SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 靈靈靈靈靈靈飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈 शूकरसिंहभल्लानां घोरशब्दान् निशम्य सा । वेपमाना भयाद् वक्ति रक्षणं देहि मे प्रभो ! ॥२६०॥ दृढीकृत्य मनोभावं यावद् धावति सा पथि । विरूपं पेटकं रौद्रं कुष्ठिनां मीलितं प्रगे ॥२६१॥ तद्दृष्ट्वा बाल-युक्ता साऽबला महाघ-भूषणा । रूपवती भयाधीरा प्रारेभे रोदितुं तदा ॥२६२॥ रुदन्ती प्रेक्ष्य तां कुष्ठि-मानवा अनुकम्पया । भद्रे ! कथय काऽसि त्वं प्राप्ताऽसि च कुतोभयम् ॥२६३॥ भ्रातृवत्तान् निजोदन्तः कथितश्च तदा तया । एवमाश्वासिता तैस्तु कुष्ठ र्भगिनिकेव सा ॥२६४॥ वयं तव सहोदर्याः मा त्वं भैषीः कुतश्चन । भगिनि ! चाश्चतर्यां हि समारुह्य समाव्रज ॥२६५॥ आरूढा वर वेसर्या सा तदाच्छादिता पटैः । स्वपुत्रेण युता तत्र प्रव्रजति सुखं पुनः ॥२६६॥ तावत्पृष्टाः समागत्य वैरिभटैस्तु कुष्ठिकाः । राज्ञी दृष्टा किमेका भो ! भवद्भिरत्र कानने ॥२६७॥ कुष्ठिजनैस्तदा प्रोक्तमस्मत्पार्श्वे भृशं भटा ! । 'पामास्ति', तां प्रगृह्णन्तु कार्यं स्यात् भवतां यदि ॥२६८॥ भटेनैकेन संज्ञाय प्रोक्तं श्रृणुत भो भटा ! । सत्यं वदन्ति त्वक्पुष्पां-पामामिमे ददत्यहो ॥२६९॥ 鐵器設靈靈靈靈靈飄飄飄飄飄飄飄飄飄飄蒙蒙蒙蒙蒙蒙蒙蒙 Jain Education Inten 2010-05 For Private & Personal use only avainelibrary.org.
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy