________________
श्रीपाल - मयणामृत
Jain Education Intern
विभूषिताऽप्यलंकारैः शीलालंकारवर्जिता । श्वेताप्यशुचिलिप्ता गौस्तथा वामा न शोभते" ॥१४५॥ अस्तं गतो रविः सायं मदनां द्रष्टुमक्षमः । द्रष्टुं तां दृढसत्त्वां तु पुनः प्रोदयते रविः ॥ १४६ ॥ नाभेयमन्दिरं प्राप्त उम्बरो मदनाऽनुगः । प्रणम्यादि - जिनं तत्र रोमाञ्चित शरीरवान् ॥ १४७ ॥ प्रसन्नवदना तत्र मदना मधुर स्वरा । स्वामिनं श्री - युगादीशं स्तोतुं प्रक्रमते मुदा ॥१४८॥ युगादौ देवदेवाय योगीश्वराय शंभवे । नाभिकुलाब्जहंसाय स्वामिस्तुभ्यं नमोनमः ॥१४९॥ सर्वविघ्नहरं नाथं सर्वसिद्धिप्रदायकम् । सर्वसत्त्वहितं वन्दे श्रीकरं परमार्थदम् ॥ १५०॥ अनाथाऽशरणानां त्वं-नाथस्त्वं शरणं तथा । भवे भवे सदा भूयात्त्वमेव शरणं मम ॥ १५१ ॥
जिनालये भावोल्लासः
एवं जिनस्तवे मग्ना मदना वर्तते सुधीः । तावदुच्छलिता माला जिन- कण्ठावलम्बिता ॥ १५२ ॥
2010-05
For Private & Personal Use Only
काव्यम्
१७
'www.jainelibrary.org