________________
काव्यम्
श्रीपालमयणामृत
强强强强靈靈靈靈靈靈靈靈靈靈靈盟
निशम्यैवं ततो नष्टाः सर्वे कुष्ट-भयाद् भटाः । वाञ्छति नामयं कोऽपीत्युक्ति सत्यापिता हि तैः ॥२७०॥ गतेषु तेषु संप्राप्ता सुखेन कमलप्रभा । नगर्यामुज्जयिन्यां तु सहसुता समास्थिता ॥२७१॥ विपदापन्नया मात्रा श्रीपालो पालितस्तया । भूषणक्रय-वित्तेन तान्यापच्छंखला खलु ॥२७२॥ लालितो पालितश्चैवं यौवनमाप पावनम् । स तदोम्बर रोगेण गृहीतकर्म-दोषतः ॥२७३॥ भोक्तव्यानैव कर्माणि तीव्राणि तीर्थरैरपि । यतितव्यं यथा भव्यैः तेषु तीव्र रसो नहि ॥२७४॥ | कृतैरप्युपचारैर्न जातस्तस्य गुणो यदा । रोग निःशमनोपायं पृच्छति सा जनं जनम् ॥२७५॥ • तदा विज्ञाय केनापि कौशाम्ब्यां कमला गता । वैद्यार्थं भालयित्वा स्व-पुत्रं तु प्रातिवेश्मिके ॥२७६॥ • वैद्यं तीर्थ-गतं ज्ञात्वा पत्यैक्षत चिरं स्थिता । विधाय मुनिवाचाऽत्र पुत्रशुद्ध्यर्थमागता ॥२७७॥
सास्म्यहं कमला पुत्र श्रीपाल एष मामकः । भूताऽस्य ते सूता भार्यारूपे । रूपवती सती ॥२७८॥ | जामातरं सुतं ज्ञात्वा सिंहस्थनृपस्य तु । पुत्री प्रशस्य पुण्यां च धर्मरूपाऽनुमोदते ॥२७९॥
山露微飄飄飄飄飄盟盟蹤跟蹤器靈靈靈靈毁毁醫毁毁毁盟器
Jain Education Inter 20201005
For Private & Personal use only
www.jainelibrary.org