________________
श्रीपाल - मयणामृत
धवलो युयुधे राज्ञा पातितोऽथ भुवस्तले । पृथ्वीपालेन रज्ज्वा सः सेवकै र्निगडीकृतः ॥ ३९९ ॥ तत्रैव वटवृक्षे सश्रेष्ठी बद्धो ह्यधोमुखम् । स्कन्धौ मानोन्नतौ तस्य हतगर्वी कृतौ यथा ॥ ३९२ ॥ परितः सायुधा योधा रक्षणाय नियोजिताः । तं दृष्ट्वा नीतिभङ्गो न क्रियते केनचित्कदा ॥३९३॥ Gusaisi नैवमोक्तव्यः शिक्षित्वेति स्व सेवकान् । महाकालः स भूपालश्चचाल स्वपुरं प्रति ॥ ३९४॥ अत्रान्तरे कुमारोऽपि धवलं प्राह भो वद क्व गतास्ते भटाः कोटिः प्रतिमासं प्रदीयते ॥ ३९५ ॥ तस्य वाचाथ संसृत्या-वदत् श्रेष्ठी हतप्रभः । निःशरणो यथा भूपं श्रयते करयोजनं ॥ ३९६ ॥ हा ! निर्याति कथं वीर ! भाषैषा तु मुखात्तव । न शोभते क्षताङ्गे हि क्षारप्रक्षेपणं तव ॥ ३९७ ॥ कोऽप्युपायो महाभाग ! त्वया कार्यो यथोचितः । सम्पत्ति र्येन पाणौ स्यात्तथापत्तिः पराभवेत् ॥३९८॥ अद्यापि तव सर्वस्वं यदिचेद्वालयाम्यहम् । तर्हि ददासि मह्यं किं श्रेष्ठिन् ! सत्यं वचो वद ॥ ३९९॥ असम्भवं वचः श्रुत्वा ब्रूते स धवलोsपि यद् । सर्वस्मिन् वलिते तुभ्यं तस्यार्धं तु ददाम्यहम् ||४०० ॥
Jain Education Inter 9 2010_05
For Private & Personal Use Only
822828298898988
काव्यम्
४४
w.jainelibrary.org