SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीपाल मयणामृत आगन्तुञ्च तथा रीत्या दूतेनाऽऽज्ञापितस्तदा । कुप्यति च प्रजापालः मन्त्रिणा वारितः यथा ॥८४२॥ क्रियते न समानेन सार्धं निजबल-व्ययः । विचार्य नीतिवाक्यं तां दूतवाचां प्रधार्यताम् ॥८४३॥ ततो मालव-भूपोऽपि सामन्तादिवृतः प्रगे । स्कंधे स्वाधीतिमारोप्य स्कंधवारं यदेति सः ॥८४४॥ दूरीकृतस्तदैव श्री - श्रीपालेन परश्वधः | सन्मानितः प्रजापाल, रूपावेश्य वरासने ॥८४५ ॥ प्रणम्याथ पितुः पादौ मदना वक्ति तं प्रति । तात ! मे कर्मणा दत्तः वरस्सोऽयं नृपोत्तमः ||८४६॥ प्रजापालेन साश्चर्यं श्रीपालः स नमस्कृतः । जल्पति च न हि ज्ञातः प्रभावस्ते मया पुरा ॥८४७॥ नास्ति कश्चित्प्रभावो मे प्राह श्रीपाल भूपतिः । परं गुरूपदिष्टस्य सिद्धचक्रस्य दृश्यते ॥८४८॥ एषा वार्ता चमत्कारी आजन - राजमन्दिरम् । कर्णोपकर्णैः व्याप्ता जलेषु तैलबिन्दुवत् ॥८४९॥ सौभाग्यसुन्दरी - रूपसुंदरी प्रमुखा अपि । तदाश्चर्यं समाकर्ण्य प्रयान्ति तत्र मण्डपे ॥८५०॥ १. स्कन्धावार: शिबिरः । २. यदा + इति ( गच्छति ) । Jain Education Inte 982 2010 05 For Private & Personal Use Only काव्यम् ९६ www.jainelibrary.org.
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy