________________
काव्यम्
श्रीपालमयणामृत
望靈盟獵獵靈靈靈靈飄飄飄飄飄飄飄盪盪盟認
स सौवहस्तिकं शस्त्रं महाकालोऽपि मुञ्चति । तदौषधि-प्रभावान्न स्पृशत्येनं कुमारकम् ॥४१०॥ | ततस्तेनैव शस्त्रेण पराजित्य महीपतिम् । बलसैनिक-शस्त्रैः किं भाग्याधीनो जयः खलु ॥४११।।
बद्ध्वा नयति भूपं तं पञ्जरस्थं मृगारिवत् । उपनौवणिजं याव-ज्जितकासी कुमारकः ॥४१२॥ | बद्धं दृष्ट्वा नृपं नष्टाः धवलस्य तु रक्षकाः । रक्षित स्वामि-नाशे किं प्रियं कस्य न जीवनम् ॥४१३॥ | तं धवलं कुमारेन्द्रः बन्धनान्मोचयत्यलम् । जयोत्सवे नरेन्द्रेशो यथा मोचयते ग्रहान् ॥४१४॥ धवलो बंधतो मुक्तो गृहीत्वासिं प्रधावति । यावन्नृपं निहन्तुं स श्रीपालेन निवारितः ॥४१५॥ गृहागतस्तथाबद्धः पीडितः शरणागतः । वृद्धः पलायमानश्च वधस्तेषां निषेधितः ॥४१६॥ | श्रेष्ठी नष्ट-भटानां तु वृत्तिं भिनत्ति रोषतः । काले येऽनुपयुक्ताश्च तेषु द्रव्यव्ययेन किं ॥४१७॥ अशरणै विहङ्गै र्यै न्यग्रोधः श्रीयते यथा । अन्यां गतिमदृष्ट्वा ते जाताः कुमार सेवकाः ॥४१८॥ १. ग्रहः = केदी ।
盤靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈盟盟
Jain Education Inte
1
2010_05
For Private & Personal use only
jainelibrary.org