________________
R
मयणामृत
श्रीपाल- पुत्रीमुखात्कुमारोऽपि स्माह चित्रोत्तरं श्रुणु । आसादयति यद्रूपं मरेणुः १ मरणैः विना ॥ ७८१ ॥ मनोऽनुरूपमित्येवं समस्याः पूरिता यदा । हर्ष - रोमाञ्चिता जाता सखीयुक्ता कुमार्यपि ॥ ७८२ ॥ धन्यं मनुते चात्मानं सा कुमारी तदैव हि । कुमार-कण्ठ-पीठे तु चिक्षेप वर - मालिकाम् ॥७८३॥ अहो दृश्यत आश्चर्यं पुत्रिकास्येन पूरिता । समस्या पर चित्तस्था वदन्त्येवं नृपादयः ॥ ७८४|| चमत्कृतेन राज्ञाऽऽशु कारापितोऽतिविस्तृतः । पुत्र्याः पञ्चसखीभिश्च सार्धं लग्न- महोत्सवः ॥७८५॥ प्रसन्नोऽथ कुमारेन्द्रः स धर्मचारिणीयुतः । नृपदत्ते महावासे सन्तिष्ठति यथासुखम् ॥७८६ ॥
888888
कोल्लाले नगरे जयसुन्दरी वृत्तान्तः
आगत्य भट्टकः कोऽपि सभायां प्राह चैकदा । कोल्लाल - नगरे वीरः पुरन्दर - नरेश्वरः ॥ ७८७॥ तत्पुत्र्या जयसुन्दर्या प्रतिज्ञा चेदृशी कृता । या संश्रुता मया तत्र वक्ष्याम्यहं तथैव हि ॥ ७८८ ॥ १. मरेणुः मरणैः विना = मकार, रकार, ण कार विना यद् रूपं आसादयति प्राप्नोति कं ? अ-ए-उ:, अ+ ए = ऐ+उस् + उस् आयुः, तेनाभावेन सिद्धानामक्षया स्थितिः ।
Jain Education Inte 2010_05
=
For Private & Personal Use Only
= आय
888888
काव्यम्
८९
xxww.jainelibrary.org