________________
श्रीपालमयणामत
काव्यम्
蒙蒙眾張强强强强强蒙蒙蒙發飄飄飄蹤監獄獵獵飄飄飄飄
तदा निज-गुरुत्वाच्च मदनाया विडम्बनात् । कृतः गर्व इदानीं तु भुनज्मि कर्मणो फलम् ॥८६६॥ उक्तं च (शार्दूलविक्रीडितम्)
पत्रं नैव यदा करीर-विटपे दोषो वसंतस्य किम्, नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् । धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम्,
यत्पूर्वं विधिना ललाट-लिखितं तन्मार्जितुं कः क्षमः ॥८६७॥ | धन्यानां मदना धुर्या सुशीला कुल-दीपिका । हा हाऽहं कृतपापाऽस्मि कुल-शील-विवर्जिता ॥८६८॥ सद्धर्मो मदनायास्तु फलितः कल्पवृक्षवत् । मिथ्याधर्मो मया ज्ञातो दुःखदो विषवृक्षवत् ॥८६९॥ सम्यक्त्व-सत्त्व-शीलेषु यतध्वं मदनेव च । मिथ्यात्व-मदमारिषु नेक्षितव्यं मनागपि ॥८७०॥ श्रीपालेन समानीतोऽरिदमनः चमू-गणात् । महाकाल-महीपाल-प्रदत्तात्कर-मोचने ॥८७१॥
盟盟綴飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈殿毁盤
Jain Education Intern
2010_05
For Private & Personal use only
AHMM.jainelibrary.org.