SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपाल- | यावन्निर्याति कन्या सा गर्भगृहाच्छुभावहा । समुल्लसित-रोमाञ्चा कृतपूजा शुभोदया ॥४६०॥ मयणामृत-18 कपाट-युगलं गर्भ-गृहस्य मीलितं दृढम् । बलिष्ठेनापि नैवेदं प्रोद्घटते प्रणोदितम् ॥४६१॥ संलब्ध-चिरनिद्रावत् दृश्यते मन्दिरं तथा । बहुयत्नैर्न जागर्ति कुम्भकर्णो यथा चिरम् ॥४६२॥ | सुता रोदिति तद् दृष्ट्वा हा हा विराधना मया । किं कृता येन हे नाथ ! लभ्यते दर्शनं न ते ॥४६३॥ | आज्ञाहीनं क्रियाहीनं मन्त्रहीनञ्च यत्कृतम् । तत् सर्वं कृपया देव ! क्षमस्व परमेश्वर ! ॥४६४॥ | आज्ञां तव न जानामि न जानाम्यर्चनाविधिम् । भक्तिं ते नैव जानामि क्षमस्व परमेश्वर ! ॥४६५॥ • अज्ञातास्मि ध्रुवं तस्मात् पूजावज्ञाभवद्यदि । त्वं क्षमस्वापराधं मे दर्शनं देहि मे प्रभो ! ॥४६६॥ | नृपेणोक्तं सुते ! नैव दोषोऽस्ति ते परं मम । मया जिनालयेऽकार्या वरचिन्ता कृता तव ॥४६७॥ | रोषं जिना: न कुर्वन्ति कुतश्चन कदाचन । नष्टे हेतौ तु बीजस्या-प्यंकुरः किं भवेत्कदा ॥४६८॥ • तथापि ज्ञायते नूनं चेतसि मम कारणम् । रुष्टाः स्यु जिनदेवस्याधिष्ठायकामराः यदि ॥४६९॥ 琪飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄 靈靈靈靈靈靈靈靈靈靈靈飄飄飄飄靈靈靈靈靈靈靈靈靈靈望 Jain Education Inte1982) 2010_09 183 For Private & Personal use only sow.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy