________________
काव्यम्
श्रीपालमयणामृत
蒙靈靈靈靈盟盟盟認靈靈靈靈靈露蒙蒙蒙蒙靈靈蒙蒙蒙
अङ्गीकुर्वे प्रव्रज्यां हि पापत्रय-विघातिनीम् । नान्य-मार्गोऽस्ति संसारो दधौ पापकृतो हि मे ॥९०८॥ यत:प्रव्रज्या भवपाथोधिनिस्तारणतरी-निभा । प्रव्रज्या साम्यमाकन्द-वसन्तसमयोपमा ॥९०९॥ यावच्चिन्तयति ज्ञानं जातिस्मृत्यभिधं ध्रुवम् । समुत्पन्नं क्षणां तेन पूर्वभवस्तु संस्मृतः ॥९१०॥ तत्स्मृत्याजितसेनोऽपि सर्वविरति-नामकम् । प्रत्यपद्यत चारित्रं विबुध-दत्त-वेषकः ॥९११॥ | दृष्ट्वा प्रपन्न-चारित्रं तद्राजर्षि प्रणम्य च । स्तौति श्रीपालभूपोऽपि शीघ्रं सद्भावतः यथा ॥९१२॥
श्रीपालेन कृताऽजितर्षिस्तुतिः • क्रोधादि-दश्यवो ये ये क्षान्ति-खड्गेन संहताः । सुरेन्द्रैरपि दुर्जेया भवते मुनये नमः ॥९१३॥
त्रिकं रागादि-निर्धूतं स्वकीयचित्त-वस्त्रतः । द्वेषो वशीकृतो येन भवते मुनये नमः ॥९१४॥ प्रायश्चित्तं न गृह्णात्यशुभयोग-गतं खलु । पाप-प्रपतितायाधं तस्मै सद्योगिने नमः ॥९१५॥ १. प्रायः = बाहुल्येन, अघं-पापं न गृह्णाति चित्तमिति कर्ता पापात् प्र-प्रकृष्टेन पतितः मुक्तः तस्मै पतिताय ।
鹽鹽飄飄飄飄飄飄飄飄飄飄飄飄蒙蒙蒙蒙眾盟徽盟靈靈靈發出
१०४
JainEducation Intemand2010_05
For Private & Personal use only
jainelibrary.org