________________
काव्यम्
श्रीपालमयणामृत
盟盟盟飄飄盪盪露盟强强强强强靈靈靈强
नाऽपाकृतं यदा द्वारं कृतयत्नैः जनैः परैः । तेऽथ सर्वेऽपि निर्भाग्याः प्रेरयन्ति कुमारकम् ॥४८७॥ कुमार हे ! पवित्रात्मन् द्वारमपावृणु प्रभो ! । यत्कुमार्याश्च ते भाग्य-मंदिरद्वारवत् खलु ॥४८८॥ स सज्जीभूय सानंदः जनताप्रेरितस्तदा । परिधायोत्तरासंगं नैषेधिकीयुतः मुदा ॥४८९॥
प्रविशति यदा सिंह-द्वारेऽररियुगं द्रुतम् । किंक्रिमितिरवं कृत्वा तद्दृष्ट्याऽहो विमोचितम् ॥४९०॥ | स्तुत्वा ऋषभदेवेशं कुमारो विधि-पूर्वकम् । भावेन शुद्धचित्तेन करोति चैत्यवन्दनम् ॥४९१॥
यतः | चैत्यवन्दनतः सम्यक् शुभो भावः प्रजायते । सर्वकर्मक्षयस्तस्मात् ततः कल्याणमाप्यते ॥४९२॥
विधाय भावपूजां स निर्याति चैत्यतो बहिः । पुष्पवृष्टिसमं पौराः जयवृष्टिं व्यधु सुदा ॥४९३॥ | तदोदन्तं पुरिव्याप्तं सौरभ्यमिव वायुना । तं विज्ञाय नृपो हृष्टः सुताद्यैः सहितोऽगमत् ॥४९४॥ | समागत्य नृपामात्य-सुतादिक-जनास्तथा । वंशं-कुलाभिधानञ्च जिज्ञासंतिकुमारकात् ॥४९५॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
___JainEducation intent
2010_05
For Private & Personal use only
www.jainelibrary.org.