SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ काव्यम् 683 श्रीपाल- Wl इत्येवं बोध्यमानोऽपि सन्तोषरहितो नृपः । मृगयार्थं गतः सप्त-शत-वण्ठै र्वने तदा ॥९५०॥ मयणामृत * धर्मध्वजयुतं तत्र मुनि प्रेक्ष्य नृपोऽवदत् । कश्चामरकरोऽत्राऽयं कुष्ठिरूपश्च दृश्यते ॥९५१॥ | नृपवाक्याच्च वण्ठैस्तै मुनिश्रेष्ठ उपद्रुतः । श्वेव विताड्यते साधुः क्षमावाँल्लोष्टु-यष्टिभिः ॥९५२॥ यथा यथा मुनिश्रेष्ठस्ताड्यते स्म तथा तथा । प्रावर्धत रसः शान्तः स्वभावालम्बनेन हि ॥९५३॥ | भूपते हृदि वर्धन्ते हर्षोर्मय इवोदधौ । सत्कारयन्ति ह्यात्मानं कृत्वाऽप्यागांसि पापिनः ॥९५४॥ | तथान्यस्मिन्दिनेऽगच्छदाखेटाय स कानने । मुनिमेकं नृपोऽपश्यत्सरितायाः तीरे स्थितम् ॥९५५॥ | तं प्रेक्ष्याथ मुनि शान्तं कराभ्यां सहसा नृपः । पातयित्वा सरिन्नीरे न्यकार्षीत् त्वरितं तथा ॥९५६॥ गृहमागत्य देवी सा ज्ञापिता ऋजुभावतः । तयापि बोधितस्तत्र मधुरवचनै र्यथा ॥९५७॥ | अन्येषामपि जीवानां पीडा तु दुःखदा खलु । पुनर्नूनं मुनीनां तु हा ! दारुण-फल-प्रदा ॥९५८॥ मुनिघातस्तु जन्तूनां दीर्घ-संसार-कारणम् । भवेच्च दुर्लभा बोधिरेवमुक्तं जिनागमे ॥९५९॥ 靈靈靈靈綴飄飄飄飄飄飄飄强强强强强强臨 १०९ ___JainEducation inm 2 010_05 For Private Personal use only voww.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy