________________
काव्यम्
श्रीपालमयणामृत
नृपनिर्देशतो यावत् तमानयति सागसम् । लक्षयित्वा कुमारस्तं वक्ति भूपं विहस्य च ॥५२३॥ एष तु तात-तुल्योऽस्ति ममैतं तात ! मुञ्चतात् । प्रोच्यैवं मोचयाञ्चक्रे श्रेष्ठिनं धवलं नृपात् ॥५२४॥ श्रीपालेन्द्रोऽथ नाकीव स्वर्गवद्राजवेश्मनि । सौख्यान्यन्यैर्दुरापानि भुंक्ते नित्यं प्रमोदतः ॥५२५॥ श्रीपालेऽथ सुखासीने वणिक् कोऽपि समागतः । कृत्वाऽञ्जलिं कुमारेन्द्रं विज्ञापयति नाथ हे ! ॥५२६॥ | गमनार्थ निजे देशे धवलेनाऽथ श्रेष्ठिना । सज्जीकृतास्तटे पोता जलं-धान्यादिनाभृताः ॥५२७॥ (युग्मम् )
अस्माभिस्तव पोताश्च पूर्णीकृता क्रयाणकैः । अतः शीघ्रण युष्माभिरागन्तव्यं स्वयानके ॥५२८॥ श्रीपालेन समापृष्टो देशे गन्तुं नृपस्तदा । शिक्षां दत्वा निजां पुत्री जामातरं व्यसर्जयत् ॥५२९॥ प्रस्थान-मङ्गले काले भेर्यादौ वादिते सति । याने स्थित्वा महाब्धौ च श्रीपालोऽपि चचाल स ॥५३०॥ पल्यौ श्रियं कुमारस्य दृष्ट्वा धवल-मानसे । मात्सर्य-ज्वलनो जातो यथा दावानलो वने ॥५३१॥ एकाक्यपि स सम्प्राप्तः लक्ष्मी तु महती महो । यस्येदृश्यौ स्त्रियौ सत्यौ धन्यो विश्वेऽखिलेऽप्ययम् ॥५३२॥
微盟靈靈靈靈靈靈靈器靈飄飄飄飄飄靈靈靈靈靈靈靈靈
Jain Education Intel
2010_05
For Private & Personal use only
w.jainelibrary.org.