्यतु । सर्वो गुरु प्रसादोऽयं नाथ ! नान्यस्य कस्यचित्" ॥२०३॥ | जाताश्चर्यः कुमारोऽथ सञ्जातो धर्मधीधनः । सुदेव-गुरु-धर्मेषु ह्येकान्त-भक्ति-तत्परः ॥२०४॥ | अतश्च धर्मध्यानेन प्रयान्ति वासराः वराः । नित्यं प्रभातकाले तौ जग्मतुर्जिनमन्दिरम् ॥२०५॥ श्रीपालस्य मात्रे तपः प्रभाव निवेदनं मदनायाः सतीत्वप्रशंसा च बहिर्निस्सरंतौ यावज्जिनमन्दिरतोऽन्यदा । पश्यतः स्त्रियमायान्ती वृद्धामेकां तु सन्मुखम् ॥२०६॥ मातरं वीक्ष्य सद्भक्त्या श्रीपालस्तत्क्षणं तदा । मातृपादौ सरोमाञ्चः नमति स्म सगद्गदम् ॥२०७॥
盟强强强强强强强强强望露盟盟盟獵獵張靈靈强强强强
Jain Education Inter
2010-05
For Private & Personal use only
www.jainelibrary.org.