SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈認 अपाठयत् सुबुद्धिस्तु मदनां जिनवाङ्मयम् । जाता धीरा विनीता च लज्जादि सुगुणान्विता ॥५६॥ यथा गुरुस्तथा शिष्यः निर्दिष्टं तु सुभाषिते । सुरा जाता कुदृष्टिस्तु मदना सौम्यदर्शना ॥५७॥ आनायिते निजपार्श्वे बाले ते सुपरीक्षितुम् । पित्राऽन्यदा सभायां वै ते कलाचार्य-संयुते ॥५८॥ तयोर्मति-परीक्षायै समस्यापदमर्पितम् । नृपेणानंदयुक्तेन 'पुण्यात्किं किं सुलभ्यते' ॥५९॥ | अतिचञ्चल-चित्तत्वात् विदग्धत्वाच्च संमदात् । क्षणेन पूरयामीति वदति सुरसुन्दरी ॥६०॥ • यौवनं च सुरूपञ्च विदग्धत्वं वरं धनं । स्वचेतःप्रियकृत् भर्ता पुण्यादेतानि लभ्यते ॥६१॥ ॐ श्रुत्वैतद् भूपतिर्दृष्टः पाठकेनापि शंसिता । सत्यं सत्यं मृषा नास्ति वदन्ति च सभासदः ॥६२॥ • पूरयति नृपादिष्टा मदनाऽपि ततोऽपरा । समस्यां धीर-गंभीरा शान्ता दान्ता स्वभावतः ॥६३॥ * विनयश्च विवेकश्च प्रसत्तिश्च' सुशीलता । हेतुश्च मोक्ष-मार्गस्य पुण्यादेतानि लभ्यते ॥६४॥ 取靈靈靈靈靈靈驗靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈體 १. प्रसत्ति:-प्रसन्नता । in Education Inte 4201005 For Private & Personal Use Only ama.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy