________________
काव्यम्
श्रीपालमयणामृत
网靈鬚飄飄飄飄飄靈飄飄飄飄飄飄飄靈靈靈靈飄飄靈靈靈靈靈
राजकुमार-तुल्याः ये तोषयन्ति निजं गणम् ।
सूरिपदस्य योग्यास्तान् ध्यायामि वाचकान् सदा ॥१०६२॥ द्वादशाङ्गी-सुधाम्भोधे जलपोतैक-तत्पराः । ध्यानाध्ययन-युक्तांस्तान् ध्यायामि वाचकान् सदा ॥१०६३॥
दर्शन-ज्ञान-चारित्र-श्रुत-सामायिके सदा । यैश्चर्यन्ते त्रियोगैस्तान् सर्व-साधू स्तवीम्यहम् ॥१०६४॥ * यतिधर्मे प्रसक्ता ये प्रवचनाष्टमातृजे । धारकाः षड्व्रतानां तान् सर्व-साधू स्तवीम्यहम् ॥१०६५॥ | शीलाङ्गस्थ-मारूह्य येऽष्टादशसहस्रकम् । भवाटवी व्ययन्ते तान् सर्व-साधू स्तवीम्यहम् ॥१०६६॥
कर्मकश्मल-शुद्ध्यर्थं तपस्यन्ति द्विधा तपः । सहन्ते परीषहाँस्तान् सर्व-साधू स्तवीम्यहम् ॥१०६७॥ द्विविधोपधि संयुक्ताः शिक्षाद्वयेन शिक्षिताः । द्विध्यानेन विमुक्तास्तान् सर्व-साधू स्तवीम्यहम् ॥१०६८॥ सदेवगुरुतत्त्वेषु श्रद्धानं परिकीर्तितम् । दर्शनं ज्ञानिभिस्तस्मै दर्शनाय नमो नमः ॥१०६९॥ क्षायिकादिप्रभेदैर्यद् समये दर्शितं त्रिधा । जिनेन्द्राणां पुनस्तस्मै दर्शनाय नमो नमः ॥१०७०॥
望眾靈靈靈靈靈靈靈擺
१२३
S
Join Education Inter
1
wjainelibrary.org
For Private & Personal Use Only
2010_05