________________
श्रीपाल-
काव्यम्
मयणामृत
孤飄飄飄飄飄飄飄飄飄飄飄飄飄靈
मिलिते स्वजने चैवं हर्षोत्कर्षं ततो गतः । नाट्यं कर्तुं तदा शीघ्रं श्रीपालेशः समादिशत् ॥८५१॥ उत्सवे डीम्बमध्यात् सुरसुन्दरी प्राप्ता | आद्यनाटक-वृन्देऽथ प्रोत्थितेऽपि प्रनर्तकी । नोत्तिष्ठति बहूक्ताऽपि सा तु कैरपि लज्जिता ॥८५२॥ । नृत्य-धर्मे ! कथं नृत्ये लज्जा तव क्षणे पले । “त्यक्त-धर्मा भवेत्सर्वे विश्वेऽनर्थो महाँस्तदा" ।
नितान्तं' प्रेरणातोऽन्यैः सा समुत्थापिता तदा । सविषादं निरुत्साहं पठितं दोहकं तया ॥८५३॥ | किहां मालव किहां शंखपुर किहां बब्बर किहां नट्ट ।
सुरसुन्दरी नच्चावियइ दइविहि दलवि भरट्ट ॥८५४॥ श्रुत्वेति वचनस्तस्याः सर्वेऽपि चिन्तयन्ति ते । हा ! सुरसुन्दरी नूनं कुत एषा समागता ॥८५५॥ मातृकण्ठे विलग्ना सा भये मर्कट-पुत्रवद् । पपाताश्रूणि नेत्राभ्यां बाढं रुरोद बालवत् ॥८५६॥ १. अत्यंत । २. व मालव देशः (यत्र जन्माभूत्) व शङ्खपुरी (यत्र परिणायिता) व बब्बर देशः (यत्र विक्रीता) व नृत्यं (लोकानामग्रे नृत्यकरणं) ? दैवेन (मदृति =) गर्वं दलयित्वा सुरसुन्दरी नृत्यते ॥८५४॥
飄飄飄飄飄飄飄飄飄盪盪飄飄欧盟靈靈靈靈靈靈靈靈器
X
_JainEducation Inte
w.jainelibrary.org
For Private & Personal Use Only
201005