________________
काव्यम्
श्रीपाल- एकदा ष्ठीव्यते लोकैरेकदा पूज्यते च तैः । न स्थिरा सर्व-संयोगा गहना कर्मणां गतिः ॥२९८॥ मयणामृत-8
राजमार्गे हयारूढो यावद्गच्छति चैकदा । "कोऽस्ति देवकुमारोऽसौ" पृच्छति कोऽपि नागरः ॥२९९॥
नृपजामातृत्वे श्रीपालस्य निर्वेदः विदेशाटनं च • "जामातास्ति नरेन्द्रस्या" वदल्लोकः पथि स्थितः । निशम्य तस्य वाक्यं स प्रत्येत्य गृहमागतः ॥३०॥ | सविषादं कुमारं तं दृष्ट्वा पृच्छति तज्जनिः । किं व्याधि बर्बाधते कोऽपि वपुषि वत्स वर्णय ॥३०१॥ | केनापि खण्डिताज्ञा किं केनाप्यनादरः कृतः । मदनाऽविनया किं वा कथं म्लानं तवाननम् ॥३०२॥ विद्यतेऽमीषु हे मात ! ह्येकमपि न कारणम् । तथापि श्रूयतामास्यं निष्प्रभं केन हेतुना ॥३०३॥ पित्रो नाम्ना गुणैर्नास्ति ख्यातिनिजै र्गुणै र्मम । किन्तु नृपस्य जामाताऽस्मीति श्वासुरकै र्गुणैः ॥३०४॥ उत्तमाः स्वगुणैः ख्याताः पितृगुणैश्च मध्यमाः । अधमाः मातुलैः ख्याताः श्वसुरैश्चाधमाधमाः ॥३०५॥ अम्बा वदति हे पुत्र ! निःशल्यं कुरु चोच्चलम् । गृहीत्वा पितृराज्यं त्वं संगृह्याथ चतुश्चमूम् ॥३०६॥ १. उच्चलम् = चित्तम् ।
眾飄飄飄飄飄飄飄飄飄飄飄靈靈靈靈靈靈
盟盟飄飄盪盪强强强强强强强盟强强强强靈盟飄盪盤露露器
Jain Education Inter 11
2010_05
For Private & Personal use only
ajainelibrary.org