________________
श्रीपालमयणामृत
काव्यम्
靈靈靈靈靈飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈靈盟
पृष्टा सा रुदन्ती पित्रा विस्मितेनाऽऽननेन हि । वत्सेऽयं कोऽस्ति वृत्तान्तस्तयापि भणितं तदा ॥८५७॥ सुरसुंदर्याः दुःखदः वृत्तान्तः पश्चातापश्च भोंपेता तदा तात ! शङ्खपुरमहं गता । परिणीयेतस्तु यावत् तादृश्या सम्पदायुता ॥८५८॥ मुहूर्ताय स्थितस्तत्र जामाता ते पुराबहिः । सुभट-परिवाराद्यैः समागच्छत् स्ववेश्मनि ॥८५९॥
अत्रान्तरे महाघाटी चौराणां पतिता तदा । जीवं लात्वा च मां मुक्त्वा जामाता ते पलायितः ॥८६०॥ | चौरैर्भटै गृहीताऽहं युष्मदत्त श्रिया समम् । तै विक्रीता च नेपाले गृहीता सार्थपेन हि ॥८६१॥ विक्रीता सार्थनाथेन यद्बर्बर-कुले पुनः । वेश्यया संगृहीताऽहं गीत-नाट्यं च शिक्षिता ॥८६२॥ महाकालनरेन्द्रो यः क्रीतवान् नाटकप्रियः । नट-पेटकसंयुक्तां गणिकातश्च मां ततः ॥८६३॥ तेन राज्ञा पुनर्दत्ता नवभिर्नाटकैः समम् । सुता-मदन सेनायाः स्वामिने कर-मोचने ॥८६४॥ नृत्यन्त्या च तदने तु कालो यो गमितो मया । परिवार निजं दृष्ट्वा दुःखमुल्लसितं मम ॥८६५॥
徵靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈数靈靈部
___JainEducation inte
2010_05
For Private & Personal use only
aineisy.org