SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीपाल - मयणामृत श्राद्धैस्तु दीयते तुष्टैः संस्थाप्य वरवेश्मनि । धनधान्यादिकं ताभ्यां स्वर्ण-वस्त्रादिकं तथा ॥ १८९॥ तत्र स्थितः कुमारोऽथ पूजा विधि प्रशिक्षते । गुरूणामुपदेशेन मदनावचनेन च ॥ १९०॥ प्राप्तायामाश्विनस्याथ श्वेताष्टम्यां यथाविधि । साकं मदनया सिद्ध-चक्रं तपः करोति सः ॥१९१॥ आदौ देह-मनः शुद्धिं कृत्वा पूजां च भावतः । अकार्षीज्जिनराजस्य सिद्धचक्र - विधानतः ॥ १९२॥ तथा श्रीपाल आचाम्लं सादरं ह्यकरोत्तदा । जातः पुलकितांगो हि प्रथमे दिवसे ततः ॥१९३॥ द्वितीयेऽहनि प्रशाम्यन्ति सविशेषं तदामयाः । रोगे दिने दिने क्षीणे सद्भावस्तस्य चैधते ॥ १९४॥ नवमेऽथ दिने सिद्ध-चक्रस्यातिप्रभावितः । पद्मगंधि- जलैः शीतैः स्त्रात्रं पञ्चामृतैः कृतम् ॥ १९५॥ शान्तिमन्त्रैः जलं पूतं स्नात्रस्य बहुमानतः । संसिक्तमथ सर्वाङ्गे शान्तिकान्तिप्रदं मुदा ॥ १९६ ॥ दिव्यं जातं वपुस्तस्य नीरोगिता च सौष्ठवम् । दृष्ट्वाश्चर्यं तदालोकैरभण्यत चमत्कृतैः ॥१९७॥ न दृष्ट ईदृशः पूर्वं प्रभावोऽखिल - जन्मनि । मन्त्रतन्त्रौषधीनां यद् रोगाः शाम्यन्ति तत्क्षणात् ॥१९८॥ Jain Education Inter 2082 2010 05 For Private & Personal Use Only {8 8 8 8 8 काव्यम् २२ w.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy