Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521009/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरु: ९ RO सङ्कलनम् कीर्तित्रयी उत्तरायणम् Jain Education Internatio For Paters Use Only Page #2 -------------------------------------------------------------------------- ________________ AK सङ्कलनम् (कीर्तित्रयी उत्तरायणम् Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः ॥ नवमी शाखा ।। (संस्कृतभाषामयं अयन-पत्रम् ।।) सङ्कलनम् : कीर्तित्रयी॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ।। वि.सं. २०५९, ई.सं. २००३ मूल्यम् - संस्कृतसाहित्यरुचिः ॥ प्राप्तिस्थानम् :) श्रीविजयनेमिसूरीश्वरजी स्वाध्यायमंदिर १२, भगतबाग, शेठ आणंदजी कल्याणजी पेढी समीप, पालडी, अमदावाद - 380007. दूरभाष : 6622465 सम्पर्कसूत्रम् :) "विजयशीलचन्द्रसूरिः" C/o. रजनीकान्त बी. शाह ३, कुसुमकुंज, जैन टेम्पल स्ट्रीट, वि. वि. पुरम्, बेंगलूर : 560004 दूरभाष : 080-6670835 मुद्रणम् : 'प्रारंभ', अमदावाद ।। दूरभाष : 079-6565653 मोबाईल : 9825011414 Page #4 -------------------------------------------------------------------------- ________________ BEVRAWAWINWIN 68052 प्रास्ताविकम् ॥ "शनैः पन्थाः शनैः कन्था" इति न्यायेन शनैः शनैः प्रचलति नन्दनवनकल्पतरोः प्रकाशनकार्यम् । 'प्रचलति'-इत्येवाऽस्त्यत्र समाश्वासः । अत्र प्रकाशने - अस्माकं ज्ञानवृद्धिर्भवतु, संस्कृतभाषायाः संस्कृतवाङ्मयस्य चाऽऽवश्यकत्वं गौरवं तथा तां प्रति रुचिश्च जनमानसे पुनः स्थापिता भवन्तु - इत्याशयोऽस्ति । ____ आर्यसंस्कृतेः संस्काराणां च रक्षणार्थं पूर्वतनैर्महापुरुषैः सङ्घर्षाः कृताः, सहना कृता, स्वकीयं महत्त्वं गौणं कृत्वा संस्कृतेर्महत्त्वमेव पुरस्कृतम्, तदर्थं च प्राणा अपि प्रत्यर्पिताः । किं किं न कृतं तैः? तथाऽपि किमस्ति कारणं येन संस्काराणां गौरवं तेजः सत्त्वं च निर्वाणकालप्राप्तप्रदीपवदद्य सततं मन्दतामुपगच्छन्ति ? किमर्थं संस्काराणां दारिद्यमेव सर्वत्राऽनुभूयते? केन कारणेन चिरञ्जीविन एते संस्कारा अद्य प्राणसङ्कटे इव पतिताः प्रतिभान्ति ? पाश्चात्यानां संस्कृतेः शनैः शनैरपि सततं पादप्रसारो दृश्यतेऽनुभूयते चाऽपि । वयं स्वकीयां स्वतन्त्रां विचारसरणिं त्यक्तवन्तः स्मः । परेषां चक्षुामेव प्रायो - वयं पश्यामः । दृष्टिरप्यस्माकं तात्कालिक्येव न तु दीर्घकालिकी। आवरणलुब्धा वयं तदन्तःस्थसत्त्वं न परीक्षामहे। कथं सञ्जातमेतत्सर्वम् ? मुख्यमत्र कारणं त्वेकं प्रतिभाति यद् - अस्माकमार्य - 9 संस्काराणां संस्कृतेश्चोज्ज्वलां मूलभूतां परम्परां वहतः संस्कृतवाङ्मयतः प्रजाः प्रजानायकाश्च दूरं गतवन्तः सन्ति । अत एव च सत्यमजानाना वयं लुब्धा गौरवशून्याश्च भूत्वा यत्र तत्राऽटामः । SURGURUBURBULU 96UBE Page #5 -------------------------------------------------------------------------- ________________ 888888888 संस्कृतभाषाया: प्रचारः प्रसारो वा न केवलं भाषां विषयीकरोति । संस्कृतवाङ्मये रक्षिताया अस्माकमार्यसंस्कारपरम्परायाः पुनरुज्जीवनं भवतु इत्यस्ति मुख्य आशयः । अद्य या विडम्बना: करुणान्तिकाश्च भारतवर्षमनुभवति ततस्तस्योद्धारस्येदमभियानमस्ति । अन्यस्या आङ्ग्लादिकाया भाषाया विरोधो वा निषेधो वाऽत्र नास्त्येव । किन्तु स्वसंस्कृतेर्हानमामन्त्र्याऽन्यस्य कस्याऽप्यादरो नार्हति । मातरमुपेक्ष्य परस्या आदरस्य नैषा संस्कृतिः । किन्तु मातरं सर्वोपरित्वेन संस्थाप्य तस्या गौरवं यथा स्यात्तथाऽन्येषामादरस्येयं संस्कृतिः । आर्यसंस्कृतिस्त्वस्माकं माताऽस्ति, नाऽन्या । संस्कृते रक्षणार्थं संवर्द्धनार्थं च संस्कृतस्य रक्षणं संवर्धनं चाऽऽवश्यकम् । तदर्थं च तस्याः प्रचारः प्रसारो वाऽप्यावश्यकः । अत्र दक्षिणदेशे संस्कृतप्रचारो जनेषु च तद्रुचिः सन्तोषप्रदे दृश्येते । अत्र संस्कृतनाटका अप्यायोज्यन्ते । तत्र च प्रबुद्धा जना विद्यार्थिनश्चाऽपि रसपूर्वकं भागं वहन्ति, तेषामानन्दं चाऽप्यनुभवन्ति । एष एतादृशश्च संस्कृतप्रचारः सार्वत्रिको भूयात् । तद्द्द्वारा चाऽस्मिन् देशे स्वकीयाया उज्ज्वलाया उन्नतायाश्च संस्कृतेर्गौरवस्य पुनरुज्जीवनं भूयात् । येन सर्वेऽपि स्वपरहितचिन्तका मानवीयगुणयुक्ताः सत्त्वशीलाश्च भूयासुरित्याशास्महे । कीर्तित्रयी वि.सं. २०५९ फाल्गुनशुक्ला पञ्चमी बेङ्गलूर: Page #6 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः प्रणामाञ्जलिपुरःसरं श्रीविजयशीलचन्द्रसूरीणां विनिवेदनमिदम्सैषाऽष्टमी कल्पतरोर्नवीना शाखा वनं नन्दयति प्रकामम् ।। कामं कृतीनां कृतिनां पलाशैः पुष्पैः फलैरुत्सवमावहन्ती ॥१ माणिक्य-शीलेन्दुयशो-ऽभिराजराजेन्द्रपीयूषमुनित्रयाणाम् । काव्यामृतस्यन्दिविमुग्धवाक्यान्युद्गीतशीलान्यनुबोभवीमि ॥२ सद्यः परनिर्वृति परमानन्दसन्दोहावगाहम्।। | प्रतिपदं प्रपद्य दीप्तं चेतो वाणीरमणाभिलाषिणः ॥३. मर्मनर्मशर्मधर्मवर्माण्यालोच्य कल्पतरोर्महसः । प्लावितोऽहं तु प्रीत्याऽमन्दाकिन्या पान्थोऽप्यपरतन्त्रः ॥४ दिदृक्षां बिभर्मि भवतां पुण्यारण्ये देशे मुनिसेव्ये । नन्दयते यत्र गहनं कल्पतरुस्तरुणैः कुड्मलैः ।।५ मुनिमनसां प्रतिस्पन्दः संस्कृतभारती जेजीयतेऽवनौ । अद्वयीकृत्य राष्ट्र कामं वसुधां कुटुम्बीकरोतु ॐ ॥६ प्रश्रयविनतस्य श्रीसुरेन्द्रमोहनमिश्रस्य कुरुक्षेत्रविश्वविद्यालयाध्यापकस्य Page #7 -------------------------------------------------------------------------- ________________ ॥ श्रीः | वाचकानां प्रतिभावः अतीतेऽषु तेषु दिनेषु याः घटनाः गुजरान्मण्डले घटिताः ता: वृत्तपत्रद्वारा रेडियोद्वारा च शृण्वन् तत्र सहसा कदा किं वा भवेदिति निर्णयं गन्तुमपारयता मया दिङ्मूढतया स्थितम् । एतादृशि सङ्कटसंशयग्रस्ते समये कुशलवार्तानुयोगः समीचीनो / वाऽसमीचीनो भवेदति निर्णयं गन्तुमशक्नुवता मया खिन्नेन तूष्णींभावोऽवलम्बितः । अथ भवत्प्रेषितपत्रिकादर्शनेन "शफरी हृदशोषविह्वलां प्रथमा वृष्टिरिवाऽन्वकम्पयत्" इतिवत् समाश्वस्तोऽभूवम् । अष्टम्यां शाखायां यत् प्रास्ताविकं निवेदितमस्ति, ततोऽपि समीचीनतरं साकालिकं, हितमधुरं भाषितं कदाचित् अन्यत् स्यादपि ? "किन्तु "प्रायो नैति श्रुतिविषयता विश्वमाधुर्यहेतुः" इति खल्वभियुक्तोक्तिः"! अस्यां सञ्चिकायां यानि गुरुदेवतास्तवनानि सन्ति तानि हृदयस्पर्शीनि सन्ति । अपि च काव्यालङ्कारान् विषयीकृत्य रचितानि पद्यानि युगपत् भक्तिजनकानि तच्छास्त्रज्ञानप्रदायीनि च भवन्तीति बहप्रशस्तोऽयमपक्रमः अथ किञ्चिदन्यत् - यदि भवद्भिः प्राकृतस्य संस्कृतछायाऽपि दत्ता भवेत् ततोऽस्मादृशानां बहूपकाराय भवेत् अर्थावगमने । कीर्तित्रय्यै भूयो भूयो नमनं कृतज्ञतां च निवेदयन् विरमामि । भवदीयः विनीतः एम्. के. नझुण्डस्वामी Page #8 -------------------------------------------------------------------------- ________________ डॉ.रूपनारायणपाण्डेयः एस्-२/३३०, राज्यशिक्षासंस्थान कोलोनी, एलनगञ्जः, प्रयागः उ. प्र. २११००२ दि. ११-११-२००२ वाचकानां प्रतिभावः मान्याः, सादरं प्रणामाः । 'नन्दनवनकल्पतरोः' अष्टमोऽङ्कोऽधिगतः । अङ्केऽस्मिन् स्तोत्राणि नितरां रम्याणि सन्ति । श्रीमतो विजयशीलचन्द्रसूरेः 'अलङ्कारनेमिः' गुरुवर्यस्य गौरवेण साकं रचनाकारस्य । कवित्वक्षमता प्रदर्शयति । अभिराजराजेन्द्रमिश्रस्य 'मनो निबोध', डॉ. आचार्यरामकिशोरमिश्रस्य 'लोके कापुरुषः स उच्यते', श्रीएस्. जगन्नाथस्य 'वास्तवम्' च नितरां हृदयं प्रसादयति । मुनिरत्नकीर्तिविजयस्य 'चिन्तनधारा' आतङ्कवादस्य साम्प्रदायिकोन्मादस्य पापाचारस्य च समाधानस्य एकं नूतनं पन्थानं प्रदर्शयति । क्षमया कस्य हृदयं जेतुं न शक्यते ! अनुवादभागे विविधा अनुवादा भाषासौहार्द संवर्धयन्ति । अनेन संस्कृतभाषायाः ग्रहणशक्तिः संवर्धते । संस्कृतसंवर्धनाय विविधासु भारतीयभाषासु संस्कृतस्य या उत्कृष्टरचनाः विराजन्ते, तासां कमनीयं संस्कृतरूपान्तरमतितरामपेक्ष्यते । क्षेत्रेऽस्मिन् पत्रिकायाः प्रयन्ताः श्लाघनीयाः सन्ति । जयत संस्कृतंसंस्कृतिश्च । Page #9 -------------------------------------------------------------------------- ________________ | সঙ্গ: कृतिः कर्ता पृष्ठम् १. वीतरागवन्दना - गेयकाव्यम् मुनिधुरन्धरविजयः २. शरणाष्टकम् विजयहेमचन्द्रसूरिः ५४ विषयत्यागाष्टकम् विजयहेमचन्द्रसूरि ४. प्रव्रज्याग्रहणविधिसूत्रम् मुनिः भुवनचन्द्रः हिन्दुराष्ट्रम् डॉ. आचार्यरामकिशोरमिश्रः वल्मीकगर्भ विश भो मुने!पन: डॉ. सुरेन्द्रमोहनमिश्रः डॉ. सुरेन्द्रमोहनमिश्रः ७. धीरता धीयताम् ८. कौटिल्यबन्दनम् एस्. जगन्नाथः , ७४ Page #10 -------------------------------------------------------------------------- ________________ अनक्रमः कृतिः कर्ता पृष्टम् आस्वादः चिन्तनधारा मुनिरत्नकीर्तिविजयः हृदयप्रदीपः मुनिकल्याणकीर्तिविजयः 11111 मुनिधर्मकीतिविजयः पत्रम् मुनिरत्नकीर्तिविजयः ११. अहोऽद्भुतानि (१-४) १२. अनुवादः मुनिधर्मकीर्तिविजयः CREETC. १३. काव्यानुवादः (१-३) मुनिरत्नकीर्तिविजयः Page #11 -------------------------------------------------------------------------- ________________ अनुक्रमः १४. * कृतिः (कथा) समाधानम् लोभः सर्वविनाशकः समर्पणम् भावनायाः प्राधान्यम् अविवेकः अहंकारः ॥ निःस्पृहः सर्वकामेभ्यो मानवः सुखमेधते ॥ कर्ता विजयसूर्योदयसूरिः विजयसूर्योदयसूरिः मुनिरत्नकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिकल्याणकीर्तिविजय: सा. रत्नचूला श्रीः सा. रत्नचूला श्रीः स्वामी ब्रह्मानन्देन्द्रसरस्वती पृष्ठम् १०३ १०४ १०५. १०९ ११७ ११८ ११९ Page #12 -------------------------------------------------------------------------- ________________ कृतिः कता पृष्ठम् প : २५. मम-में १२६ * संवेगमंजरीकुलयं मुनिकल्याणकीर्तिविजयः मह पाकिद सिक्खा परंपरा अरैयर् श्रीरामशर्मा १३३ अरैयर श्रीरामशर्मा १३८ संखा-सण्णा Page #13 -------------------------------------------------------------------------- ________________ GO Page #14 -------------------------------------------------------------------------- ________________ १. नित्यनुव्य. other वीतरागवन्दना - गेयकाव्यम् मुनिश्री धुरन्धरविजयविरचितम् प्रस्तावनागीतम् हे वीतराग ! तव चरणवन्दनम् विरतिरमणीरासखेलन- सरससुरतरुनन्दनम् । भवदवानलदाहदाहन-मलयगिरिजचन्दनम् । कोटीकोटिभवालिसञ्चित - पापवृन्दनिकन्दनम् । अमरसुरनरकिन्नरौघैः 'सततसेव्यमनिन्दनम् । मुक्तिरमणीरमणयोगैः भव्यचित्तानन्दनम् ॥ सर्वधर्मधुरन्धरं तत् निखिल पुण्यनिबन्धनम् ॥ १ Page #15 -------------------------------------------------------------------------- ________________ श्रीऋषभदेववन्दना - १ चैत्यवन्दनम् प्रथमधराधव ! प्रथमजिन ! प्रथमादृतयतिधर्म ! । प्रथमधर्मतीर्थंकर, वन्दे, त्वां कृतशर्म ! ॥१॥ मरुदेवातनुजात ! तात- नाभिनृपतिनन्दन ! । चन्दनरसचर्चितचरण ! गुणसुरतरुनन्दन ! ॥२॥ विमलाचलभूषणमणे ! शिवपावितकैलास ! । अङ्कधुरन्धर ! जय सदा भविकहृदयकृतवास ! ॥३॥ ॥१॥ जय स्तवनम् राग - बिलावल जय जिनवर ! जगतीपते ! जगतीजनभानो ! । जय जितजन्मजरामृते ! धीरतासुरसानो ! ईक्ष्वाकुवंशाम्बरे, शरदुज्ज्वलचन्द्रः । शरणागतकरुणाकूता - वनिशं गततन्द्रः नाभिराजकुलमण्डनो, दण्डितरिपुवृन्दः । जगति प्रथमनराधिपो, यशसा जितकुन्दः लक्षसुलक्षणलक्षितः, क्नकच्छविकायः। पूर्णैः पञ्चधनुःशतै - मितदेहोच्छायः ॥ जय ॥३॥ जय ॥४॥ जय Page #16 -------------------------------------------------------------------------- ________________ मरुदेवोदरपद्मिनी - विकसितसितपद्मः । आदिमुनिजनपुङ्गवो, हतनिखिलच्छद्मः ॥५॥ जय आरूढो विमलाचले, नवनवतिपूर्वम् । समवसृतो राजादनी - तल एतदपूर्वम् ॥६॥ जय तुहिनाचलशिखरे वरे तपसोज्झितदेहः । अयुतमितैर्यतिभिर्युतो- ऽलङ्कृतशिवगेहः ॥७॥ जय विमलाचलगिरिभूषणो, गतदूषणपुञ्जः। हृदये मम रमतां सदा, गुणतरुवरकुञ्जः ॥८॥ जय लोकालोकविलोकको, विनतेन्द्रसमाजः । चरणालीनधुरन्धरः प्रथमो जिनराजः ॥॥ जय इत्थं स्तुतः प्रथमतीर्थपतिः प्रसिद्ध-सिद्धाचलाद्यशिखरे प्रथितप्रतिष्ठः । कुर्याच्छुभं मनुकुलाद्यपितामहोऽसौ, पृथ्वीतले सकलनीतिधुरन्धरो नः ॥ स्तुतिः नतसुरासुरशेखरसम्पतन्मधुपिशङ्गितसत्क्रम ! सन्मत ! । जय सुनाभिकुलाम्बुरुहारुण ! विगतरोगतरोऽघतमोऽरुण ! ॥१॥ 6 Page #17 -------------------------------------------------------------------------- ________________ श्री अजितदेववन्दना चैत्यवन्दनम् गर्भस्थेsपि जिने सदा, जनकं जयति माता । क्रीडायां तेनैव यस्य, अजिताख्या जाता जितशत्रुनृपनन्दनो, विजयाजननी जातः । अजितनाथजिन ! जगति जय विजितवैरिसङ्घात ! नगरविनीतामण्डनं, मातङ्गाङ्कितपादः । मोहधुरन्धरवैरिणां, दत्तात् जयं शुभनादः स्तवनम् राग - पंथडो निहाळु रे अजितजिनेश्वर ! मम चेतोम्बरे रे, नित्यं निवस शशीव; २ ४ કો तव निवसनतो मम पुण्योदधी रे दधते वृद्धिमतीव ॥ १ ॥ अजितजि ...... तव दर्शनतो मम हृदयाम्बुजं रे, विकसति शतपत्रेण । રા प्रीतिमरन्दं निष्यन्दितमतो रे, पिब दृक्पुटिपत्रेण ॥२॥ अजितजिने..... तव चरणाम्बुजयुगलस्पर्शतो रे, मम नयनाम्बुजमित्रौं । अधिकाधिक तेजोवलयाञ्चितौ रे, जातौ जातु पवित्रौ ॥३॥ अजितजिने.. तव वचनोज्ज्वलदिव्यमरीचयो रे, स्फुरिता हृदि जिनचन्द्र ! । कर्मघनाघनघोरघटावली रे, याता दूरमतन्द्र ! ॥४॥ अजितजि ....... સો Page #18 -------------------------------------------------------------------------- ________________ TI भवदावानलदाहमहोष्णता रे, तासां स्पर्शवशेन । शान्ता व्याप्तमशेषे चिद्दले रे, शैत्यं साम्यरसेन ॥५॥ अजितजिने..... देव ! भवावधि तव सेवासुधा रे, याचे याचितकेन । अङ्के कररिधुरन्धरता त्वया रे, देया मह्यम् तेन ॥६॥ अजितजिने..... स्तुतिः SANS. जिनपते ! जयविश्वविभूषण ! शुभरतेऽजित ! निर्जितदूषण ! । वरमते ! जितशत्रुनृपाङ्गज ! शुभगतेभगतेऽङ्कमतगज ! ॥२॥ . . १ ता लक्ष्मीः तस्या ईन: तेनः, तस्य सम्बोधने, अथवा तेन इति सर्वनाम । Page #19 -------------------------------------------------------------------------- ________________ श्रीसम्भवदेववन्दना - ३ चैत्यवन्दनम् सम्भव ! सुखसम्भव ! सतां भवसम्भवहाने ! परिभववर्जित! नित्यरत ! निजवैभवदाने श्रावस्तीनगरीरमा - रमण ! श्रमणगणभूप ! सेनानन्दन ! भन्दकन्द ! श्रीनन्दनवररूप ! श्रीजितारिनृपवरतनुज ! तुरगाङ्कितपदपद्म ! । देवधुरन्धर ! दीयतां, निरुपद्रवशिवसद्म ! स्तवनम् राग - वैष्णवजन तो तेने कहीओ.... सम्भवजिनवर ! जय जगदीश्वर !, स्वर्गङ्गामलमूर्ते ! रे । चारुचरितरचितोचितस्वना - रुचिराचरणस्फूर्ते ! रे ६ " રા तत्त्वरसिकजनताजिज्ञासा- पूरणपूर्णज्ञाता रे त्वं भव शुभसम्भव ! भवभयतो, भावुकभविकत्राता रे ॥२॥ सम्भवजिनवर... समतासरसीरुहसरोवर ! वदनविजितपर्वेन्दो ! रे । नयनयुगलगलदविरलशीतल - करुणामृतरसबिन्दो ! रे ॥३॥ सम्भवजिनवर.. n ॥१॥ सम्भवजिनवर.. Page #20 -------------------------------------------------------------------------- ________________ ॥४॥ सम्भवजिनवर........ श्रुतिपावननामस्तवनं ते, रमतां मम मुखगेहे रे ।। सुकृतलतावनसिञ्चनवारिद - सदृशमसारे देहे रे धर्मधुरन्धर ! धरणिधराधिक - धीरिमधारणधीर ! रे शिवराधाराधनरुद्धाधर - धारावतरणवीर ! रे ॥५॥ सम्भवजिनवर....... C स्तुति : विगतकल्मषसम्भव! सम्भव !, सकलजन्तुशिवाशय ! शम्भव ! । भविकचातकनीरधरागम ! शुभवते भवते भवतान्नमः ॥३॥ HD mar . * ANNAO Page #21 -------------------------------------------------------------------------- ________________ श्रीअभिनन्दनदेववन्दना - ४ चैत्यवन्दनम् अभिनन्दन ! चन्दनसरस - शीतलवाणिविलास ! । नन्दनवनसुमनोव्रजैः पूजित ! पुण्योल्लास ! । संवरनन्दन ! वन्दनां, तव चरणे सृजताम् । सङ्क्रन्दनपदसम्पदाऽपि, सुलभा भवति सताम् सिद्धार्थासुत! पुरवरा - योध्यानृप ! सिद्धार्थ ! । मधुरं धर मे शिवफलं कपिलाञ्छन ! शुभसार्थ ! स्तवनम् राग - आशाउरि 'जिन तव नयनयुगलमतिहारि ; निरवधिसुषमाजितसकलोपम - ममृतहूदोपममविकारि । जिन तव... यच्छोभानिर्जितमथ कमलं, तपस्तपस्यति श्रितवारि । चनतो हरिणस्तव वदनरिपु - मिन्दुं श्रितवान् खेचारी सहजाञ्जनमञ्जुलमेतत् खलु, खञ्जनमदभञ्जनकारि । तेनोच्छिन्नछविश्च चकोरो, भक्षत्यग्निं दुःखभारी मीनयुगलमिव तरलं मधुकर - समश्यामलताराहारि । अस्य सुभगतां कथये कियतीं, मुग्धा सकलामरनारी ८ ॥१॥ રા ॥१॥ जिन तव ... ॥२॥ जिन तव .... ॥३॥ जिन तव ... Page #22 -------------------------------------------------------------------------- ________________ निर्झरदसमप्रशमरसघूर्णित - मिव मदभरगजवरवारि । अभिनन्दन ! भुवनत्रयमध्यै-तस्य नहि कोऽप्यनुकारी ॥४॥ जिन तव... तव नयनच्छविमवतारय मम, नयनयुगे जिन ! भवतारिन् ! । यशो धुरन्धर ! मह्यं रुचित - स्त्वमेव नान्यो वतारी ॥५॥ जिन तव... १. एतत्स्तवनं महोपाध्यायश्रीयशोविजयजीगणिरचितस्य 'जिन तेरे नयनकी हुं बलिहारी' - इत्यस्य स्तवनस्य अनुवादरूपमाभाति । स्तुतिः जिनपतेऽर्पय मे ह्यभिनन्दन ! विमलकेवलमामभिनन्दन ! गुणगणामरभूरुहनन्दन ! विरतिसम्भव ! संवरनन्दन ! ॥४॥ Page #23 -------------------------------------------------------------------------- ________________ श्रीसुमतिदेववन्दना-५ चैत्यवन्दनम् सुमतिदायसुमतिप्रभुः, सततसुगतिसुखकारी। दुमतिदुर्मदवारणः, कुमतिकुगतिभयहारी ॥१॥ कौशल्यानगरीपति - मेघराजकुलचन्द्रः। क्रौञ्चाङ्किततनुमङ्गला - देवीसुतगततन्द्रः चन्दनचन्द्रकुडूमरसैः सुरभितसुन्दरदेह ! । धर्मधुरंधर ! में प्रभो ! मुक्ति वधौ सनेह ! રો રૂ %3 A . स्तवनम् राग- सुमतिनाथ गुणशुं मिलीजी... सुमतिनाथजिन ! दीयतां रे, सम्यग्दर्शनशुद्धिः । कुमतिमाथ ! मम हीयतां रे, दुरितोपद्रववृद्धि : ॥१॥ सौभाग्यनिधीश्वर !, पालय मां भवभीतम् वैराग्यवतां वर ! धारय मां सुविनीतम्..... चरणकरणगुणहीनता रे, पीड्यते मां नित्यं । मोहयति मम मानसं रे, कल्पितसौख्यमनित्यं ॥२॥ सौभाग्यनिधीश्वर..... Page #24 -------------------------------------------------------------------------- ________________ कुमतिकदाग्रहकारणै रे, दुर्मतमुररीकरोमि । बहुलकषायविडम्बना रे, धर्ममिषेण तनोमि सौभाग्यनिधीश्वर.... विविधपरिग्रहसंग्रहे रे, कृत्वा ममताबुद्धिम् । मोहमूच्छितो वर्द्धये रे, सांसारिक सुखगृद्धिम् કરી सौभाग्यनिधीश्वर.... तव चरणे शरणागतं रे, तारय मां निर्वीर्यम् । सुमतिधुरन्धर ! धीयतां रे, मयि विरतिस्थिरवीर्यम् ॥५॥ सौभाग्यनिधीश्वर.... . स्तुतिः सुमतिदेव ! तमोऽरिहतौ क्रमे, वसतिमर्पय ते गुरुविक्रमे । भविक कामितसौख्यरमाविधौ, सुरतरो ! रतरोगमहौषधौ ॥५॥ ११ Page #25 -------------------------------------------------------------------------- ________________ श्रीपद्मप्रभदेववन्दना - ६ ॥१॥ चैत्यवन्दनम् पद्मप्रभ ! पद्माप्रभव !, पद्माङ्कितपदपद्म ! । पद्मप्रभतनुकान्तिकान्त ! जय जय निश्छद्म ! कौशाम्बीपुरवरपते ! धरनरपतिकुलहंस ! । देव ! सुसीमाङ्गज ! सदा वन्दे त्वां शुभशंस ! अन्तरवैरिवने, वह्निसमारुणकान्ते !। तव सेवासु धुरन्धरं, मिल मामेकान्ते ॥२॥ રૂા. स्तवनम् राग - प्रभु तुज शासन अतिभवं... पद्मप्रभजिनमखिलसमीहित - हितसम्पादनहृदयं रे, हृदयङ्गमवचनं वन्देऽहं, देहममत्वानुदयं रे ॥१॥ पद्मप्रभजिन.... दययोच्छलदन्तरमतिदुर्मद - मदनसुभटजयकारं रे । कारस्कारमिव तापनिवारक!, रथं कुरु सुखसारं रे ॥२॥ पद्मप्रभजिन.... सारसदागममागमगीतं, गीतगुणालङ्कणं रे । रणमध्येऽपि शरणदातारं, तारकमीहे शरणं रे ॥३॥ पद्मप्रभजिन.... Ya Page #26 -------------------------------------------------------------------------- ________________ रणरणकं हर मानसिकं मम, ममतासङ्गनिवारं रे । चारक ! पापमतेः समताधर !, धर शिवसौख्यमुदारं रे ! ॥४॥ पद्मप्रभजिन..... दारपरिग्रहमुक्त ! शमाकर !, करतलनिर्जितपङ्कज ! रे । पङ्कजगमन ! धुरन्धरसुगतिं गतिजितदेवमतङ्गज ! रे ! स्तुतिः धरधरापतिनन्दन ! सुन्दरं, तव पदं नतसर्वपुरन्दरम् । कमलकान्तितनो ! हृदि पङ्कजे, सुमनसां मनसां हरणं भजे ॥६॥ १३ ॥५॥ पद्मप्रभजिन.... Page #27 -------------------------------------------------------------------------- ________________ - श्रीसुपार्श्वदेववन्दना-७ चैत्यवन्दनम् श्रीसुपार्श्व ! शुभपार्श्व ! पाप - पादपपाटनपार्श्व ! ॥ स्वर्गोपमवाराणसी - नायक ! वारितपार्श्व ! ॥१॥ माता तु पृथिवी मता, पिता प्रतिष्ठितनामा । पृथ्विप्रतिष्ठितकीर्तिभर -जात्यकनकतनुधामा ॥२॥ स्वस्तिकलाञ्छनलाड़िछतः स्वस्तिकरो जिनराजः । धार्मिकवर्गधुरन्धरो, जयतान्मुनिमृगराजः રો स्तवनम् राग- श्री सुपासजिनराज... श्रीसुपार्श्वजिनदेव !, बहुसुरवरकूतसेव ! । जिन ! हो, सेवे रे तव देवेशार्चितपदयुगं रे ॥१॥ श्री सुपार्श्व.... तव भुवनेश्वरतायाः, अन्याउसुलभा मायाः । जिन ! हो, सुस्पष्टं, सन्त्यष्टप्रातिहार्यश्रियो रे ॥२॥ श्री सुपार्श्व.... छत्रत्रितयममूल्यं, चामरयुगलमतुल्यं । जिन ! हो, सुमवर्षा, अतिहर्षात्सुरवरततिकृता रे ॥३॥ श्री सुपार्श्व.... १४ Page #28 -------------------------------------------------------------------------- ________________ भामण्डलमशोकः, दिव्यध्वनिरमृतौकः । जिन ! हो तर्जति रे, दिवि गर्जति दुन्दुभिरघचयं रे॥४॥ श्री सुपार्श्व.... सिंहासनमासीनः सुरकूतयशसाउलीनः जिन ! हो, स्वामी रे, कजगामी धर्मधुरन्धरो रे ॥५॥ HOPRO स्तुतिः जय सुपार्श्वजिनेश्वर ! सुस्वर ! प्रकटपुण्यविलासविक स्वर ! ॥ स्वपवर्गपदप्रदपूजन ! प्रवरसंवरसङ्ग ! निरञ्जन ! ॥७॥ . १५ Page #29 -------------------------------------------------------------------------- ________________ श्रीचन्द्रप्रभदेववन्दना - ८ चैत्यवन्दनम् चन्द्रप्रभ! कर्पूरपूर - विमलधवलकान्तिः । शुक्लध्यानविनिर्मितेव, तव काया भाति ॥१॥ माता यस्य हि लक्ष्मणा, पिता नृपो महसेनः । चन्द्रपुरीनगरीश्वरो, भवतु जिनो महसे नः ॥२॥ कुवलयवलयविभूषणो, यस्याङ्के लसति ।। देवधुरन्धर ! सेवकाय वितर शिवे वसतिम् ॥३॥ स्तवनम् राग- शीतल जिनपति ललित त्रिभंगी.... चन्द्रप्रभजिन ! तव दर्शनतो, दर्शनशुद्धिर्जाता रे । ममता माया दूरे याता, निकटे समताऽऽयाता रे ॥१॥ चन्द्रप्रभ.... शुचितां रुचितां मृदुतां हृदिता - मार्जवभावसमेतां रे । आनीयान्तरनिलये कलये, क्षमया रमयोपेतां रे ॥२॥ चन्द्रप्रभ.... आनन्दोदधिजलकलोलै;, सिक्तं चेतोरङ्गं रे । शान्तः कुटिलकषायोत्तापो, जातं शैत्यमभङ्गं रे ॥३॥ चन्द्रप्रभ.... Page #30 -------------------------------------------------------------------------- ________________ शुभभावाद्भुतधूपोत्क्षेपै- रान्तरभूमिः शुद्धा रे । शमसंवेगादिकपर्णीधैः, वन्दनमाला बद्धा रे ॥४॥ चन्द्रप्रभ.... सरले चेतोनिलये शोभित - मचलं श्रध्धाद्वारं रे ।। धर्मधुरन्धर ! देव ! दयाकर ! देहि पादमुदारं रे ॥५॥ चन्द्रप्रभ.... स्तुतिः शशिसमानन! दिव्यतनुश्रुते ! जिनपते ! तब भा दिवि दिद्युते ॥ विशदशारदसोमविभानिभा भवगतावगताऽमृतसन्निभा ॥८॥ १७ Page #31 -------------------------------------------------------------------------- ________________ श्रीसुविधिदेववन्दना -९ चैत्यवन्दनम् सुविधिजिनेश्वर ! शुभविधे !, बहुविधपूजनपात्र ! । विविधवर्णसुमनोवजैः पूजितसुन्दरगात्र ! ॥१॥ पुष्पदन्त ! भदन्त ! शुद्ध-दन्त ! धवलरुचिकान्त ! सुग्रीवावनिपतितनय ! जय मकराङ्कित ! शान्त ! ॥२॥ काकन्दीनगरीपते !, रामादेवीजात ! । विधुरन्धर मां भववने, शिवनगरेऽशिवशात ! ॥३॥ ॥१॥ वन्दे... स्तवनम् वन्दे सुविधिजिनं गुणसदनं शशिसमवदनं मर्दितमदनं, सजलघनाघननदनम् शमवनकीरं मुनिजनहीरं, नतनिर्जरकोटीरम् । भवदवनीरं गिरिवरधीरं, गुणगौरवगम्भीरम् तनुसुकुमालं शुभशतमालं, हतपरमतघटमालम् । सुरकुसुमालङ्कृततनुमालं, मुक्तिवधूवरमालम् सुभगाकारं शुभसंस्कारं, सकलभविकशुभकारम् । गलितविकारं दुःखनिकारं, कृतदुष्कृतधिक्कारम् ॥२॥ वन्दे.. ॥३॥ वन्दे... ॥४॥ वन्दे... Page #32 -------------------------------------------------------------------------- ________________ शुभसंस्तवनं, सद्गतिसवनं, कविकुलकृतकलकवनम् । गुणसम्भवनं संयमभवनं, सुकृतिधुरन्धरमवनम् ॥५॥ वन्दे... Ca . . स्तुतिः सुविधिदेव ! सुपर्वनृपानत! तव वचोरचनामृतपानतः । भविजनोऽमृतभावसमन्वितः, प्रभवतेऽभव ! ते शरणान्वितः ॥७॥ . . Page #33 -------------------------------------------------------------------------- ________________ श्रीशीतलदेववन्दना - १० e ॥१॥ चैत्यवन्दनम् शीतल ! शीतलया दृशा, भविकान् शीतलयन् ! । जय शीतलशमरससुधा - श्रवणं भुवि कलयन् ! नन्दाहृदयानन्दकर ! दृढरथनरपतिनन्द ! । भदिलपुरभूभामिनी - भूषण ! भविकानन्द ! श्रीवत्साङ्कितकाय ! शुद्ध - शीलसुगन्धिशरीर ! । शाम्यधुरं धर मे हृदि, धर्मं शिवतरुकीर ! ॥२॥ રો स्तवनम् राग - आदिजनं वन्दे गुणसदनम् शीतलजिनमीडे शमशीतं, भालङ्कृतवरभालं रे । शान्तसुधारसपरमनिशान्तं सालङ्कृतततुसालं रे ॥१॥ शीतलजिन.. जिनवर ! तव भुवने हतवृजिनं, सङ्गतवचनमसङ्गं रे । परदुर्मतवृन्दं जयति परं, भङ्गहितनयभङ्गं रे ॥२॥ शीतलजिन... पारङ्गत ! जिन ! मां नय पारं, साररहितसंसारं रे। कारय तव धर्मं शिवकारं, मारय दुर्मदमारं रे ॥३॥ शीतलजिन... सुरगणपूजित! तर्जितपरसुर!, भवपारग ! गतपरिभव ! रे । मानवहित ! कुर्वे गतमान - स्तव सेवां शुभसंस्तव ! रे ॥४॥ शीतलजिन... २० Page #34 -------------------------------------------------------------------------- ________________ स्मयहर ! मदनरिपोः विगतस्मय! नयनविजितकज ! शुभनय ! रे । श्रमणधुरन्धर ! देव ! जितश्रम ! जय कृतकर्मपराजय ! रे॥५॥ स्तुतिः सरसशीतलवाणिविधायकं, नमत तं जिनशीतलनायकम् । भवगतातपशीतलताकर, जिनवरं नवरम्य सुखाकरम् ॥१०॥ २१ Page #35 -------------------------------------------------------------------------- ________________ श्रीश्रेयांसदेववन्दना-११ चैत्यवन्दनम् श्रीश्रेयांसजिनेश्वरः श्रेयःशतशाली । श्रेयांसि मम वर्द्धतां, निःश्रेयसमाली ॥१॥ विष्णुनरेश्वरनन्दनो, विष्णुश्रीतनुजातः । सिंहपुरीस्वामी सदा, सृजतां सुखमश्रान्तः ॥२॥ खड्गिलक्ष्मलक्षिततनो ! प्रतनूकुरु मम कर्म । शर्मधुरन्धर ! मम कृते, शिवपदमविचलधर्म !॥३॥ स्तवनम् राग - आशाउरि जिनवर ! सततं त्वं सुखदायी, श्रीश्रेयांसजिनेश्वर ! सेवे, त्वामहमनिशममायी ॥॥ जिनवर.... तव नामस्मरणं पीयूषं, विस्मरणं विषतुल्यम्। पावननामरमरणं सुधया, पूरयति श्रुतिकुल्यम् ॥२॥ जिनवर.... तव दिव्यध्यानं श्रेयांसि, सकलानीहाऽऽनयति । अश्रेयांसि परममहिम्ना, दूरे दूरे नयति ॥३॥ जिनवर.... शुद्धं तव दर्शनमाप्तं यै - विश्वेऽपूर्वनिधानम् । दुरितं दलितं मिलितं तेषां, निजस्वपसन्धानम् ॥४॥ जिनवर.... २२ Page #36 -------------------------------------------------------------------------- ________________ अंशी त्वं मम चांशोऽहं तव, त्वयि मयि भेदो नास्ति । कृपाधुरन्धरता मे देया, शश्वदभेदोपास्तिः ॥५॥ जिनवर.... . स्तुतिः जिनपतिं नृपविष्णुतनूद्वं, कनकवर्णमवर्ण्यसुखोद्भवम् । नमत मङ्गलकेलिकलालयं, निधनबन्धनवर्जितमालयम् ॥११॥ Page #37 -------------------------------------------------------------------------- ________________ श्रीवासुपूज्यदेववन्दना - १२ चैत्यवन्दनम् वासववृष्टसुवर्णतो, वासुपूज्य ! सद्वर्ण ! । भूवासववसुपूज्यभव ! नव्यविभावसुवर्ण ! ॥१॥ जननी यस्य जयाभिधा, तं सेवे विनयेन । चम्पापुरी पवित्रिता, निजजनुषा येन રો महिषाङ्कित ! निरुपममहिम ! प्रकटपमसौजन्य ! । धीरधुरन्धर ! धेहि मे, धर्मे धियमतिधन्य ! ॥३॥ स्तवनम् राग - स्वामी तुमे कांई कामण कीg ... वासववन्दितवासवचरणो, वसुपूज्यान्वयधारणधरणो । मोहनो वासुपूज्यजिनेशः, शोभनो द्युतिदीप्रदिनेशः ॥१॥ मोहनो... तव चरणे मम चेतो लीनं, दैन्यमनादिगतं च विलीनम् । GAY परभावे जाता समुपेक्षा, स्थिरतां त्वयि संप्राप्ताप्रेक्षा ॥२॥ मोहनो... सप्तरज्जुदूरेऽपि निविष्ट: भक्त्या मम मनसीह प्रविष्टः । संहर परपुद्गलगतबुद्धिं, येन लभे त्वत्सदृशविशुद्धिम् ॥३॥ मोहनो... ध्याता ध्येयो ध्यानमथैके, भेदश्छिन्नः सबलविवेके । क्षीरनीरमिव तव मम मिलितं, शश्वदभेदसमागमललितम् ॥४॥ मोहनो... २४ Page #38 -------------------------------------------------------------------------- ________________ समरसतां समतां समुपेतः, तव रूपे निजरूपमुपेतः । धर्मधुरन्धरदेवकृपातः, जयपटहो जगति सञ्जातः स्तुतिः अघचयं हरतान्मम सङ्गजं, जिनपतिर्वसुपूज्यनृपाङ्गजः । तनुरुचा जितकोकनदच्छविः, शुभरसाभरसाधुनभोरविः ॥१२॥ २५ ॥५॥ मोहनो... Page #39 -------------------------------------------------------------------------- ________________ श्रीविमलदेववन्दना - १३ चैत्यवन्दनम् विमलनाथ निर्मलमते ! कमलसुकोमलगात्र ! । अमलहेमदेहधुते !- ऽघमलहरणजलपात्र ! ॥१॥ विनयविशदविबुधव्रजै-विज्ञेयान्तररूप ! वराहलाञ्छनधर! विभो !, कंपिलपुरवरभूप ! ॥२॥ कृतवर्मानूपकुलतिलक ! श्यामादेवीजात ! कामधुरन्धरमीश ! मे, हर रिपुकुलं सुजात ! ॥३॥ स्तवनम् ___ राग- वीर मधुरी वाणि भावे..... विमलजिनवर ! विमलशं कुरु, विमलतमगुणवृन्द ! रे विमलवचसा विमलयशसा, हसितसुन्दरकुन्द ! रे ॥१॥ विमलजिनवर..... विमलचरणं विमलकरणं, त्वां भजे विमलाङ्ग ! रे विमलवदनं विमलसदनं, विमलनयनापाङ्ग ! रे ! ॥२॥ विमलजिनवर..... विमलसमितिर्विमलगुप्तिः, पाहि मां विमलोह ! रे , च्यवनतो विमलोऽभवत्ते, भवपथो हतमोह ! रे ॥३॥ विमलजिनवर..... २६ Page #40 -------------------------------------------------------------------------- ________________ जन्मना विमलं प्रजातं, त्रिभुवनं बहुपुण्य ! रे । दीक्षा विमलं कुलं स्वं, सर्वजीवशरण्य ! रे ज्ञानतो विमलः शिवाध्वा, कृतः सौम्य ! सदापि रे । निर्वृतेः विमलं स्वरूपं, शिवधुरन्धरमापि रे । ॥४॥ विमलजिनवर..... २७ ॥५॥ विमलजिनवर..... स्तुतिः विमलदेव ! समाधिविशारद !, विमलवर्णविराजितशारद ! । विमलकान्तिविलासलसत्तनुः विजयतां जयतां वर ! सज्जनुः ॥१३॥ Page #41 -------------------------------------------------------------------------- ________________ श्रीअनन्तदेववन्दना - १४ चैत्यवन्दनम् श्रीअनन्तजगतीपते ! लसदनन्तगुणगेह ! । सौख्यमनन्तं देहि मे, श्येनाङ्कितवरदेह ! ॥१॥ निखिलनाकिरेन्द्रतो-उनन्तगुणाधिकरूप ! । सिंहसेनसुयशातनय !, शीतलशमजलकूप ! ॥२॥ नगरायोध्याभूपते ! ऽनन्तवीर्यबलपात्र ! अममधुरन्धर ! पाहि मां, चन्दनचर्चितगात्र ! ॥३॥ स्तवनम् राग- श्री अनंतजिनसुं करो साहेलडीयां.... प्रीतिमनन्तजिनेशितुः सखि शृणुया रे ____ कुर्वन्त्यविघटरङ्ग, हृदि तं वृणुया रे । स्वामी भुवनैतादृशः सखि शृणुया रे नैव वर्ततेऽभङ्गं हृदि तं वृणुया रे ॥१॥ त्रिभुवनजनतामोहनं सखि, यस्यासमसौभाग्यं हृदि । मनुजदनुजदेवेशतः सखित, परमातुलसद्भाग्यं हृदि. ॥२॥ निरवधिसुषमासेवधिः सखि, यो जगदनुपमरूपः हृदि ।। पश्यन् दशशतचक्षुषा सखि., तृप्यति नहि सुरभूपः हृदि. ॥३॥ . महाद० । . २८ Page #42 -------------------------------------------------------------------------- ________________ यदेकनेत्रकटाक्षिका सखि., मोदयतेऽखिललोकं हृदि । . निखिलभुवनपरमेश्वरं सखि०, प्रकटितभुवनालोकं हृदि. ॥४॥ आत्मसमर्पणभावतः सखि., प्रसीदतेऽयं देवः हृदि । सर्वधुरन्धर संपदा सखि., साधकजनकृतसेवः हृदि. ॥५॥ स्तुतिः जगदधीशमनन्तशुभाह्वयं, जनिपवित्रितसिंहनूपान्वयम् । लसदनन्तचतुष्टयधारिणं, नमतदुर्मतदुर्मदहारिणम् ॥१४॥ वा KAN २९ Page #43 -------------------------------------------------------------------------- ________________ श्रीधर्मनाथदेववन्दना - १५ चैत्यवन्दनम् परमधर्ममतिदायिने, धर्मनाथजिनपाय । शमशर्मामृतपायिने, कर्मतापशमनाय दारितमन्मथमर्मणे, वारितरागरसाय । धारितसंवरवर्मणे, शुभकर्मानलसाय भानुसुत्रतासूनवे, रत्नपुरीरमणाय । वज्राङ्किततनवे नमो, धर्मधुरन्धरणाय स्तवनम् राग - धर्मजिनेश्वर गाउं रंगशुं ... धर्मजिनेश्वर ! वन्दे भावत - स्त्वां भवभञ्जनसेव ! जिनेश्वर ! भवचक्रेऽस्मिन्ननिशं भ्राम्यता, दृष्टो देवस्त्वमेव जिनेश्वर ! भावितभावो यस्तव पदकजे, लीनो गुणरसनेन; जिनेश्वर ! विरसे परभावे नहि रम्यते, शुद्धस्वरूपरतेन जिनेश्वर ! तव दर्शननयनाञ्जनयोगतो, विकसितनिजनयनेन; जिनेश्वर ! दृष्टा पुद्गलपरिणतिरित्वरा, नेहे किमपीह तेन ! जिनेश्वर ! त्रिभुवनविततां तव करुणालता - माश्रितवानहमद्य; जिनेश्वर ! शीतलता परमा अनुभूयते, हृदये जगदभिवन्द्य जिनेश्वर ! ३० કો રો " ॥१॥ धर्मजिनेश्वर.. ॥२॥ धर्म... ॥३॥ धर्म.... ॥४॥ धर्म.... Page #44 -------------------------------------------------------------------------- ________________ जगति धुरन्धरता निजचेतसि तव शुद्धाव्ययधर्म ! जिनेश्वर ! प्राप्ता चित्तसमाधिरनुपमा, अनुभूतं शिवशर्म जिनेश्वर ! स्तुतिः परमधर्मधुराधरणोद्धुरं, भजत धर्मजिनं गुणबन्धुरम् । सकलमङ्गलसङ्गतिकारणं, विभवदं भवदन्तिनिवारणम् ॥१५॥ ३१ ॥५॥ धर्म.... Page #45 -------------------------------------------------------------------------- ________________ - 6 श्रीशान्तिनाथदेववन्दना - १६ चैत्यवन्दनम् शान्तिनाथ ! शान्तिं कुरु, शान्ते ! परमनिशान्त ! । शान्ताशिव ! हर मेऽशिवं, शान्तभावविश्रान्त ! ॥१॥ मृगलाञ्छन् ! नूपविश्वसेन - कुलकमलाकरहंस ! । अचिरासुत ! गजपुरपते !, जय जय जगदवतंस ! ॥२॥ वन्दे षोडशमं जिनं, चक्रिणमष्टममेनम् । भरतक्षेत्रधुरन्धरं, प्रणतामय॑नरेनम् રો . N स्तवनम् राग - शांतिजिनेश्वर अर्चितकेशर.. शांतिजिनेश्वर ! चन्दनकेशर -पूजितपद ! सुखकारिन् ! जी। अचिरानन्दन ! सुरहरिचन्दन-सुमनोमालाधारिन् ! । जिनवर ! जयकारिन् ! हर मम भवभयपीडां, भविनां भयहारिन् ! समयमनन्तं भ्रमता भुवने, दृष्टस्त्वं न कदापि जी। प्रबलपुण्यपरिपाक वशेन च, तव दर्शनमद्याऽऽपि । जिनवर ! जयकारिन् ! ॥२॥ तव दर्शनममृताम्बुदवर्षण - भवतर्षणसंहारि जी । सुकृताकर्षण- दुरितविकर्षण - मघमर्षणमविकारि । जिनवर ! जयकारिन् ! ॥३॥ ३२ Page #46 -------------------------------------------------------------------------- ________________ - . दारिद्र्यं दुर्गतिदुर्भाग्ये, दुष्टा दृष्टिर्नष्टा जी। सुमति-सुगति-समताः सौभाग्यं, तव दर्शनतः सृष्टा । जिनवर ! जयकारिन् !॥४॥ अनुपमसाम्यसदनमथ वदनं, धवलविभावलिकलितं जी । शारदपूर्णशशीव सृजति मम, हृदयोदधिमुलसितम् । जिनवर ! जयकारिन् ! ॥५॥ निरुपमरूपसुधा तव तनुजा, नयनपुटैरनिमेषं जी । पायं पायमपीश ! मनो मे, तृष्णां वहति विशेषम् । जिनवर ! जयकारिन् ! ॥६॥ कोटिकोटिसूर्यादपि समधिक - तेजोवलयलसन्ती जी। तव मूर्तिस्फूर्तिर्भुवि जयति, विघ्नसमूहहरन्ती । जिनवर ! जयकारिन् ! ॥७॥ मधुरं चरितं मधुरा करुणा, मधुरं स्मरणं ध्यानं जी। सकलं मधुरं धरता देयं, शाश्वतमधुरं स्थानम् । जिनवर ! जयकारिन् ! ॥ हरतां भवभयपीडां, भविनां भयहारिन् ! ॥८॥ इत्थं स्तुतो विमलशैलशिखाग्रसंस्थः श्रीशान्तिनाथभगवान् करुणानिधानः । देयाच्छिवं स्मृतिकूतां शमिताशिचौघः श्रीविश्वसेननृपवंशधुरन्धरो नः ॥॥ स्तुतिः सरस्साम्यसुधारससारणिः, सकलवाञ्छितपूर्तिमरुन्मणिः । जयति शान्तिजिनेशवपुर्विभा, सकमला कमलाकरसलिभा ॥१६॥ ३३ Page #47 -------------------------------------------------------------------------- ________________ श्रीकुन्थुनाथदेववन्दना - १७ चैत्यवन्दनम् कल्पितकल्पनकल्पवृक्ष! कुन्थुजिनेश्वरदेव! । निष्कामा मुनयः सदा, ध्यायन्ति त्वामेव ॥१॥ शूरनराधिपनन्दनो, गजपुरनगरीभानुः । श्रीदेवीतनयो जयतु, तनुभासुरसानुः ॥२॥ भरतभूमिभूमीपते ! लाञ्छनवरछाग ! सदा धुरन्धर शमवतां, जय जय जितराग ! ॥३॥ स्तवनम् राग- वीरजिणंद जगत उपगारी कुन्थजिनेश्वर ! कामितपूरण -कल्पतरूपममहिमा जी । त्रिभुवनमध्ये केषांचिदपि, तव सदृक्षा नहि मा जी ॥१॥ कुन्थु... चक्रवर्तिसमृद्धिभोगी, तदपि ख्यातोडभोगी जी। योगीश्वरवृन्दैयेयोऽपि, विदितो भुवनेऽयोगी जी ॥२॥ कुन्थु.. सर्वथैव निष्परिग्रहोऽपि, भुवनेश्वरताभागी जी , वीतरागताशिरवरस्थोऽपि, स्वात्मरमणतारागी जी ॥३॥ कुन्थु.. सर्वाधिकसौभाग्यो जगति, त्वं विहरस्येकाकी जी। अर्चत्यमरगणोऽपि भवन्तं, मर्यं पुण्यविपाकी जी ॥४॥ कुन्थु.. ३४ Page #48 -------------------------------------------------------------------------- ________________ सकलागमवेदी निर्वेदी, भवभीतो भयहर्ता जी विरुद्धभावसहितोऽप्यविरोधो, धर्मधुरन्धरभर्ता जी ॥५॥ कुन्यु.. स्तुतिः भरतनायक ! चक्रिपदेश्वर !, प्रणतवासव ! कुन्थुजिनेश्वर ! । तव कृपा भवसागरतारिणी, सकुशला कुशलाशयकारिणी ॥१७॥ Page #49 -------------------------------------------------------------------------- ________________ श्रीअरनाथदेववन्दना - १८ चैत्यवन्दनम् अरजिनवर ! सुरनरनिकर प्रणत! सुदर्शननन्द ! । भरतेश्वर ! गजपुरनगर - नरवर ! शिवतरुकन्द ! ॥१॥ नन्द्यावर्ताङ्किततनो!, देवीजननीजात ! । जय जय विरतिरसरसिक !, घातितघातिव्रात ! ॥२॥ अरतिरहितमरुजं जरा - मरणहरणमभयम् । सर्वज्ञौघधुरन्धरं, वन्दे तं सदयम् - स्तवनम् राग - अनंतवीरज अरिहंत... श्रीअरनाथविभो ! मम विज्ञप्तिं शृणु कृपया मम विषयाशां स्वामिन् ! संवृणु । मृगतृष्णासमसांसारिक सुखलालसः ગો तृष्णातरलितचित्तस्तव वचनालसः ॥१॥ भ्रान्तो घोरभवान्धतमसि हतचेतनः मोहासवमत्तो विस्मृतनिजकेतनः । क्रान्तो विषयकषायादिक रिपुपीडितः तदपि न मुञ्चे भवममतामव्रीडितः ॥२॥ ३६ Page #50 -------------------------------------------------------------------------- ________________ 20RA शान्तस्त्वत्समदेवो भुवने नेक्षितः विश्रान्तस्तव पादकजे भुवनेशितः ! । देव ! दयाकर ! दृष्टिं देहि दयाञ्चितां जडतां जहि जिन ! मे बहुजन्मनि सञ्चिताम् ॥३॥ उन्मुद्रय मम दृष्टिं दिव्यसुधाजनैः । त्वयि दृष्टे सुप्रसन्ने सूतं परञ्जनैः । “भर्ता त्वं मम, भृत्योऽहं तव” मानय ! कृपणे कलुषितचित्ते करुणामानय ॥४॥ तव करुणामृतवारिधरेणाऽऽषिञ्चिते, नष्टे मोहमहावरणे भवसञ्चिते । तव रूपे मम रूपं देव ! मिलिष्यति धर्मधुरन्धसेवनमेवं सेत्स्यति ॥५॥ स्तुतिः नृपसुदर्शनसुन्दरनन्दन!, सुरसमूहमनोमतनन्दन !। तव पदाम्बुजयामलसङ्गिनः, भुवनपावन! पाहि सदाङ्गिनः ॥१८॥ . Page #51 -------------------------------------------------------------------------- ________________ - 17 TASH . श्रीमल्लिनाथदेववन्दना - १९ चैत्यवन्दनम् भीमभवोदधिशोषणे, कुम्भसमुद्भवरुप ! कुम्भसमुद्गव ! कुम्भचिह्न !, प्रतिबोधितषड्भूप ! ॥१॥ प्रकटप्रफुल्लितपुण्यवल्लि ! मल्लिनाथमहाभाग ! । जय जय निर्जितमोहमल ! मरकतरुचितनुराग ! ॥२॥ मिथिला यस्य जनिक्षितिः प्रभावती माता ! नामधुरं धरतां सतां भव वाञ्छितदाता ॥३॥ Ha.. 250 ॥१॥ भज... स्तवनम् श्रीरागेण गीयते भज मुक्तिवधूकण्ठाभरणं .... कुम्भनरेश्वरकुलकमलाकर - विकसनदिनकरमघहरणम् मल्लिजिनेशमशेषसुखोत्कर - कारणमशरणजनशरणम् । मिथिलानगरीभूमिविभूषण - दूषणविरहितसच्चरणम् भविकजनावनिपोषणप्रावूष - मुषसि ध्येयकमलचरणम् । नीलकमलकमनीयशरीरं, कान्तिशमिततापावरणम् ॥२॥ भज... ॥३॥ भज... ३८ Page #52 -------------------------------------------------------------------------- ________________ ॥४॥ भज... कौमार्यैव गृहस्थितिमोचन - कृतसुन्दरसंयमवरणम् । पूर्वजन्मतः प्रीतिनिबद्धा - वनिपषटककृतजागरणम् कुटिलकामविटकपटमहाटचि - पाटनकरटिघटाकरणम् । वन्देऽमन्दमुदा जिनमलिं, सुविहितधर्मधुरन्धरणम् ॥५॥ भज... स्तुतिः हरतु मल्लिजिनेशपदाम्बुजं, मतिमतां मदमोहमहारुजम् । दरतु भीमभवाब्धिमहापदां, प्रभवनं भवनं शुभसम्पदाम् ॥१९॥ 504 +C09 ३९ Page #53 -------------------------------------------------------------------------- ________________ श्रीमुनिसुव्रतदेववन्दना चैत्यवन्दनम् नूतनघनभूघनरुचे !, रुचिरचरित्रपवित्र ! । मुनिसुव्रत ! सुव्रतरुचि !, पाहि पापलवित्र ! ॥१॥ पद्मासुमित्रानन्दनो, राजगृहीस्वामी । कच्छपलाञ्छनलक्षितो, गजवरगतिगामी विंशतितमतीर्थङ्करः, प्रविशतु मम चित्तम् । सुकृतिसमूहधुरन्धरो, यच्छतु शुभवित्तम् स्तवनम् राग भैरवी वृणु रे मुनिसुव्रतजिनराजम् । स्वामितया नतदेवसमाजं, त्रिभुवनजनसम्राजम् योगिध्येयं महिमामेयं, शान्तगुणिगणगेयम् । हृदि तं धारय दुरितं दारय, दुर्गतिपातं वारय इह संसारे सुखसंहारे, दु:खदुरितदलसारे । स्पृहसे मुक्तिं निजसुखभुक्तिं कुरु तत्सेवनयुक्तिम् त्यज संसारं सकलमसारं, स्फुरितदुरितसम्भारम् । श्रय तच्चरणं संसृतिशरणं, जन्मजरामृतिहरणम् ४० २० રા મો ॥१॥ वृणु रे.... ॥२॥ वृणु रे... ॥३॥ वृणु रे.... ॥४॥ वृणु रे... Page #54 -------------------------------------------------------------------------- ________________ - कृतहितस्वनं शुचि यद्वचनं, मोहवैरिनिर्वचन् । वचनेषु धुरं तद् भवविधुरं, धरति शिवेऽमृत मधुरम् ॥५॥ वृणु रे... 0 . स्तुतिः सकलभव्यजनोद्धरणव्रत !, जय रसावलये मुनिसुव्रत ! । निरुपमातिशयेश ! गतागरुक् ! विनतमान ! तमालसमाङ्गरुक् ! ॥२०॥ KAAS. RS ४१ Page #55 -------------------------------------------------------------------------- ________________ श्रीनमिनाथदेववन्दना - २१ चैत्यवन्दनम् नाकि नरेश्वरनतचरण!, नमिजिनवर ! जगदीश ! । इन्दीवरलाञ्छनरुचिर !, भविककुमुदरजनीश ! ॥१॥ विजयनृपाङ्गज ! जय सदा मिथिलापुरिमण्डन! । काञ्चनकान्तिसुकान्तकाय !, भवरिपुखण्डन! ॥२॥ वप्रानन्दनवन्दना, चन्दनशीतलताम् । सन्दत्ते गुणगणधुरं-धन्तीह नमताम् રો ॥१॥ नम... स्तवनम् नम नम नमिजिनपतिमतिधीरम् । निर्विकारमुखमुद्रामुदितं, निरधिरिव गम्भीरम् ॥ सहजसमाधिसुधारसलीनम्, विषयविकारविभावविहीनम्; प्रकटपरमपुण्यैरतिपीनं, सुन्दरसौम्यशरीरम् ॥ प्रमप्रशमरसपावनपात्रम्, गुणगणगौरवगुम्फितगात्रम्; चिदानन्दघनरूपममात्रं, योगीश्वरकोटीरम् ॥ साधितसकलसमीहितसृष्ट्या, वैश्विककरुणावारिदवृष्ट्या; सन्तर्पितभुवनं शुभदृष्ट्या , धर्मवनीनवनीरम् ॥ ॥२॥ नम... ॥३॥ नम... ॥४॥ नम... ४२ Page #56 -------------------------------------------------------------------------- ________________ परिहर परभावे रसिकत्वम्, संहर पुद्गलसङ्गममत्वम् भव तल्लीनो लप्स्यसि तत्त्वं, यत् त्वं विजितसमीरम् ॥ ॥५॥ नम... श्रवणे सरससुधारसपानम्, कुरु तन्नाम्नः पावनगानम्। अतिमधुरन्धरता तत्तानं, प्राप्स्यसि भवजलतीरम् ॥ ॥६॥ नम... FORE . स्तुतिः नमिजिन ! प्रणताखिलनाकिप ! भवमहावनभङ्गमहाद्विप !। निजकृपामृततर्पितसज्जन ! वरमते ! रमते त्वयि सज्जन ! ॥२१॥ comg WAL . . ४३ Page #57 -------------------------------------------------------------------------- ________________ RECE श्रीअरिष्टनेमिदेववन्दना - २२ चैत्यवन्दनम् समुद्रविजयनूपनन्दनं, वृन्दारकवन्द्यम् । वन्देऽमन्दानन्दतो, विबुधैरभिनन्द्यम् ॥१॥ अशिवोपद्रववारणः, शैवेयः शुभदः । शौरीपुरशोभामणिः, संहरतां विपदः ॥२॥ शङ्खाङ्कितघनकान्तिकाय ! त्रिभुवनमङ्गलधाम! । रिष्टधुरं धर देव ! मे- ऽरिष्टनेमिशुभनाम !॥३॥ स्तवनम् राग- कव्वालि नेमिजिनवर नेमिजिनवर ! रैवतगिरिशृङ्गार ! रे । तावकीने पादपद्मे, देहि शरणमुदार ! रे ॥ प्राणनाथ ! प्रचुरपुण्यैः, प्राप्तवाँस्तव दर्शनम् । चन्दनादपि शीतलं ते, पद्माचरणस्पर्शनम् ॥ संसृतिभ्रमणोत्थतापं, शामय समतागार ! रे ॥नेमिजिनवर ॥१॥ नाथ ! पातकिना मया हा, सर्वथा त्वमुपेक्षितः । दृष्टिमार्गसमागतोऽपि प्रेमतो न निरीक्षितः ॥ येनाहं बहुदुःखवृन्दै- दलितो दीनोद्धार ! रे ॥ नेमिजिनवर ॥२॥ घोरभवचक्रेऽटतो मे- ऽनन्तकालो निर्गतः । किन्तु नैव कदापि मे त्वं श्रवणमार्गमुपागतः ॥ भ्रमणमद्यावधि न रुद्धं, तेन हतसंसार ! रे । नेमिजिनवर ॥३॥ ४४ Page #58 -------------------------------------------------------------------------- ________________ अभ्रचुम्बिनि शैलशिखरे, त्वं समारुह्य स्थितः । मादृशां निर्बलजनानां, दूरभूतो दृष्टितः ॥ तदपि तव पृष्टिं विमोक्ष्ये नैव जगदाधार ! रे ॥ नेमिजिनवर ॥१॥ आपदो बहवीः सहित्वा - ऽद्यागतस्तव सन्निधौ । अथ कृपणता नैव कार्या, नाथ ! मयि करुणाविधौ ॥ दिव्यकरणादृष्टिमेकां, कुरु करुणाकूपार ! रे ॥ नेमिजिनवर ॥५॥ स्वामी मया निर्द्धारितस्त्वं, निखिलजगतः शासकः । नाथ ! नैवोपेक्षिणीयो, भवच्चरणोपासकः ॥ सेवकाभिधया समाह्वय, सत्वरं सुखकार ! रे ॥ नेमिजिनवर ॥६॥ मौनतो यद्विप्रलुब्धं, मुग्धगोपीमण्डलम् । नैव तद्वन्मयि चलिष्यति, देव ! तव मौनच्छलम् ॥ एकवारं सेहतो मामालापय हतभार ! रे ॥ सकलमङ्गलपरमकारण- मङ्घ्रियुगलं ते मुदा । अमरतरुवरपुष्पगुच्छै - र्बन्धुरं धरतो हृदा ॥ भवभवे भवतात्तवैच, ध्यानमिह भवतार ! रे ॥ नेमिजिनवर ॥८॥ इत्थं स्तुतो जिनवरेन्द्रशिवातनूजः, श्रीरैवताचलगिरीन्द्रकिरीटकल्पः । राजीमतीहृदयसुन्दरहीरहारो, हन्यादधं परमयोगिधुरन्धरो नः usu नेमिजिनवर ॥७॥ स्तुतिः जयति नीरदनीलतनुद्युतिर्युवतिसङ्गभिदाकरणादृतिः । विशदसंवरशालिशिवासुतः, परमया रमया त्वरयाऽऽदृतः ॥२२॥ ४५ Page #59 -------------------------------------------------------------------------- ________________ श्रीपार्श्वनाथदेववन्दना - २३ lad SI COM __ चैत्यवन्दनम् नीलतमालतनुद्युते !, पन्नगपतिकृतसेव ! । दिव्यमहामहिमानिधे !, पार्श्वनाथजिनदेव ! ॥१॥ अश्वसेनवामाकुले, शारदपूर्णशशाङ्क ! । जन्मविभूषितकाशिदेश !, भासुरभोगिवराङ्क !॥२॥ वाञ्छितपूरणसुरतरो !, वारितविघ्नवात ! भवविधुरं धर मां विभो !, तव चरणे गतपात ! ॥३॥ सखि हे... ॥ ॥१॥ सखि हे... ॥ स्तवनम् सखि हे वामातनयमुदारम् । रमय मया सह गलितविकारं, निरुपमसुषमासारम् ॥ अभिनवनीरदसघनघटोपम - सुन्दरनीलशरीरम् । घनचलदनिलचपलचपलामल - धृतजाम्बूनदचीरम् शशिसूर्योपममणिमयकुण्डल - मण्डितसुन्दरगण्डम् । विलसद्भालस्थलसुषमाजित- शारदशशधरखण्डम् तरलधवलरुचिधवलितदिक्कुल - हिमगिरिहारिसुहासम् । शुद्धकनकसमदीप्तिप्रोज्ज्वल - दीपशिखाशितनासम् अविकचशुचिरुचिविचकिलकलिका - राजिरुचिररदराजम् । दन्तसितद्युतिचयचन्द्रातप - चारुवदनजितराजम् ॥२॥ सखि हे... ॥ सा ॐ ॥३॥ सखि हे... ॥ ॥४॥ सखि हे... ॥ ४६ Page #60 -------------------------------------------------------------------------- ________________ - निर्मलनीलकमलनयन-क्षरदसमप्रेमपरागम् । पल्लवमृदुलरदच्छदरञ्जिम् - निर्जितबन्धूकरागम् ॥५॥ सखि हे... ॥ 55 विकसितसितसरसीरुहसरसी - समसुरभिततनुवासम् । चञ्चच्चन्द्रमरीचिचयोज्ज्वल - चारिमवचनविलासम् ॥६॥ सखि हे... ॥ कोकिलकुलकलकूजितकलिते, चूतवने विहरन्तम् । धीरसलीलचरणविन्यासै - स्त्रिभुवनमनोहरन्तम् ॥७॥ सखि हे... ॥ इति सुकुमारं पार्श्वकुमारं, दृष्ट्वा स्वप्नविहारे । PNB प्रीतिधुरन्धरवचसा वदति, प्रभावती सखिवारे ॥८॥ सखि हे... ॥ इत्थं स्तुतो जिनपतिः शुभपार्श्वनामा वामासुतः सकलकामित कल्पवृक्षः । नागेश्वरे पुरवरे प्रथितावदातो, देवो धुरन्धरतु सर्वमनोरथानाम् ॥९॥ सखि हे... ॥ PRO स्तुतिः भविकचक्षुषि दिव्यसुधाञ्जनम्, कमठदैत्यमहामदभञ्जनम् । नमत पार्श्वजिनं धरणार्चितम्, समतया मतयाऽसमयाञ्चितम् ॥२३॥ NUA ४७ Page #61 -------------------------------------------------------------------------- ________________ श्रीवीरवर्द्धमानदेववन्दना - २४ चैत्यवन्दनम् n त्रिशलानन्दन वीरजिन!, मृगपतिलाञ्छनरम्य । सिद्धार्थावनिपतितनय, पूर्णसमर्पणगम्य श्रमणोत्तम महावीर धीर, घोरतपस्विधुर्य ! क्षत्रियकुण्डेजात शुद्ध- ज्ञातवंशकुलसूर्य चरमजिनेश्वर योगिपरम ! हर मम निखिलं कर्म । क्षमधुरन्धर देहि मे, कनकवर्ण शिवशर्म ॥३॥ n स्तवनम् राग- पालय पालय रे पालय मा जिनधर्म तारय तारय रे तारय मां जिनवीर !.... सकलकुशलक मलालीलालय ! सलिलालयगम्भीर ! । करुणासागर ! जितभवसङ्गर ! निर्जितमन्मथवीर ! ॥ तव चरणेऽखिलभयसंहरणे, वसतु सदा मम चित्तम् । तव पदचिन्तनमघकृन्तनमिह, भवतु ममाभयवित्तम् ॥ रागादिक रिपुरिह भवगहने, मोहमहाबलमत्तः । त्वां प्रति वलितं कर्षति बलतो, मामयि दूरे त्वत्तः ॥ लुण्टाकैः कुटिलैस्तैर्विकलः कारितपरिभवनृत्यः । शक्तिमता भवताऽहं स्वामिन् ! नोपेक्ष्यस्तव भृत्यः ॥ मां नहि पालयतो भवतः सा, विश्वे विदिता ख्यातिः । शरणागतपालकतारूपा, वितथा स्यात् शिवतातिन् ! ॥ ४८ ॥१॥ तारय... ॥२॥ तारय... ॥३॥ तारय... ॥४॥ तारय... ॥५॥ तारय... Page #62 -------------------------------------------------------------------------- ________________ - झटिति ततो नैजे मयि जिनवर !, कुरु करुणाक्तकटाक्षम् । येन बलिष्ठीभूय जयेयं, रिपुकूटं विकटाक्षम् ॥ ॥६॥ तारय... त्रिशलानन्दन! जगदानन्दन ! संसारार्णवतीर ! । सेवक स्य तव याचामेकां, पूरय तूर्णं वीर ! ॥ ॥७॥ तारय... भवविधुरं धर मां तव चित्ते, निजसेवकरूपेण । तारक ! पारय करतो धृत्वा, भवजलनिधिमचिरेण ॥ ८॥ तारय... इत्थं स्तुतश्चरमतीर्थपतिः प्रसिद्ध- श्रीजीर्णदुर्गनगरीगिरजागिरीशः । देयादमेयगरिमा वबोधिबीजं सद्धर्मधुर्धरणधुर्य धुरन्धरश्रीः ॥९॥ ॥२४॥ स्तुतिः परमसाम्यसुधारसनिर्झरं, चरमतीर्थपतिं नतनिर्जरम् । वरमतं हृदि यो वहते जनः, परमते रमते नहि तन्मनः जिनवराः विजितान्तरवैरिणः, दुरितदुर्णयदोषनिवारिणः । मम भवन्तु जगत्त्रयशासकाः, विकटसंकटसंभवनाशकाः विपुलनिर्मलबोधविधायकं, प्रबलसंशयतामसहायकम् । प्रकटमुक्तिपथं विलसद्विभं, जिनमतं नम तं रविसन्निभम् पदकजं किल यस्तव सेवते, स लभते सपदि श्रुतदेवते ! । बुधधुरन्धरतां सुरसंस्तुते ! कमलकोमलकोशसमद्युते ! ॥२५॥ है ॥२६॥ ॥२७॥ Page #63 -------------------------------------------------------------------------- ________________ - अष्टमहाप्रातिहार्यवर्णनमय श्रीभावजिनेश्वरवन्दना -२५ चैत्यवन्दनम् जगदुत्तम ! जगतीगुरो !, जगदीश्वर ! जगदिष्ट ! । जगतीजनचिन्तामणे ! जगति सर्वविशिष्ट ! ॥१॥ तव सेवाहेवाकिना, सुरततिना सृष्टा । प्रातिहार्यमुखसम्पदा, भाति भवोत्कृष्टा ॥२॥ अवरदेवताऽकल्पितं, तब परमैश्वर्यम् सृजति त्रिभुवनदेहिनां, हृदि महदाश्चर्यम् ॥३॥ त्रिपदीमितजगतीत्रयः, पदवीत्रयरूपः त्रिगुणोत्तरपरभूमिक-स्त्वं त्रिभुवनभूपः ॥४॥ समवसृतिस्थितभावजिन! वन्देऽहर्निशमेव त्वामिह निर्मलभावतः, सकलधुरन्धर देव ! ॥५॥ C स्तवनम् राग- दरबारी कानडो... जय जय जिनवर ! जय जगदीश्वर ! .... सेवे चरणकमलमविनश्वर !...... नन्दनवनगतसुरतरुसन्तति-सुरभितसुमनःपुजैः । परिपूजितपदपीठ! समुच्छल-दलिकुलमञ्जुलगुजैः ॥ रागरहितबहुहावविलासैः सुरवधूकृतवरलास्ये । समवसृतो सुरकोटिनिषेवित-पदपङ्कज ! गतदारये ॥ जय जय... ॥१॥ जय जय... ॥२॥ ५० Page #64 -------------------------------------------------------------------------- ________________ - जय जय... ॥३॥ जय जय... ॥४॥ जय जय... ॥५॥ जय जय... ॥६॥ हतजनशोकोऽशोकस्तरुरिह, छायां रचयति सदसि । गायन्निवालिविरुतैर्नृत्य-न्निव चलदलतो नभसि ॥ बहुविधरङ्गतरङ्गितशोभा, सुरतरुसुमनोवर्षा । क्रियते यन्निकटे सुरनिकरै-जनितजगज्जनहर्षा ॥ मधुरगभीररवस्तव दिव्य-ध्वनिरभितो विस्तरति । विविधरागलयकलितोऽसुमतां, क्लेशततिं संहरति ॥ देव ! तवाऽग्रे सुरपतिचालित-चामरपङ्क्तिललिता तव तनुकान्तिमानससरसि, हंसावलिरिव कलिता ॥ कनकमयं सिंहासनमुच्छल-दंशुलसन्मणिखचितम् । रोमोद्गममिव वहते प्रभया, तव संस्पर्शनरचितम् ॥ सुरकूतभामण्डलमिषतो य-त्सेवां रविरिह तनुते । जिनमुखपङ्कजलोलुपमनसां, मोहतिमिरमवचिनुते ॥ देवदुन्दुभिर्दिवि नदमाना, कथयति यस्योत्कर्षम् । मुक्तिपथोत्कटलालसभविनां, प्रथयति परमं हर्षम् ॥ त्रिभुवनदेवं सेवेऽहर्निश-मिति बुद्ध्या किं शशिना । छत्रत्रयमिषतो निजकाया, त्रिधा कृता शुभरसिना ॥ अष्टमहाप्रातिहार्याणां, लोकोत्तरमैश्वर्यम् । सर्वदेवताधुरन्धरत्वं, वदते विश्वे वर्यम् ॥ जय जय... ॥७॥ जय जय... ॥८॥ जय जय... ॥७॥ जय जय... ॥१०॥ जय जय... ॥११॥ स्तुतिः कंकेलिस्तरुरथ सुरकृतसुमनोवृष्टिः, दिव्यध्वनि-चामर-सिंहासनशुभसृष्टिः । भामण्डल-दुन्दुभि-छत्रत्रयगण एवं, वन्दे त्वामष्टप्रातिहार्यकृतसेवम् ॥ २ ॥ Page #65 -------------------------------------------------------------------------- ________________ प्रशस्तिागीताम् राग- गायो गायो रे... गीतं गीतं रे जिनगुणगानं गीतम् । प्रीतं प्रीतं रे मम चेतः सम्प्रीतम् ॥ चतुर्विंशतिजिनवरवून्दं, वर्तमानमुपनीतम् । गुणगानाध्वनि भवभवसञ्चित-दुरितजालमपनीतम् ॥१॥ गीतं... वीरशासने येषामुदयात्,कुमततमो भयभीतम् । वन्दे सूरिं विजयानन्दं, भास्करदीप्रमतीतम् ॥२॥ गीतं... । कमलसूरिमथ दानसूरिमथ, प्रेमसूरिमविगीतम् । विपुलश्रमणगणसर्जनतो यैर्जिनशासनमुन्नीतम् ॥३॥ गीतं... रामचन्द्रसूरिस्तत्पट्टे, ख्यातो व्याख्यातीतम् । पण्डितभद्रङ्करगुरुवचनं, पीयूषमिव प्रतीतम् ॥४॥ गीतं... * वाचकमहायशोविजयं त-च्छिष्यं गुणिषु विनीतम् । नत्वा शिष्यधुरन्धरविजयो, व्यरचज्जिनगुणगीतम् ॥५॥ गीतं... SAD जयति विजयमहोदयसूरेरधुना राज्यं स्फीतम् दृष्टि ८ शरा ५ म्बर ० दृग् २ मितवर्षे भक्तरमृतं पीतम् ॥६॥ गीतं... जिनगुणगानसुधारसपानं, श्रुतिपुटयुगलनिपीतम् । शमयतु कृत्स्नां भवदवतृष्णां, हिमहिमरुचिशुचिशीतम् ॥७॥ गीतं... Aad ५२ Page #66 -------------------------------------------------------------------------- ________________ कलशः हरिगीतम् इत्थं स्तुता जिनचतुर्विंशतिका शुभा विपुलेऽतुले श्रीमत्तपागणगगनमण्डनप्रेम-राम गुरोः कुले । पन्यासभद्रंङ्करविजयजिच्छिष्यविजयमहायशः पाठक पुरन्दरशिशुधुरन्धरविजयमुनिना सर्वशः श्रीवीतरागपदाब्जसुन्दरवन्दनासुरचन्दनाऽसामान्यसौरभवासिताखिलदिग्विलेपननन्दना । जिनगीतगानपरम्परारूपा परमपदसत्फलम् निजरूपरमणधुरन्धरन्ती प्रथयतां भुवि मङ्गलम् ॥२॥ ५३ " Page #67 -------------------------------------------------------------------------- ________________ शरणाष्टकम् ow SANSANSAR -विजयहेमचन्द्रसूरिः अनाद्यनन्तविश्वेऽस्मिन्नश्रान्तं भ्राम्यतो मम । अधुना केवलं ह्येकः, त्वमेव शरणं विभो ! ॥ १ ॥ यत्र वा तत्र वा गत्वा, यं वा तं वा प्रणम्य च । यन्मयोपार्जितं पापं, तत्सर्वं क्षमयाम्यहम् ॥ २ ॥ पिता माता तथा बन्धु-दयितो दयिताऽथवा । स्वामिन्नाऽलं समुद्धर्तुं, निमज्जन्तं भवाम्बुधौ ॥३॥ चेतस्त्वय्येव संसक्तं, रतिं न लभते मम । गृहे वा विपिने वापि, पण्ये वोपवनेऽपि वा ॥ ४ ॥ कीदृशो मन्दभाग्योऽहं, सति नाथे भवादृशे । मुक्त्वा त्वच्चरणोपारित, विलसामि भवेऽनिशम् ॥५॥ हस्तमादाय मां नाथ !, त्वमिहाऽऽनीतवानसि । मार्गमध्ये निराधार-मथ मां किं विमुञ्चसि ? ॥ ६ ॥ गुणानां नास्ति ते पारं औदार्यं चाऽप्यनुत्तरम् । गुणमेकं न किं मह्यं, तेभ्यो नाथ ! प्रयच्छसि ॥ ७ ॥ इदं सुनिश्चितं विद्धि, करुणाम्भोनिधे ! प्रभो ! । त्वां मुक्त्वा कोटिकपटैः, श्रये देवं न चाऽऽपरम् ॥८॥ ५४ Page #68 -------------------------------------------------------------------------- ________________ विषयत्यागाष्टकम् -विजयहेमचन्द्रसूरिः चतुरशीतिलक्षासु, योनिषु भ्राम्यता मया । यद् यदाचरितं पापं, तद्वक्तुं नैव पार्यते ॥१॥ असंवृतेन चित्तेन, तथाऽसंस्कृतया गिरा । दुष्प्रवृत्तेन कायेन, भृशं पापमुपार्जितम् ॥ २॥ देवादिगतयस्तिस्रो, गतिमेकामिमां विना । बन्धाय पुण्यपापानां, केवलं, न क्षयाय तु ॥ ३ ॥ अद्य प्राप्तोऽस्ति संयोगो दुर्लभो जन्मकोटिभिः । तं लब्ध्वा किल कुर्वेऽहं, विपुलां कर्मनिर्जराम् ॥ ४ ॥ शब्दादिविषये यत्नात्, प्रतिबन्धमपि त्यजे । यतस्ते सर्वदा नैक-स्वरूपाः सन्ति देहिनाम् ॥५॥ यद्रुपमेकदा दृष्ट्वा, नृत्येते स्माऽक्षिणी भृशम् । सम्मुखं चाऽऽगतं तन्ल, रोचतेऽद्य निरीक्षितुम् ॥६॥ श्रोतुं भोक्तुं तथा स्प्रष्टुं, द्रष्टुमाघातुमिच्छति । सदा नवं नवं चाऽयं, भुक्तपूर्वोऽप्यनन्तशः ॥ ७ ॥ करुणाब्धेऽथ नाथ ! त्वा - मद्य प्राप्य निरञ्जनम् । सर्वेभ्यो विषयेभ्योऽहं, भवेयं विरतो विभो ! ॥ ८ ॥ Page #69 -------------------------------------------------------------------------- ________________ प्रव्रज्याग्रहणविधिसूत्रम् ( श्रीमत्पञ्चसूत्र - तृतीयसूत्र - पद्यानुवादः ) एवं यथोक्तमुनिधर्मविभावनेन सञ्जाततीव्रतरतद्ग्रहणाभिलाषः । तत्प्राप्तये प्रयतनं विधिना तु कुर्या - दन्योपतापरहितं स्वहितप्रवीणः ॥ अन्योपताप इह तत्प्रतिपत्तिविघ्नमेषोऽनुपाय इति सुज्ञजनेन हेयः । आरभ्यते यदशुभेन पथा नु कार्यं जायेत तद्धितकरं न कदापि कर्तुः ॥ बोध्यौ कथंचिदपि चाप्रतिबुद्धभावौ वैराग्यसारवचनैः पितरौ स्वकीयौ । “ तज्जीवितं यदुभयत्र फलावहं स्यात् सद्धर्मसेवनपुरस्सरमेव तच्च ॥ कर्माणि यानि समुदायगतैः कृतानि भोग्यानि तानि समुदायगतैः पुनस्तैः । कुर्याम तत्समुदिता वयमत्र धर्मं येनायतौ भवति नूनमविप्रयोगः ॥ ५६ १ ३ ४ -मुनिः भुवनचन्द्रः Page #70 -------------------------------------------------------------------------- ________________ अरमाकमेकतरुसंश्रितपक्षिसंघतुल्यो ह्ययं स्वजनसंगकृतप्रसङ्गः । स्वच्छन्द- निघृण- सुनिश्चित-पार्श्ववर्ती मृत्युर्ग्रहीष्यति कदा-तदहं न जाने ॥ अम्भोनिधौ पतितरनसमं दुरापं मानुष्यकं नहि बुधेन मुधातिवाह्यम् । अन्ये भवा अकुशला अतिदुःस्वरूपा मोहान्धकारबहुला न सुधर्मयोग्याः ॥ मानुष्यकं भवजले खलु पोतभूतं सम्मुद्द्य तस्य विवराणि तु संवरेण । सज्ज्ञाननाविकयुतं सुतपःप्रवेगं योज्यं च तद्भवजलोत्तरणे स्वकार्ये ॥ ७ दुष्प्राप एष खलु हस्तगतः क्षणोऽयं तुल्यं च तेन नहि वस्तु समस्ति किञ्चित् । सिद्धेश्च साधकतमो वरधर्मयोगस्तस्यापि साधनमसौ नरजन्मलाभः ॥ ८ मुक्तेः पदं मतिमतां नितरामभीष्टं नो सन्ति यज्जनिजरामरणानि तत्र । नापि प्रियाप्रियपदार्थवियोगयोगा नैव क्षुधा न च तृषा न तथान्यदोषाः ॥ ९ ५७ Page #71 -------------------------------------------------------------------------- ________________ यत्रात्मनः स्थितिरहो परमस्वतत्रा रागादिदोषरहिता शिवशान्तरूपा । संसार एष किल तद्विपरीतरूपः प्रत्यक्षमेव परिवर्तनशीलधर्मा ॥ १० एकक्षणे भवति यन्नहि तद्वितीये दृष्टः सुखी य इह सोऽप्यसुखी निमेषात् । स्वप्नेन संवदति सर्वजगत्प्रपञ्चो योग्यः कथं तदिह बुद्धिमतां विमोहः? ॥ ११ तत्प्रार्थये मयि कृपां कुरुतां भवन्तौ व्युच्छित्तयेऽस्य भवतां किल बद्धकक्षौ । सानोमि चाहमपि युष्मदनुज्ञयैतत् । प्राप्नोमि दुःखपरिहाणमभीष्टलाभम् ॥” १२ बोध्यो ह्यनेन विधिनेतरबन्धुवर्ग एतैः समं श्रमणधर्मरतो भवेत्सः । नित्यं निजोचितविधानपरो निराशः संसाधयेदिति जिनेश्वरशासनं च ॥ मात्रादिक प्रबलमोहवशस्वकीयलोकप्रबोधनविधौ यदि न प्रभुः स्यात् । कुर्यात्तदा तदुपकारकरं विशुद्धमाजीविकाहमुचितं किल संविधानम् ॥ १४ ॥ - Page #72 -------------------------------------------------------------------------- ________________ सैषा परा नु करुणा च कृतज्ञता च धर्मप्रधानजननी जगति प्रसिद्धा । एवं प्रसाद्य पितरावितरांश्च बन्धून् धर्मं ततोऽनुमतिमाप्य समाददीत ॥ एवं कृतेऽप्यनुमतिर्यदि नोपलब्धा निर्माय एव विदधीत ततोऽत्र मायाम् । सर्वात्मनां हि हितकृद्वरधर्मलाभः सम्पादनीय इति सोऽत्र यथाकथञ्चित् ॥ १६ स्वप्नादिकल्पितकथाभिरपि प्रबोधं नो प्राप्नुयुः परिहरेदथ तान् प्रबुद्धः । न्यायः किलात्र विषये त्यजनं स्वपित्रोः रुग्णस्थितावगदलाभकूते वनादौ ॥ १७ कश्चित्पुमान् गहनकाननमध्यभागे पित्रादियुक् स्वपितृभक्तिपर: प्रयाति । शक्यौषधो नियमघातक उग्ररुपो रोगो भवेत् पितृजनस्य कदापि तस्य ॥ १८ आलोचयेत्स गुरुषु प्रतिबद्धभावो “योग्यौषधेन रहिता न भवेयुरेते । शङ्का किलात्र गहने विपिने चिकित्सा लाभेऽथ कालसहना अधुना किलामी ॥” १९ ज ना Page #73 -------------------------------------------------------------------------- ________________ संस्थाप्य तान् कथमपि क्वचन प्रदेशे निर्वाहसाधनतदौषधमार्गणार्थम् । दूरं व्रजन्नपि सुतो नहि दोषपात्रं मेधाविनां पुनरहोऽर्हति साधुवादम् ॥ २० त्यक्ता नहि स्वगुरवस्त्यजता पि तेन त्यक्तास्तु तेन सुतरां न जहाति यस्तु । निश्चिन्वते हि विबुधाः सकलं फलेन जानन्ति धीरपुरुषाः परमार्थमेतम् ॥ २१ प्राप्तौषधः प्रतिनिवृत्त्य पितॄन् स दद्यादेवं च रोगविगमात् किल जीवयेत्तान् । यद्यद् भवेज्जगति सम्भवकोटिशुद्धं तत्कर्तुमर्हति नरो निजशक्तिसारम् ॥ २२ मात्रादियुङ नरवरोऽथ भवाटवीरथः सच्छुक्लपाक्षिकतया दृढधर्मरागः । आदातुमिच्छति परं श्रमणीयधर्म मिथ्यात्वमूढपरिवारजनावरुद्धः ॥ २३ आलोचयेदिदमसौ- “स्वजना ममैते कर्मोग्ररोगविकला न विबोधयोग्याः । अप्राप्तबीजपुरुषेण न साधनीयो रोगो ह्ययं परमनिर्मलबोधिसाध्यः ॥ २४ , ६० Page #74 -------------------------------------------------------------------------- ________________ सम्यक्त्वरूपपरमौषधमन्तरेण नंक्ष्यन्त्यमी नियमतो गुरुकर्मरोगात् । सम्पादनेऽत्र खलु तस्य परं विभाषा कालक्षमाश्च पितरो व्यवहारदृष्ट्या ॥" एवं विचार्य स पितॄनिहलोक योग्यनिर्वाहसाधनयुतान् विधिवद्विधाय । सम्यक्त्वमुख्यपरमौषधलाभहेतोः स्वश्रेयसे च वरसद्गुरुमाश्रयेत ॥ इत्थं विधाय सकलं करणीयकृत्यं त्यक्त्वा कुटुम्बमभिनिष्क्रममाण एषः । सम्प्राप्य सिद्धिमथ तान् प्रतिबोधयंश्च सत्यं भवेत् स्वजनवर्गमहोपकारी ॥ अत्याग एष किल तत्त्वविभावनेन तत्त्याग एव फलितोऽत्यजने तु मौढ्यात् । यत्तात्त्विकं हि फलमत्र मतं प्रधानमासन्नभव्यशुचिधीरजनैस्तु दृष्टम् ॥ सद्दर्शनादिकवरौषधदानतः स मृत्युप्रचाररहितस्थितिबीजयोगात् । संस्थापयेदिति च शाश्वतजीचने तानेतत्सुसम्भवमतः पुरुषानुरूपम् ॥ ६१ २५ २६ २७ २८ २९ Page #75 -------------------------------------------------------------------------- ________________ - शक्या नहि प्रतिकृतिः प्रकटं तु पित्रोधर्मः सतां पितृजनेषु परानुकम्पा । पित्रोः परं परिहरन् परितापहेतुं ज्ञातं किलात्र विषये प्रभुवर्धमानः ॥ ३० अन्योपतापविगमेन च सर्वथैवं गुर्वन्तिके भवति निष्क्रमणाय सज्जः । सम्पूजयेज्जिनवरानथ वीतरागान् साधूंश्च शुद्धवसनादिकवस्तुदानात् ॥ ३१ सन्तोषयेत् कृपणकान् विभवानुसारमावश्यकानि च यथाविधि सम्प्रयुज्यात् । लब्ध्वा सुमङ्गलनिमित्तयुतं च कालं प्राप्याधिवासनमथो गुरुपादमूले ॥ ३२ स्फूर्जत्प्रमोदरसकञ्चकिताङ्गभागः संशुध्यमानहृदयाध्यवसायशाली । त्यक्त्वा स लौकिकगृहस्थजनाहधर्मान् लोकोत्तरे प्रविशति श्रमणार्हधर्मे ॥ ३३ सैषा किल प्रवरमङ्गलकृज्जिनाज्ञा सिद्धयर्थिना बुधजनेन न खण्डनीया । तत्खण्डनं परमनर्थकरं मुमुक्षोरतत्पालनं भवति मङ्गलहेतुरुच्चैः ॥ ३४ ६२ Page #76 -------------------------------------------------------------------------- ________________ BISRAEL हिन्दुराष्ट्रम् डॉ. आचार्य रामकिशोरमिश्रः १४ / २९५ पट्टीरामपुरम् खेकडा (बागपत) उ.प्र. २०११०१ भारतं भो ! हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छ्थ ? (१) मातृभूमेः सेवनादथ कथं यूयं भवथ विमुखाः ? देशवासिविपत्तिनाशं कर्तुमधुना भवथ प्रमुखाः । दीनहीनविपन्नपार्श्वे कुशलपृच्छायै न याताः ? न यूयं रुदतां जनानामश्रुप्रौच्छनपरा जाताः ? भरतभूमिं कथमिमां मुस्लिमाधीनां कर्तुमिच्छथ ? भारतं भो ! हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ? (२) ये बुभुक्षापिपासाभ्यां पीडिताः सन्ति हि रुदन्तः । जनानां तेषां समीपे गता नेतारः कियन्तः ? मतानां याचनाकाले न जाने ते किं वदन्ति ? पञ्चवर्षानन्तरं ते कथितवक्तव्यं स्मरन्ति ॥ अहो ! निर्वाचिता निजमस्तित्वमपि विस्मर्तुमिच्छथ ? भारतं भो ! हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ? munmun MANTRAAAAAAAAAAAAAAA ६३ AAAAAAAAAAAAAAAAAAAAAAAA AAAAAAAAAAAAAAAAAAAAAAAAAA 1-«ïalim I'« Page #77 -------------------------------------------------------------------------- ________________ MILITTLUTUUUUUUUULTULTULTUULT ururururururururururururururururunruri annnnnnnnnnnnnnn बुभुक्षितमनुजानापृच्छत ते हि किं किं भक्षयन्ति ? पीडिताः किं क्षुधा प्रतिदिनमुदरकृतपादाः स्वपन्ति ? तृषा व्याकुलतापरास्ते निदाघे प्रतिनलमटन्ति ? जीविकामर्जितुं प्रतिगृहगतास्ते चर्चा चरन्ति ? किन्न तेषां गृहं गत्वा तदीयभावान् ज्ञातुमिच्छथ ? भारतं भो ! हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ? (४) आगता वैदेशिकास्ते कृतो पैरत्राधिकारः । बलाज्जनतावधं कृत्वा प्रसारित आतङ्कतारः । तदीयैरन्यायिभक्तैर्विभक्तोऽयं भरतदेशः । पाकवङ्गौ हिन्दुरहितौ शास्ति तद्धार्मिकनिदेशः ॥ तथाऽप्यत्र वसन्ति यवना देशमुक्तिं कर्तुमिच्छथ ? पुनर्देशं हिन्दुराष्ट्रं कथं नो निर्मातुं मिच्छथ ? AUTIFUP-UnrnAURATruerALLURLutrilitr nannunarM भारते वः प्रवर्धन्ते प्रतिदिनं ते मुसलमानाः । चतुर्भिस्तेषां विवाहैर्बालसंख्या वर्धमानाः । पारिवारिकनियोजनबद्धान्न कुरुते शासनं तान् । कियत्कालं सहिष्यध्ये शासकीयान् भेदभावान् ? यवनतुष्टीकरणनीत्या हिन्दुनाशं द्रष्टुमिच्छथ ? पुनर्देशं हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ? ARATHI/AAAAAAAJTAPTITLETERNFURNITARATURARIAll TALKARUPATERTAIPL RANGILITARIALPाल तामा TRURALRUALILALTURULNITIRUPALALITUALRUrunurunsnuuuun.RATE M Page #78 -------------------------------------------------------------------------- ________________ P urnruarrrrrrrrrrrrrr uaruruuuuuuururuvruary n nnnnnnnnnnnnnnnnnnnnnnnnnnruti यत्राधिकाः सन्ति ते यवना हिन्दुवधं कुर्वन्ति । परं दयालुहिन्दवस्तानिह यत्र तत्र रक्षन्ति । शनैः शनैर्वर्धित्वा तेऽग्रे भारतमधिकर्तारः । संस्थाप्य त्विस्लामधर्ममिह हिन्दून्नाशयितार: ॥ हिन्दुदेशं भारतं किं यवनदेशं द्रष्टुमिच्छथ ? भारतं भो ! हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ? -ruarunnnnrunnerunnnnnnnnruarunan unmurranirunninnrunnnnnnnnnnnn कृत्वा हिन्दुवधं काश्मीरात्तैः शेषाः पलायिताः । अद्यावधि शासनेन तेषां वासा अपि न कारिताः । समाप्य हिन्दुविरोधिशासनं हैन्दवराष्ट्र स्थापय । हत्वा रामविरोधिराक्षसान् हिन्दुसंस्कृतिं सारय ॥ फीजीदेशे यद्यद् भूतं तत्तत्किं कर्तुमिच्छथ ? पुनर्देशं हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ? (८) शकास्तथा हूणा ये केचिद् वैदेशिका आगमन् । अस्माकं संस्कृतिं गृहीत्वा तत्र विलीना अभवन् । परं मुसलमाना अद्यावधि मक्कातीर्थं यान्ति । भारतभूमौ जन्म गृहीत्वा परकीयास्ते भान्ति ॥ किमपि राममन्दिरनिर्माणे मुस्लिमबाधामिच्छथ ? पुनर्देशं हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ? aanerunninrnururururunrunurnnelhearrarurnarrianrarunnrunanny -neurunnnnnuairearinnaruururunninraruna Page #79 -------------------------------------------------------------------------- ________________ mururururururunUTUFurururunuTILLIUALLY ՄԱՈԱՈԱԱԱԱԱԻՄԱ ՄԱՐԱԼԻԱՆԱ ԱՐԱՄ) Un MULTURARTU N-Trununununun GURUKURAULILAULArrrrrrrurunururunrurururunrift यवना अत्र राष्ट्रपतिपदमपि विधानेन गृह्णन्ति । मविपाश्च न्यायाधीशा अपि राज्यपालाश्च भवन्ति । तादृशमस्ति न किमपि स्थानं यत्र न ते तिष्ठन्ति । परं कदाचिद्देशसंस्कृतिं नाऽऽत्मीयां कुर्वन्ति ॥ अल्पसंख्यकान् किमत्र तान् बहुसंख्यकान् कर्तुमिच्छथ ? पुनर्देशं हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ? (१०) भारते न यवना देशीयां संस्कृतिमपि गृह्णन्ति । स्वदेशीयतीर्थानि पवित्रस्थानानि न पश्यन्ति । गङ्गाजलमावेजमजमतो न पूतमवगच्छन्ति । नामानि च भारतसंस्कृतिवत्ते नोरीकुर्वन्ति ॥ तेषां कारणेन भारतभूखण्डत्रयं न पश्यथ ? पुनर्देशं हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ? (११) मस्ज़िदेषु कृतनमाजपाठा अल्लां भजन्त यवनाः । ईशुं प्रार्थयन्तु चर्चेषु च यीशुभक्तिपरा जनाः । बौद्धाः समर्चन्तु बुद्ध्या तं धर्मप्रवर्तकबुद्धम् । जैना बाहुबलिं स्मरन्तु तं महावीरमक्रुद्धम् ॥ शिष्याः ! गुरुद्वारेषु नानकं गुरुवाण्याऽञ्चतुमिच्छथ ? भारतं भो ! हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ? FULTUREuruuururururunurunurururururururururitrunHULA THIUTUTILAULILUULTULTITUTLEurururuLALPURUrURI AnnouTumuTurunnunHRUPMURURURULTUALPUR... HAITUTAURUITUTIOUTUrurununirururuTurmuTUTIFUTLY ૬૬ Page #80 -------------------------------------------------------------------------- ________________ -runnarurunurunninraunaruunnar uwaunururunanuarurneaaneeruine Triannamrurnearn मन्दिरेषु केचिच्छ्रीरामं श्रीकृष्णं भगवन्तम् । शिवमर्चन्ति गणेशं विष्णुं केऽपि हरिं हनुमन्तम् । जपन्ति चाऽन्ये दुर्गादेवीं केचिद् भजन्ति शक्तिम् ॥ भक्तिपरा हिन्दवो ! न जाने किं किं त्वर्चितुमिच्छथ ? भारतं भो ! हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ? (१३) साम्ये सर्वेषामधिकारः कोऽपि न केषां भारः । भारतीयसंविधानमिह सर्वेषां कण्ठे हारः । उन्नतयेऽवसरा उपलब्धाः सर्वेषां श्रीमन्तः ! किन्तु यैर्जनैरुन्नतिः कूता ते सज्जनाः कियन्तः ? कारमीरात्कन्यापर्यन्तं भारतं यदि द्रष्टुमिच्छथ ? भारतं तद् हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ? urururuuuuuuuuuuuuuuru SEXPOct nunuuuuuuuuuuuuunnn I घृणा लज्जा भयं शोको जुगुप्सा चेति पञ्चमी । कुलं शीलं च जातिश्चेत्यष्टौ पाशाः प्रकीर्तिताः ।। REG Arunanuruuuuuuunrurururun nnnnnnnnnnnnnnnn ६७ Page #81 -------------------------------------------------------------------------- ________________ ८ (9) * वल्मीकगर्भ विश भो मुने ! पनः ॥ १ ॥ किं भोः कथं राम इति प्रगायसि मारस्त्विदानीं प्रबलो धरातले । हाहाकृतिर्नृत्यति दोषशर्वरी वल्मीक गर्भं विश भो मुने पुनः ॥ ॥२॥ शास्त्रे च शस्त्रे प्रथमं नृपोत्तमं धत्से त्विदानीं पदवित्तलोलुपाः । गृध्रा इव क्रव्यभुजो जयन्ति ते वल्मीक गर्भं विश भो मुने पुनः ॥ ॥ ३ ॥ राज्यं प्रजानामभयं सुखाकरं चेत्ते महातङ्कविभीषिकाऽधुना । गाण्डीवटङ्कारमपि प्रतर्जति वल्मीक गर्भं विश भो मुने पुनः ॥ ॥ ४ ॥ डॉ. सुरेन्द्रमोहनमिश्रः कुरुक्षेत्रविश्वविद्यालय: पौलस्त्यदोषान्कलुषैः स्वकैर्नृपाः कुर्वन्ति चोनानपि लज्जितान्मुदा । स्वतन्त्रता वार्जिततन्त्रतां गता वल्मीक गर्भं विश भो मुने पुनः ॥ * २०.२.२००२ दिनाङ्के कुरुक्षेत्रस्य ब्रह्मसरोवरस्थकात्यायनीपीठे संस्कृतभारत्याः श्रीवाल्मीकिजयन्तीसंस्कृतकविसम्मेलने पठितम् । ६८ ८) Page #82 -------------------------------------------------------------------------- ________________ ॥५॥ पाश्चात्यपन्थाः स उरीकृतो जनैः प्राच्यस्तु धर्मः स्मृतिशेषतां गतः । दुर्व्याख्यया मूर्च्छितवेदसन्ततिवल्मीकगर्भ विश भो मुने पुनः ॥ ૬ | कौटुम्बिकं सौख्यमपाकृतं तु हा स्वार्थप्रमादैः सततं बुभुक्षया । वृद्धालये वार्धकमासते ना वल्मीकगर्भ विश भो. मुने पुनः ॥ ॥७॥ मात्स्यः स चासौ कुरुते पदं भुवि न्यायो बली दुर्बलमत्ति नित्यशः । कीटाः पतङ्गा इव मानुषा हता वल्मीकगर्भ विश भो मुने पुनः ॥ ॥८॥ भ्रष्टस्त्वधोऽधः परियाति मानवः स दानवानां कुरुते पदार्चनम् । दैवीस्त्यजन्सम्पदमासुरीः श्रितो वल्मीकगर्भ विश भो मुने पुनः ॥ ॥९॥ पृथ्वीं विहाय प्रगता उदङ्मुखा नक्षत्रयात्रां तु बुधाः प्रकुर्वते । पुत्रः पृथिव्या म्रियते बुभुक्षया वल्मीकगर्भं विश भो मुने पुनः ॥ ६९ : Page #83 -------------------------------------------------------------------------- ________________ ॥ १० ॥ शिक्षा न चास्ते न च संस्कृतिर्जने कामार्थकुत्सा विनिहन्ति सभ्यताम् । रामः कुतस्तस्य च राज्यलक्ष्मीवल्मीक गर्भं विश भो मुने पुनः ॥ ॥ ११ ॥ नेता प्रमाथी व्यसनैकदृष्टिमान् धूर्तः प्रजातन्त्रविनाशहेतुकः । कोशस्य हर्ता प्रजया चितस्य यो वल्मीक गर्भं विश भो मुने पुनः ॥ ॥ १२ ॥ सा भारती रोदिति राष्ट्रमातृका यच्छिन्नमस्ता सुचिरात्पराभवैः । पुत्रा न शृण्वन्ति तत्रपा मला वल्मीक गर्भं विश भो मुने पुनः ॥ ॥ १३ ॥ सद्धर्मनिष्ठा क्व च कर्मनिष्ठता क्वाऽसौ जनानां नयवर्त्म वर्तिता । जीवेषु वृक्षेष्वपि चाऽऽत्मभावना वल्मीक गर्भं विश भो मुने पुनः ॥ ॥ १४ ॥ गीर्वाणवाणीं जनमानसेषु तां निषिञ्चितां वर्षसहस्रकाद्धठात् । दूरीचिकीर्षन्ति विमूढचेतसो वल्मीक गर्भं विश भो मुने पुनः ॥ ७० Page #84 -------------------------------------------------------------------------- ________________ ॥१५॥ जातिमहिष्ठा गुणकर्मता गता वर्णस्य भेदे श्रुतिवम॑निर्वृता । नीचोर्ध्वभावेन मिथोऽर्दयन्ति ते वल्मीक गर्भ विश भो मुने पुनः ॥ ॥१६॥ हा जन्मना ब्राह्मण एति कोऽपि सः स क्षत्रियो वैश्य इतोऽपि शूद्रताम् । अस्पृश्यताव्याधिरुदेति दु:सहा वल्मीकगर्भ विश भो मुने पुनः ॥ ॥१७ ॥ शूद्रः स आशु द्रवति प्रजाहितः शिल्पादिकर्माणि धिया सृजन्वशी । किं हेतुनाऽसौ दलितो हरेर्जनो वल्मीकगर्भ विश भो मुने पुनः ॥ FARP UR द्वीपः स जम्बुर्भरताख्यखण्डको यत्र स्थिता संस्कृतिमातृका भुवः । रक्ते ऽप्यभिन्ने सहजाः सदाऽजिरे वल्मीक गर्भ विश भो मुने पुनः ॥ ॥१९॥ ज्ञानञ्च तत्व क्च विवेकवृत्तिता त्वन्धा यथान्धान्विनयन्ति हा जनान् । रामायणं पूज्यमथो न पालितं वल्मीकग विश भो मुने पुनः ॥ ७१ Page #85 -------------------------------------------------------------------------- ________________ ॥ २० ॥ हे भारता भारतमातृकासुता आर्या ऋषिप्राप्तसुजन्मशालिनः । आत्मानुसन्धानमिदं चिकीर्षितुं वाल्मीकिगर्भं विशत प्रजागराः ॥ ॥२१॥ तद्रामराज्यं यदि साम्प्रतं प्रजातत्रे निषेकं लभतादनामयम् । निर्भीकराष्ट्रं भवताज्जगद्गुरु पुनर्महाखण्डितभारतं महः ॥ ॥२२॥ वाल्मीकेर्जयताज्जन्म जयसंवत्सरे क्षितौ । कुरुक्षेत्रे नतो भक्त्या सुरेन्द्रः प्रथमं कविम् ॥ - . गुरुत्यागे भवेद् दुःखं, मन्त्रत्यागे दरिद्रता। गुरुमन्त्रपरित्यागे, सिद्धोऽपि नरकं व्रजेत् ।। (आचारदिनकरे) ७२ Page #86 -------------------------------------------------------------------------- ________________ धीरता धीयतामा -डॉ.सुरेन्द्रमोहनमिश्रः ____ कु.वि.,कुरुक्षेत्रम् । कामना वल्लरी पत्रपुष्पैर्नता सत्फला स्यादसौ धीरता धीयताम् ।। मोघता जीवने गेहिनी साम्प्रतम् स्यादमोघा कृति/रता धीयताम् २ वीतकास्तेऽधुना वासरा दुर्भगा दुर्जयं किं सख्ने धीरता धीयताम् ३ रात्रिरेषा श्वसित्यासवार्ता शुचा भास्करो भास्यति धीरता धीयताम् ४ प्रेयसी नाऽऽगता नो गतः कल्पक: प्रेम नो निष्फलं धीरता धीयताम् ५ राज्यदावानले कोऽमृतः को मृतो द्यूतमिथ्याजिरे धीरता धीयताम् ६ सख्यसौख्यं सदा भाति नो जीवने गर्हणाा गरो धीरता धीयताम् ७ पूर्णिमा नो सदा सा त्वमा निश्चिता मृण्मये दीपके धीरता धीयताम् ८ पान्थ ! पन्था असौ निर्विकल्पोऽधुना कण्टके ऽप्यक्षते धीरता धीयताम् ।। ७३ Page #87 -------------------------------------------------------------------------- ________________ Ke कौटिल्यवन्दनम् [ पञ्चनिमिषपर्यन्तं मृदङ्गध्वनिः, तदनन्तरं नेपथ्ये ] सदयहृदया: सहृदया: ! स्वागतं वः । भवतां सर्वेषां विदितचरमेव यद् विश्वस्य महतां ) चिन्तनाचारुचेतोवतां समाजे निरतिशयां प्रख्यातिमुपगतः, अनल्पाभिः कल्पनाभिः प्राज्यस्य राष्ट्रदौर्भाग्यदूरीकरणशस्त्रस्य राज्यशास्त्रस्य निर्माता निखिलजनपदसौभाग्यकर्मनिर्माणधर्मा कण्टकमूलोच्छेत्ता कौशल्यवत्स्वान्तस्तत्रभवान् कौटिल्य इति । एतच्च प्रसिद्धं यत् कौटिल्यो राजकीयेषु व्यवहारेषु सुतराम् उदासीन एवासीत् । परन्तु न्याय्येन मार्गेण राज्यमलभमानस्य चन्द्रगुप्तस्य विज्ञप्तिमनुलक्ष्य तस्मै राज्यदापनं प्रतिजज्ञे । राज्यदापनानन्तरं न तस्य कर्तव्यभारः समाप्तः । तस्मात् सः मलयकेतोराश्रयं प्राप्य चन्द्रगुप्तपराभवाय प्रयतमानम् अमात्यराक्षसं कथञ्चित् कुसुमपुरम् आनाय्य तं चन्द्रगुप्तमन्त्रिणं कर्तुमीहते, तत्र विविधानि तन्त्राणि प्रयुङ्क्ते, सफलश्च भविष्यति । कौटिल्य: स्वनिर्मितेषु राज्यतन्त्रेषु साफल्यवैफल्ये स्पष्टमेव ज्ञातुकामः सन् विविधाभिः दिशाभिः अनेकैश्च जनैः तस्य द्रढिम्ने प्रयतते । अर्थशास्त्राध्ययनेनेदं स्पष्टीभवति यत् कौटिल्यः सर्वत्र गूढचराणां व्यूहमेव निर्मापयामास । नर्तकीनामपि तत्र भागग्रहणं वर्तते । नर्तकीभिः जनपदानां व्यवहारः सूक्ष्मेक्षिकया परीक्षणीय इति, ज्ञातेषु केषुचिदपि विशेषेषु अधिकारिणो ज्ञापनीया इति कौटिल्यः सूचयति । अमुमंशं मनसि निधाय नृत्यनाटकमिदं रचितम् । अत्र कर्णाटकसंगीते प्रसिद्धा एव रागाः तालगतयश्च समुपात्ताः । कन्नडभाषायाश्छन्दोगतिरपि द्वित्रस्थलेषु आदात्तः। अत्र साफल्यवैफल्ययोः सहृदया एव प्रमाणं भवितुमर्हन्ति । ७४ एस्. जगन्नाथः 2925, Saraswathipuram. 1st main, 5th cross. Mysore -570009 Phone : 541687 86 6€ Page #88 -------------------------------------------------------------------------- ________________ यद्यपि अस्माकं सर्वेऽपि कलाविदो विरचितानल्पाभ्यासा उत्सुकास्तर्पयितुं सहृदयान्। तथाऽपि महाकविमुखारविन्दगलिता वाणी अत्र स्मरणमर्हति यथा आपरितोषाद् विदुषां न ( साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानाम् आत्मन्यप्रत्ययं चेतः ।। शब्दनृत्यम् - नाटरागः । हंहो हंहो पदं पदम् । हंहो हंहो पदं पदम् । हंहो हंहो पदं पदम् । हंहो हंहो पदं पदम् । नटनपटुतरं पदं पदम् । घटितनूपुरं पदं पदम् । गणचलनवरं पदं पदम् । गुणमनोहरं पदं पदम् । भूषणललितं पदं पदम् । दोषविरहितं पदं पदम् । श्रुतिहितनिनदं पदं पदम् । गतिलयविशदं पदं पदम् । नयनहृदयतर्पणं पदं पदम् । जयति कृतसदर्पणं पदं पदम् ।। त्वरितविहितताडनं पदं पदम् । स्फुरितधरणिपीडनं पदं पदम् । चलनबहुलकोमलं पदं पदम् । विलसदतिविनिर्मलं पदं पदम् । वलनभङ्गिपण्डितं पदं पदम् । कलनिनादमण्डितं पदं पदम् । छविमनोज्ञपदं पदम् । भुवि विलासि पदं पदम् । तालसुभगपदं पदम् । बालशोणपदं पदम् । रसिकतोषि पदं पदम् । लसितभाषि पदं पदम् । सुहसितमिव पदं पदम् । अहह चारु पदं पदम् । गणपतिवन्दनम् । [नाटरागः] प - वेतण्डास्यं तं नौमि श्री..वेदैरीडितं वेदविद्वेष्टितं ल अ.प- मङ्गळपदं ददानं मुदा नम्रसतां सदा ७५ Page #89 -------------------------------------------------------------------------- ________________ Ke WEBC CG मण्डितगरिमाद्भुतं मनसा द्रुतं कलये गणेशं ___ चरण:- गाने कर्णसुधादाने निपुणं रसानन्दाम्बुधिसान्द्रं सच्चिदात्मारामं प्रकामं मारितपरं वरं मालिनं मानसे मानये माधवसुरलोकनाथनुतं पिनाकिसुतं गुणाढ्यम् ॥ कौटिल्यवन्दनम् । [ कल्याणी] लोके रतोकेतरार्थप्रकटनघटनापण्डितप्रीयमाणां स्वान्तस्वातव्यशैलीकलनवरकलाकोविदाश्रीयमाणाम् । राज्यक्षेमंकराध्वस्फुटचलनपटुस्पष्टविख्यातबोधां वेगे निर्धूतराधां बहुगहविधां नौमि कौटिल्यमधाम् ॥ [राधा-विद्युत्] सरस्वतीप्रार्थना [ षण्मुखप्रिया ] श्वेता देहगलद्विभाभिरसिता केशस्फुरत्कान्तिभिः पीता भूषणभासमानरुचिभिः प्रीता विदां भाषितैः । माता वर्णगणस्य शारदविधुस्फीतानना शारदा भव्यं स्वीकृतभावुकाकृतिरिमं पुष्पाञ्जलिं स्वीक्रियात् ॥ सूत्रधारः- अलमतिविस्तरेण । (नेपथ्याभिमुखम् अवलोक्य) आर्ये ! इतस्तावत् । नटी - (प्रविश्य) आर्य ! इयमस्मि । सूत्रधार:- आर्ये, आज्ञप्तोऽस्मि रसोत्सनिमज्जनसज्जया परिषदा यदधुना पटुतरमतिना (लोककल्याणकलनकौशल्यकर्मीणेन कौटिल्येन विरचितं राज्यविधानमहास्त्रमर्थशास्त्रमधिकृत्य सहदयहृदयोत्साहवाहिन्युन्मीलनशीलेन गाननिबिडेन नाट्येन समाराध्यन्तां सामाजिका इति । तदधुना तावदिमे सान्द्रानन्दममन्दमनुबुभूषवो रसिकशिखामणयो रागपरिवाहिना मधुरमधुरेण . गीतेन तय॑न्ताम् । नटी-आर्य, कतमं वस्तु समाश्रित्य गायामि? सूत्रधार:- आर्ये ! नन्वमुमेव उदयमानं भगवन्तं भास्करमधिकृत्य गीयतां तावत् । नटी-तथा । (इति गायति) CCE & CGPSC CS ७६ Page #90 -------------------------------------------------------------------------- ________________ _ (वासन्तिका) भू-रङ्ग-मानुषनटैरभिनीयमानं संसारनाट्यमवलोकयितुं दिनादौ । आरुह्य शक्रहरिदासनमंशुमाली लब्ध्या महारसिकतां रिमतमातनोति ॥ (ततः प्रविशति भट:) (बेगडे रागेण भामिनीषट्पदीछन्दसा गायति ।) कलितबहुलकलाविलासे ! ललितनाट्योत्सवनिवासे ! मिलितबन्धुरभावभङ्गिविशारदे ! बाले ! । कलयितुं त्वां रमणि ! नृत्यं तुलनया परिवर्जितं बुधवलयनिबिडायां सभायां नृपतिराह्वयते ॥ नर्तकी- (आत्मगतं) अये, आर्यकौटिल्यस्येदम् आह्वानं न पुनर्देवस्य चन्द्रगुप्तस्य । नगरे वर्तमानाः परिस्थितीः संस्थायां सूचयितुं पूर्वमेव नियुक्ताऽस्मि । परन्तु मया ये विषयाः सूचितास्तत्र किञ्चिदिवाश्रद्दधानस्तत्रभवान् कौटिल्यः प्रत्यक्षमेव नृत्यप्रयोगदर्शनव्याजेन तान् । सर्वान् द्रष्टकामोऽस्ति । मयाऽपि देवस्य चन्द्रगुप्तस्य पुरस्तात् नृत्यप्रयोगव्याजेन नगरे वर्तमानाः परिस्थितय आर्यकौटिल्याय सूच्यन्ते । तत्रभवान् मया सूचयिष्यमाणेषु प्रसंगेषु कांश्चन विशेषान् विस्पष्टं ज्ञास्यत्येव स्वीयया अनितरसाधारण्या मेधया। (प्रकाशं) अयि भोः भट, विज्ञाप्यतां तावद् देवश्चन्द्रगुप्तो यदनुगृहीताऽस्म्यहमनेन मयि पतितेन देवकटाक्षेण । तत्रभवतो देवस्याज्ञानुवर्तिनी इयं सेविका देवस्य सेवां करिष्यतीति ।। भटः- तथा (इति निष्क्रान्तः) नर्तकी- (आत्मगतं) अधुना शिष्या अभ्यासार्थं प्रेरणीयाः । ICES & RESE CONCEPSC A ७७ Page #91 -------------------------------------------------------------------------- ________________ नृत्याभ्यासः [शङ्कराभरणरागेण त्रिपदीछन्दसा च गायति ।] अभिनेयं नृत्यं नः प्रभुवाचा स्तुतियोग्यं सभया च द्रवतां रसपाकै (:) रसिकानाम् अभितश्च वातं विबुधानाम् ॥ दोषाणामल्पत्वेऽप्येषा नर्तनशैली तोषीयं स्फुरणं न करोति प्राज्ञानां वेषैर्न प्रीतिं दधते ये ॥ भूयात् परमा सिद्धिः स्तूयादवनीपालो देयात् संदोहोडमात्यानाम् अस्मभ्यं स्वीयानि श्लाघावचनानि ॥ नृत्यविषयक उपदेशः [ भैरवी] (प.) रीतिरेषा समीचीना प्रीतितो भावुकाराधना । (अ.प.) नटनं नालं बहिरतिरम्यं स्फुटति मनसि यदि तदवाग्गम्यम् । (चरणः) जनगणहृदये प्रमुदमुदारां जनयेदधुना साधु कलेयम् । सर्वरिमन रसिके कुरुत परं गर्वं नाट्यविलोकनजम् । नरपतिकरुणापाङ्गनिपातं वरयत वर्षितकाञ्चनजातम् ॥ प्रस्थानम् [ कुरञ्जी] सुन्दरं रसभरं प्राज्यवरगुणसान्द्र ! वन्दनं करवाम राजाधिराजेन्द्र ! वयमिमे स्मो नाट्यगीतादिपटुतमाः स्वयमात्तशारदापादार्चनक्षमाः । सहृदयान् सेवितुं नियतेषु समयेषु Ice CC C CGGES & BEST ७८ Page #92 -------------------------------------------------------------------------- ________________ विहृतिमत्यनवरतमेतद्विचारेषु कर्णशष्कुलिकाऽस्मदीया समाहिता पूर्णा प्रकृतिगाभिरुक्तिभिर्निबिडिता न कलासु निरताभिरस्माभिरास्यते सुखमुदन्ते जोषमखिलमपि शस्यते कर्म यन्निक्षिप्तमस्माकमार्येण धर्म एष कृतोऽस्ति नियतेन कार्येण सुन्दरं रसभरं प्राज्यवरगुणसान्द्र! वन्दनं करवाम राजाधिराजेन्द्र ! नगरम् । (कलावती) भवति देव भवन्नगरं जनभरं पृथिवीप्रसिद्ध नवतरं सततं विभाति त्रिजगतीस्मितचारु भव्यम् । व्यवहृतिं कर्तुं रचितवान् स्थलवरं स्थानीयसंज्ञम् । शिवकरांस्त्रीन् विततानपरान् विहितवान् ग्रामान् भवान् । विहरणाय न तेषु शाला निर्मिता निपुणेन भवता । विहतिमूहमानेन कर्मणां निखिले जनपदे । पालने लाभे च भूम्या अर्थशास्त्रमहो प्रवृत्तम् । लीलया सूत्रं तदीयं समनुतिष्ठति राजन् भवान् ॥ गजदर्शनम् । [ धन्यासी] जानाति भवान् गजान् जयकारान् समरवरान् । मानाहान राज्यशोभाधरान् । नानारीतीरलं वेत्तीभशिक्षणे को नाम सदृशो वेतण्डानां वेदे भवता । aantage Dangeegas ७९ Page #93 -------------------------------------------------------------------------- ________________ ebe शूरान् दम्यादिभेदेन वारणान् वीरान् निर्विशङ्कं बोधति भवान् भो राजन् । शोभालङ्कारयोर्वीपते भवान् सौभाग्यगुणयोर्ज्ञानं समं धरति गजविषयकम् । नगरीयो मार्गः [ काम्भोजि ] मार्गस्त्वन्नगरगतो जनप्रचारैः संमर्दं जनयति पण्यवीथिभिश्च । संपत्तिं नगरनिवासिनां कुबेर - श्रीलज्जाकरणविधाबुधां दधाति ॥ राजसौधः [ सुचरित्रराग: ] सौधो विभाति राजंस्तव भू-विभूषेव साधो महीक्षितां नरपात्र नायक वीचीभरे तरुप्रतिबिम्बवान् जले प्राचीमुखो महान् पाकस्थलादिगृहवान् धान्यसुमविपणिपरीतो हेमरजतसदनसमेतो मान्यनाट्यकोविदयुतो भेषजप्रकारसहितो गजादिपशुकार्यशाला स्थादिकृ तिगेहमाला ध्वजादिकं भूषणमपि चकारित राजनिवेशेऽमुष्मिन् ॥ जनता [ नाटकुरञ्जी ] जनता करणचतुरा धरणीश तव राज्ये तनुतेहितविचारान् आन्वीक्षिकीनिपुणा वेदेतिहासपुराणविज्ञसमूहसंयुक्तं हे देव ते नगरं सदा गुणिधीधनैरवितं ८० . Page #94 -------------------------------------------------------------------------- ________________ - &BOSS BOBORE BOOR मायाचमत्कृतिकारिणी माल्यादिकूतिशीला स्वीयासु समधीतासु सद्विद्यासु मानभरा । विविधासु ललितकलासु नाट्यमुखासु बहुलसुखा भुवि दैवकृषिसमरोचितप्रभूति प्रभावपरा । सैन्यम् ।[वलजि] शूराधिशूर भोः शस्त्रप्रयोगे धीराग्रणीर्युधि प्रचुरभयवेगे धन्यं महीन्द्र तव हृदयेन घोरं सैन्यं सदाऽप्यायुधैरतिकठोरं सर्वतोभद्रादियत्रैः स्थिरैरते गर्विणो योधा अनीके प्रशस्ते किंचातिविहितरिपुसंघातदलनैः पाञ्चालिक प्रभूतियत्रैः सचलनैः शत्यादिनिशिततमशस्त्रगविशेषान् युक्त्या प्रयुञ्जते सैनिकाः शेषान् तालादिधनुरीषदुद्धृत्य यशसा ये लान्ति जयकृतां माननां महसा । शासनम् । [ लताङ्गी] समवालोकयाम देव कमनीयगुणं प्राज्यं राज्यम् । नियतेन्द्रियतां राजसुतेषु नयपरधर्मान् मन्त्रिगणेषु कररुपात्तमणिप्रकरेषु विरचितविविधपरीक्षाकान् सुपरीक्षितसौवर्णाभरणान् उपचितकोशान् अध्यक्षान् । Page #95 -------------------------------------------------------------------------- ________________ व्यवहृतिषु व्यवस्थापितलेखान् अविवादं निर्णीतविवादान् । दण्डनीयजनदापितदण्डान् पण्डितवर्यान् धर्मस्थीयान् । औचित्यानुष्ठितषाड्गुण्यान् वाचि च मनसि च कर्मणि चैकान् व्यसननिचयनिर्वाहे निपुणान् असकृत् समरप्रवीणान् अधिकृतान् । नीराजनकृतिः [ द्विजावन्ती।] विहितार्थशास्त्राय धृतसुमतिशस्त्राय कौटिल्य ते सुमनोनीराजनम् । स्फुटवाक्यजालाय देशनाशीलाय दृढविहितशासनै राष्ट्रपालाय मृदुमनोहीनाय नीतिष्वदीनाय मनुजशुभलीनाय नीराजनम् । अबलकारुण्याय मन्त्रिगणगण्याय स्थिरतरीकृतमूल्याखिलसुपण्याय प्रणिधिजनविनुताय नययोगनिरताय नीतिज्ञसुकृताय नीराजनम् । सेहिसुहृदार्याय रिपुनाशकार्याय राष्ट्रयोगक्षेमानल्पधैर्याय विश्वतोनेत्राय धृतदण्डतोत्राय प्रकृतिहितसूत्राय नीराजनम् । भावुकानां हृदम्भोजे भास्करीयतु सन्ततम् । जगन्नाथेन रचितं रुच्यं कौटिल्यवन्दनम् ॥ ReceSCBSE OBC |Ke S& E%EGE& CGPS& EGEGENCE HALLAHAugustention . चतुर्णामपि वेदानां धारको यदि पारगः । तथापि लौकिकाचारं मनसाऽपि न लङ्घयेत् ।। (आचारदिनकरे) ८२ Page #96 -------------------------------------------------------------------------- ________________ आख्यादः चिन्तनधारा मुनिरत्नकीर्तिविजयः बहुशो वयमन्यैः सह व्यवहारेऽसहजा भवामः । मनश्चाऽस्माकमुद्विग्नं भूत्वा विचाराटव्यामटनं करोति । 'नैतत् समुचितं, नैतत् समुचितं जातं, नैवं वाऽनेन समीचीनं कृतं, स्वयं कृतमेव हि शोभनं भवेत् ' - इत्यादिभिरीदृग्भिर्विकल्पैः चित्तं सदा विक्षिप्तं भवति । एतस्य एतादृशस्य वा चित्तविक्षेपस्याऽसहजतायाश्च मूलमस्त्यन्यजनेभ्यः सकाशादस्माकमपेक्षा । अपेक्षानुरूपं कार्यं यदि न स्यान्न वाऽन्यः कुर्यात् अपेक्षातो विपरीतं वा यदि स्यात् तदैतादृशो विक्षेप उत्तिष्ठते क्लेशश्च समुद्भवति । अत्रैतत् स्पष्टं ज्ञातव्यं स्वीकर्तव्यमेव च यत् प्रत्येकं मनुष्यस्य स्वकीयस्य बोधस्य मर्यादा क्षमता चाऽस्ति । स च तन्मर्यादानुरूपं क्षमतानुरूपमेव च कार्ये जीवनव्यवहारे च प्रवर्तते । यः कश्चिदपि परकीयां स्वकीयां वा क्षमतां मर्यादां वा न स्वीकरोति स्वीकर्तुं वा न शक्नोति स न कदापि पारस्परिके व्यवहारे साहजिक उदारो वा भवति । स कदाचिदीर्ष्यया पीड्यते कदाचिच्च विक्षेपेण । यद्यपि, भवतु ईर्ष्या वा विक्षेपो वा वस्तुतस्तु असहजतैव तत् । अस्माकं जीवनचर्याया व्यवहारस्य चाऽसामञ्जस्ये तु हेतुरप्येषैवाऽस्ति । अस्माकं स्वीकारोऽस्वीकारो वा नाऽत्र महत्त्वपूर्णः । साम्प्रतकाले तु प्रतिपदं पारिवारिक: सङ्क्लेशो दृश्यते, कौटुम्बिको विच्छेदोऽपि भवति, समस्त: समाजोऽपि विद्रोहेण पीडितः, राजनैतिक क्षेत्रेऽपि नास्ति समस्यानामल्पत्वम् । सततं सर्वत्र - औदार्यं नास्ति, महत्त्वाकाङ्क्षी अस्ति, धनेन गर्विष्ठोऽस्ति, स्वमतिमेवाऽनुसरति, सहकारवृत्यभावोऽस्ति, स्वेच्छाचारी अस्ति, स्वयशोलाभार्थमेव यतते, पादाकर्षणवृत्तिरस्ति, सत्तालोलुपोऽस्ति, स्वार्थी अस्तिइत्यादिका रावा: श्रूयन्ते । किन्तु सर्वस्या अपि रावाया यदि मूलं गवेषयेम तर्हि ज्ञायेत ८३ Page #97 -------------------------------------------------------------------------- ________________ यद् जनानां मर्यादा मुक्त्वा नास्त्यन्यत् किञ्चिदपि ।एतादृश्य उपर्युक्ता वृत्तयस्तु तस्य । स्वभावस्य मर्यादाऽस्ति यत् स तथा वर्तितुं प्रेरितो भवति । सर्वा अप्येषा रावाः पारस्परिक्यः सन्ति । वयमन्यं लक्ष्यं कृत्वा रावां कुर्महेतथाऽन्योऽप्यस्मानुद्दिश्य करोत्येव । अस्माकं स्वभावस्याऽपि मर्यादाऽस्त्येव , यां च . स्वीकर्तुं न वयं कदापि सज्जीभवामः । प्रत्युत 'तेन बोद्धव्यम्' इत्यस्त्यस्माकमपेक्षा, किन्तु 'मयाऽपि बोद्धव्यम्' इति तु नास्त्यस्माकं दृष्टिः । एतदेव बोधशून्यत्वमस्ति सर्वेषामपि क्लेशानां मूलम् । ___ यदि च वयं सर्वेऽप्यस्माकं पारस्परिकी: मर्यादाः सम्यग् बोधयेम स्वीकुर्याम च तदनुरूपमेव च यदि कार्याणि कुर्याम तर्हि बहुभिरनथैरनिष्टैर्दुष्परिणामैर्वा रक्षणमपि भवेत् । तथा च व्यवहारस्य माधुर्यमपि रक्षितं स्यात् । किन्तु न कदापि वयमस्माकं kis परेषां वा मर्यादा क्षमतां वा स्वीकुर्मः । अत एव वैमनस्यमेव वर्धते ।। स्वकीयां मर्यादामज्ञात्वाऽस्वीकृत्यैव वा कस्मिंश्चिदपि कार्येऽभिमानतया यदा वयं साहसं कुर्मः यदा च तत्र विपरीतपरिणाममापतति तदा परस्मिन् जने दोषारोपणस्य हीनवृत्त्या स्वरक्षणकरणावसर उपस्थितो भवति । यद्यत्र वयं समर्थास्तर्हि तु तथा दोषारोपणेन भवति स्वरक्षणं किन्तु न तदस्माकमुत्तमत्वमाभिजात्यं वा। 'सर्वमहं कर्तुमीश्वर' इतिवत् 'मया कृते क्रियमाणे वा कार्ये न कदापि क्षतिर्भवति' इत्यप्यसत्यं तथ्यशून्यमेव । मिथ्याभिमानस्याऽन्धकारः स्वमर्यादाया उपलक्षणं रुणद्धि। ___अपरं च , अस्त्यस्माकमपेक्षा परस्मात् श्रेष्ठपरिणामस्य, तत्र च नास्ति काऽप्यनौचिती। किन्तु यदि तस्य क्षमता तादृशी तावती वा न स्यात् तर्हि तावन्मात्रेण न स उपेक्षितव्यो 2 वा तिरस्कर्तव्यो वा भवति । बहुशो वयमेवं चिन्तयाम इच्छामो वा यत् 'तेनैवमेव वर्तितव्यम्, एवं च व्यवहर्तव्यम्' किन्तु स न तथा वर्तेत अन्यथाऽपि वा कदाचित् " वर्तेत, तर्हि तत्राऽस्ति तस्य बोधस्य मर्यादा । यद्यपि स सर्वथाऽनभिज्ञोऽस्ति न च में किञ्चिदपि जानाति इति तु न, कदाचिच्च ज्ञात्वाऽपि स तथा करोति यन्नाऽस्मभ्यं रोचेत ॐ तथाऽपि तत्र तस्य मर्यादा एव कारणम् । स जानन् विचारयन् सन्नपि स्वसंस्कारपारवश्येन ८४ Page #98 -------------------------------------------------------------------------- ________________ तथा कुर्याद् किन्तु न सदा स तथा कृत्वा मुदमाप्नोति । तस्य स्वकीयो व्यवहारो वर्तनं वा तदनन्तरं तं पीडयत्यपि । एवमेव च यदा वारं वारं भवति तदा वयं व्याकुला भवामः, यद् ‘एतावद्भिरपि स कथं न बुध्यते?' किन्तु नैषा वस्तुस्थितिः । नैष दोषाच्छादन - प्रयत्नः, येन स यथेच्छं वर्तताम्। किन्तु तावन्मात्रेण चित्तं कलुषितं कृत्वा तस्य तिरस्कार , उपेक्षा वा नोचितप्रवृत्तिः । स स्वं प्रति सावधानं भूत्वा क्षतिमुक्तो भवितुं प्रयत्नं कुर्याद्'- इत्यस्तु अस्माकं प्रयत्नः, एतच्चाऽऽवश्यकमपि, किन्तु प्रत्येकं जनस्य स्वकीयो नियतस्वभावो भवत्येव यं च स सदाऽनुसरति। अत एव च स्वस्य मानसिकी वैचारिकी वा स्थितिः तादृशी भवति यत् शक्यमपि परिवर्तनं स इच्छन्नपि न कर्तुं प्रभवति । न किन्त्वेतावता सोऽस्माकमप्रसत्तिपात्रं भवति । एवं सत्यपि यदि वयमप्रसन्नाः स्याम तर्हि साऽस्माकमशक्ति,नतैव । एवं भवेदपि कदाचित् यत् दायित्वं प्रत्यस्माकं जागृतिरस्मानुद्विग्नान् कुर्यात् किन्तु नैष सर्वकालीन उपायः प्रश्नस्य परिस्थितेर्वा Ric निराकरणस्य । एतेन तु प्रत्युत परिस्थितिर्विकटा विषमा च जायते । ____ यदि वयं सम्पन्नाः सर्वरीत्या तहि यो न तादृशस्तदर्थं त्वस्माकमप्रसन्नता उद्वेगस्य कारणं भवति या च तस्य विकासमपि रुणद्धि। एवं च स्वजीवनं प्रति तस्याऽभिगमोऽपि परिवर्तितो भवति । कदाचित् स स्वं हीनमेवाऽनुमन्येत कदाचिच्च स्वच्छन्दोऽपि भवेत् येन तथ्यं सारभूतं वा जानन्नपि न तथा कर्तुमुत्सहेत । एतच्च नैव श्रेयस्करं कस्याऽपि । ___अधुनाऽपरपक्षो विचारणीयः । सर्वेषामपि कश्चिदुत्तरदायको भवत्येव । यथा वयं कस्यचित्तथा कश्चिदस्माकम् । एवं च सति साहजिक्येवाऽऽकाङ्क्षा विद्यतेऽस्माकं यत् सोऽस्माकमुत्तरदायकोऽस्माभिः सहौदार्यपूर्वकं वर्तताम्, अस्मान् अस्मत्क्षतींश्चाऽवबुध्यताम्, तदनुरूपं च व्यवहरतु । किन्तु यथाऽस्माकमस्मदर्थे परार्थे वाऽभिप्रायो वर्तते तथा परेषामप्यस्माकं विषये कश्चिदभिप्रायो वर्तत एव । तस्याऽपि स्वकीया " स्वतन्त्रा भिन्ना च विचारधारा प्रवर्तत एव । तदनुरूपमेव च स व्यवहरति प्रवर्तते च। मर्यादाशब्दो नाऽत्राऽपि विस्मर्तव्यः । स च सर्वत्राऽनुबध्यते । तदीयत्ता तु न्यूनाऽधिका वा स्यादपि । अतः कश्चिद् व्यवहारो वर्तनं वा यदि नाऽस्मभ्यं रोचेत तस्य तर्हि न र Page #99 -------------------------------------------------------------------------- ________________ तावन्मात्रेण सोऽनादरणीयः सञ्जायते । नैषाऽस्माकं योग्यता। यावत् व्यवहारो रुचिकरो भासेताऽस्माकं तावत्तु न कश्चित् प्रश्नः किन्तु यदि व्यवहारे काचित् न्यूनताऽस्मत्परिकल्पिता दृश्येत तदा यदि व्यवहाराद् वचनाद् वाऽऽदरः सम्माननं वा विलुप्तं स्यात् तर्हि साऽस्माकं क्षतिः । ___भवतु नाम साऽस्माकं मर्यादा किन्तु नैवं आश्वासो ग्रहणीयः । मर्यादाया आश्वासस्तु परार्थं किन्तु अस्माभिस्तु सावधानतयैव आभिजात्येनैव वर्तितव्यम् । एतादृशि समयेऽस्माकमस्वास्थ्यं त्वस्मानेव क्षतिं प्रापयति। तात्क्षणिकानां वचोविचारव्यवहाराणां वैरूप्यं भविष्यत्कालीनं व्यापकं व्यवहारं विरूपयति । यदि कदाचित् कस्या अपि परिस्थितेः स्वीकारे नाऽपि स्यादस्माकं क्षमता तथाऽपि यदि वयमाभिजात्यं न मुञ्चेम तदनुरूपं च व्यवहरेम तर्हि उभयस्याऽपि चित्तं प्रसन्नतया वर्तितुं शक्नोति । अतः स्वस्य परस्य च मर्यादायाः सम्यगवबोधपूर्वकमेव व्यवहारः कर्तव्यः सर्वदा । एतादृश एव प्राज्ञव्यवहारो भवितुमर्हति । अन्यथा व्यवहारेऽल्पक्षमस्य तिरस्कारः तस्य विकासमवरोत्स्यति । एवमेव च मिथ्याभिमानः परस्याऽनादरश्च स्वस्य विकास प्रति बाधको भवति । अत उभयाऽपि स्थितिः तुच्छा । स्वस्यार्थे स्वकुटुम्ब-परिवार-समाजराष्ट्रादीनामर्थे चोत्तरोत्तरमहितकरा चैषा स्थितिः । एतादृश्यां स्थितावेव वर्तमानविषमताया गहनं मूलं विद्यते । औदार्येण चैतद् वैषम्यमसाहज्यमस्वास्थ्यं वाऽपाकर्तुं शक्यम् ।। किन्तु नैतादृश औदार्यस्य धैर्यस्य वा जीवनेऽङ्गीकरणं लेखनवत् कथनवद्वा सुकरम् । एषाऽपि साधनाऽस्ति-जीवन साधना ।जीवनस्य प्रत्येक क्षणं साध्यमस्ति-एतत्त्वस्माभिर्विस्मृतमेव । सर्वं सिद्धमेव जातमितिरूपेणाऽनवधानेनैव जीवनं यापयामः । ___ अद्य सर्वत्र वर्धमानो दृश्यतेऽध्ययनस्य ज्ञानप्राप्तेश्चाऽऽग्रहः । अनेकेषु विषयेषु प्रवर्ततेऽभ्यासोऽधुनातने काले । दुःखदा स्थितिस्तु सा यद् ज्ञानस्य वृद्धया सह तस्य " लक्ष्यं तु विस्मृतम् ।आजीविकैव किं ज्ञानप्राप्तिः लक्ष्यम्? न, नैवैतद् सम्भवति । ज्ञानं तु तादृशी शक्तिर्या गौरवमात्मसम्माननं वा प्रकटयति, न तु दैन्यम् । केवलमाजीविकामनुलक्ष्य अध्ययनकरणं तु दैन्यमस्माकम् । अद्य तु पठितदीना एव सर्वत्र Page #100 -------------------------------------------------------------------------- ________________ दृग्गोचरीभवन्ति । ज्ञानस्य विषयीभूता पदार्थास्तु बाह्या भौतिकाश्चैव वर्तन्ते, ये न लेशमपि जीवनेन सम्बद्धाः । यावच्चाऽन्तः पर्यवेक्षणस्य साधनत्वेन ज्ञानं नोपयुज्येत तावत् यत्किमपि अन्यत्प्राप्तुं शक्यं कदाचित्, किन्तु जीवनं जीवनस्यार्थश्च वयमवश्यमेव नाशयिष्यामः । सत्यपि ज्ञाने यदि बोधो न जायेत तर्हि किं तत्र वक्तव्यम्? प्रत्यक्षेऽपि भोजने सन्निधौ च जले विद्यमानेऽपि यथा बुभुक्षायाः तृषायाश्चाऽशमनमाश्चर्यजनकं तथैव सति ज्ञाने बोधाभाव आश्चर्यं जनयति । क्रियापरिणतं ज्ञानमेव प्रकाशं प्रतनोति । एते धैर्य-बोधौदार्यादयश्च प्रकाशरूपा एव । अद्य तु वयं विद्यमानेऽपि ज्ञाने प्रकाशाद् दूरमेव वर्तामहे । असोऽधिका विडम्बना काऽस्माकम्? सर्वेऽपि समाधि स्वास्थ्यमेव चेच्छन्ति, नाऽस्त्यत्र कोऽपि विकल्पः । कस्याऽपि पर जनस्याऽन्तःकरणं स्पृश्यते चेत्, एष एव ध्वनिः श्रूयते । किन्तु , सर्वेऽपि स्वकीयानाग्रहादीन् संरक्ष्यैव परस्मात् समाधानं वाञ्छन्ति, तत्तु न समीचीनम् । यद्यपि मर्यादैव एषाऽपि मनुष्यस्य । किन्तु यदि नाम वयं 'प्रबुद्धा' इति मन्यामहे तर्खेतादृशं तुच्छं ममत्वादिकं परित्यज्यैव वर्तितव्यं येन समाधिलाभो जायेत । एवं च समाधिः सेत्स्यति, व्यवहारोऽपि पारस्परिकः समो भविष्यति । सर्वस्यामपि स्थितौ मया एव ममैव चाऽऽग्रहादिकं त्यक्तव्यं यदि स्वजीवनस्य किञ्चिदपि दायित्वमहं वहेम् स्वं प्रबुद्धं वा मन्येय । तथैव च स्वस्य परस्य च समाधेः स्वस्थताया द्वाराण्यपावरिष्यन्ति । अन्यथा स्वमुखचालनं विना भोज्यचर्वणे ईश्वरोऽपि साहाय्यं कर्तुं नाऽलं भवति । यद्यपि अस्माकमिव ईश्वरस्याऽपि मर्यादा खलु? __ अतः सर्वैरपि स्वकीया परकीया क्षमता मर्यादा च ज्ञातव्या , तदनुरूपमेव व्यवहारश्च करणीयः । यद्यस्त्यस्माकं दायित्वं कुत्रचित् कस्यचिद्वाऽस्मासु तर्हि तस्य दायित्वस्य द्वे आवश्यकेऽङ्गे स्तः स्वास्थ्यं प्रबुद्धता च । एते चाऽस्माभिः प्राप्तव्ये । प्रसन्नजीवनस्य रहस्यमप्यस्मिन्नेव निहितमस्ति । इति शम् । ८७ Page #101 -------------------------------------------------------------------------- ________________ आख्यादः हृदयप्रदीपः मनोलयान्नाऽस्ति परो हि योगो ज्ञानं तु तत्त्वार्थविचारणाच्च । समाधिसौख्यान्न परं च सौख्यं संसारसारं त्रयमेतदेव ॥ (हृदयप्रदीपषट्त्रिंशिका - २९) अस्मिन् सर्वथाऽसारतापरिपूर्णेऽपि हि संसारे किमपि सारं परं श्रेष्ठं च विद्यते । किं तत्इत्येतस्मिन् विषये बहुभिस्तत्त्वदर्शिभिर्विद्विद्भिः कविभिः पण्डितैश्च प्रभूतं चिन्तनं कृतमस्ति । चिन्तनानुगुणं च प्रतिपादनमपि बहु प्रकटितमस्ति । किन्तु न तत्र तेषां सर्वेषामैकमत्यमस्ति । सर्वेषामपि भिन्नं भिन्नं विविधविषयकं चैव मतमस्ति । यतो यस्य चित्ते यच्छ्रेष्ठं प्रतिभाति तदेव तस्य कृते सारम् । यथोक्तम् - दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधाऽपि मधुरैव । तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ॥ इति । तथा च पदार्थिनां सत्तार्थिनां च पदं सत्ता चैव सारतया प्रतिभातः । ते च सर्वत्र पदस्यैवाऽन्वेषणं कुर्वाणा भ्रमन्ति । धनार्थिनां तु धनमेव सारम् । ते हि यतः कुतश्चिदपि धनं मृगयन्त्येव । तथा प्रतिष्ठार्थिनां तु प्रतिष्ठा एव श्रेष्ठा प्राणेभ्योऽपि । यशःकामिनां तु यश एव सारम् । कामिनां तू स्त्री एव सारम् । यथा च ते आहुः - - अस्मिन्नसारे संसारे सारं सारङ्गलोचना ॥ कलाया उपासकानां तु स्वीया कलैव सर्वेभ्योऽपि वस्तुभ्यः परा । ते हि निजाभिमतकलासु तावन्तो लीना भवन्ति यथाऽस्मिन् जगति वर्तमानं न किमपि जानते । कर्मठव्यक्तीनां तु कर्मैव सारम् । ते सर्वमप्यन्यत् सर्वथा विस्मृत्य निजं कार्यं तथा प्रकुर्वते एकनिष्ठतया यथा कदाचित् तत्फलेऽपि तेषामपेक्षा न भवति । किञ्च सुखार्थिनां तु सुखमेव सर्वत्र सारम् । यत्र तत्राऽपि ते सुखमेवाऽन्विच्छन्तो दुःख - मुनिकल्याणकीर्तिविजयः ८८ Page #102 -------------------------------------------------------------------------- ________________ लेशादपि बिभ्यति । स्वार्थिनां तु स्वयमेव सारम् । ते हि स्वीयस्वार्थमेव साधयन्तो यत्र स्वस्याऽर्थः सरति तत्रैव ते प्रसरन्ति, यत्र तु न सरति ततस्ते निश्शब्दमेव निस्सरन्ति । ___ आत्मार्थिनां तु निजात्मैव सारः । यद्यपि आत्मा नैवमेव लब्धं साक्षात्कर्तुं वा शक्यः । तथाऽपि येन यत्र यतो वाऽऽमनोऽर्थः फलति तदेव तेषां लक्ष्यं ध्येयं प्राप्तव्यं च । यथा चिकोड: सदा सावधानस्तिष्ठति तथैतेऽपि सर्वदाऽऽत्मन औन्नत्ये बाधाभूतेभ्यो दोषेभ्यो भीताः सन्तः सन्ततं सावधान एव तिष्ठन्ति । ___ केषाञ्चित्तु इह जगति किमपि सारं न प्रतिभाति ऋते आलस्यात् । ते हि सर्वत्राऽऽलस्येनैव व्यवहरन्तः किमपि कार्यं शुभमशुभं वा कर्तुं नेच्छन्ति । यदि कश्चित् तेषां मुखमध्ये भोजनं क्षिपति चेत् तदपि कर्तुं तेषामिच्छा न विद्यते । एतादृशां जनानां त्वालस्यमेव सारम् । अथवाऽलमेतत्सर्वमालप्य पिष्टपेषणेन वा सारवस्तु विचारणस्य । प्रकृते तु ग्रन्थकार - महषिर्वदति यत् - इहाऽसारे संसारे वस्तुत्रयमेव सारम् । योगो ज्ञानं सौख्यं च । किन्तु न यादृशं तादृशं वैतत् वस्तुत्रयं सारतया संगृह्यम् । आध्यात्मिके मार्गे यो योगो यज्झानं यच्च सौख्यं वर्णितं तदेव सारतया ग्राह्यम् । यद्यपि योगो ज्ञानं च यदा सम्मील्य प्रवर्तेते तदैव सौख्यं लभ्येत । तत्र योगो नाम कश्चन व्यापारः । ज्ञानं तु तद्वयापारे उपयोगी बोधः । यथा कश्चन कर्मकरो निजकर्तव्यं सम्यक्अवबुध्य तत् समर्थयितुं तत्र व्यापारे स्वं यथावत् योजयति, तदा समीचीनं तत्फलं प्राप्य सौख्यं चाऽप्युत्तमं लभते । तथाऽऽध्यात्मिके मार्गेऽपि द्रष्टव्यम् । तत्र तु तत्त्वार्थविचारणं नाम यथावस्थिततत्त्वानां सम्यचिन्तनस्वरूपं ज्ञानमेव जगति श्रेष्ठम् । तथा तांस्तांस्तत्त्वार्थान् विचारयन् यदा निजं मन आत्मनि लीनं करोति-अन्यतः सर्वतो निवार्य-तदा स एव श्रेष्ठो योगो भवति । एवं च ज्ञानेन मनोलयेन च तस्य यः समाधिर्लभ्यते स एव श्रेष्ठं सुखम् । यतो हि तत्त्वार्थचिन्तने सर्वदा नवनवान् पदार्थान् अनुप्रेक्षमाणस्य तस्य, चिन्तकस्य यज्ज्ञानं भवति प्रकटीभवति वा न तदन्येभ्यः स्रोतेभ्यो लब्धुं शक्यते । तथा मनोलयरूपो योगो यदा सिद्धो भवति सोऽपि नाऽन्येन मार्गेण कदाचिदपि साध्यते । अथ च द्वयमप्येतत् प्रत्येकमेव तादृक् सौख्यं जनयितुं शक्तं यादृक् सौख्यं नरेन्द्र-सुरेन्द्रादिभिरपि लब्धं न ८९ Page #103 -------------------------------------------------------------------------- ________________ शक्यते । यदाहुर्वाचकमुख्याः नैवाऽस्ति राजराजस्य तत्सुखं नैव देवराजस्य । - यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ।। (प्रशमरतिः १२८) तथाऽपि उभयमप्येतत् सम्मील्य यत् सुखं जनयति यं च प्रशमभावं समाधि चोत्पादयति तत् तु किञ्चिदनुपममेव । तथा सांसारिकं विषयसुखं सत्तासुखं पदसुखं तुं परेषामधीनं भवति । तथा केनचिद्व्ययादिनैव लभ्यते न तु एवमेव । किञ्च स्वर्गसुखं तु परोक्षं भवति मोक्षसुखं त्वत्यन्तं परोक्षं भवति, तदपेक्षया ह्येतत् समाधिसौख्यं तु सर्वथा स्वाधीनमव्ययलभ्यं च भवति । यदाहुः - स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुखं न परवशं न व्ययप्राप्तम् ।। (प्रशमरतिः २३७) - अतः समस्तेऽपि संसारे तत्त्वार्थविचारणस्वरूपं ज्ञानं, मनोलयलक्षणो योगः, समाधिसौख्यं चेत्येतत् त्रयमेव सारम् । इति एतेष्वेव सर्वसामर्थ्येन यत्नः कार्य इत्युपदिशति शास्त्रकारमहर्षिः ॥ आशा निराशा द्वे रम्ये संसारकुलबालिके। आद्या पितृकुलोद्धारा द्वितीया कुलघातिनी ।। ९० Page #104 -------------------------------------------------------------------------- ________________ - पत्रम् -मुनिधर्मकीर्तिविजयः _ नमो नमः श्रीगुरुनेमिसूरये।। आत्मीयबन्धो! चेतन! धर्मलाभोऽस्तु। अद्य दीर्घविहारयात्रां समाप्य बेंगलूरुनगरं प्राप्ताः वयम्। किं फलं श्रीतीर्थकराणामनुग्रहस्य * पूज्यपादगुरुभगवतां च कृपायाः इत्यस्याऽनुभूतिं अन्वभवमहमद्य खलु । निरन्तरं वाहन वृन्दानां गमनागमनेन खचिते मार्गे विहारे कुर्वति सत्यपि दीर्घविहारयात्रायामेतादृश्यां निराबाधं सानन्दं वयमागतवन्तः । न केषाञ्चिदपि देहस्य प्रातिकूल्यं सञ्जातम् । एतदेव तेषां प्रसादस्य फलम् । एवमधुना सर्वेऽपि वयं सक्षेममात्मसाधनायां मग्नाः वर्तामहे। एक ज्ञातं खलु त्वया गतपत्रेण विधेयात्मकेन "कर्मणा शुद्धिः" इत्यस्य सूत्रस्य तात्पर्यम् । म अद्य तत्सूत्रमेव निषेधात्मकेन विज्ञपयितुं प्रयत्यते मया । एतत्सूत्रस्य गर्भे 'न ह्यस्ति प्राधान्यं क्रियायाः अपि तु मनसः शुभभावस्यैव' इति तु निश्चितं त्वया गतपत्रात् । _. बन्धो! विद्यते कर्म रसायनतुल्यम् । रोगिष्ठजनेभ्यो रसायनं दीयते वैद्येन । तेन सह 'कदा, कियन्मानं, केन सह ग्राह्यम्' इति सूचना तथाऽनुपानमपि प्रोच्यते तेन वैद्येन । । अत्राऽधिकं माहात्म्यमनुपानस्यैव वर्तते । यदि चेदातुरेण वैद्योक्तं रसायनं सानुपानं गृह्यते तदाऽवश्यं व्याधिः सर्वथा नश्यति तथा च देहस्य कान्तिरूपबलादिकं विवर्धतेऽपि । किन्तु विपरीतरूपेण रसायनं यदि अङ्गीक्रियते तदा तदेव रसायनं रोगस्य वृद्धः निमित्तं भवति, " कदाचित्तु तदेव हि निधनस्याऽपि कारणं भवेत् खलु । __ उक्तं च - पडिवज्जिऊण किरियं तीए विरुद्धं निसेवइ जो उ। अपवत्तगाउ अहियं सिग्घं संपावइ विणासं ।। ९१ Page #105 -------------------------------------------------------------------------- ________________ तथैव क्रिया- कर्माऽपि रसायननिभं वर्तते । सर्वज्ञेन भगवता प्रतिजीवं तद्योग्यतानुरूपं । विविधाः क्रिया निरूपिताः सन्ति । अत्राऽपि क्रियाबहुमानः तन्निरूपकबहुमान आदर र उचितविनयो विधिप्रतिषेधोचितविवेकपूर्वकमासेवनमित्यादिकं अनुपानमिव ज्ञेयम् । अतः मैं एतेनाऽनुपानेन सह यदि भगवत्प्रणीतमाज्ञायुतं कर्मकलापमाराध्यते तदा जन्मजरामरण- दुःखालीकस्नेहवार्तादियुक्तः संसाररोगो नश्यते। किन्तु यदि चेत् भगवदाज्ञाविरुद्धेनाऽनुपान राहित्येन च कर्म क्रियते तदा तत्कर्म हि संसारं विवर्धयति । एवं येन कर्मणा परमं पदं प्राप्तुं शक्यते तेनैव कर्मणाऽतिनिकृष्टा नरकगतिरपि अवाप्यते, यदि चित्ते दुर्भावना प्रवर्तेत । कथितं च - जह चेव उ मोक्खफला आणा आराहिया जिणिदाणं । संसारदुक्खफलया तह चेव विराहिया नवरं ।। . - [पंचवस्तु- ११९] ___ अतो वस्तुतः ‘आत्मपरिणतेः विशुद्धिः एव क्रिया' इति ज्ञेयम् । तस्मादेवाऽत्र न क्रियौघस्य (Quantity)माहात्म्यं, किन्तु कीदृग्रीत्या (Quality)तत्क्रियते तस्यैव मूल्यमस्ति । बहुमानपूर्वकं शुभभावनया च कृता स्वल्पाऽपि क्रिया शोभना, परंतु अनादरेणाऽऽशंसया दुर्बुद्ध्या चाऽऽचरिताः अनेकाः अपि क्रियाः असुन्दराः सन्ति । कदाचित् । शुभभावनया कृतायां विहितक्रियायां स्यात् काऽपि स्खलना तथाऽपि तत्र न कर्मबन्धो भवति, यदि भवेत् कदाचित्तदाऽपि पश्चात्तापेन योऽपाकर्तुं शक्यः तादृश एव कर्मबन्धो र भूयेत । किन्तु यथारुचि आशयपूर्वकं भगवदाज्ञाविरुद्धं च क्रियायाः अनादरोऽविधिश्च यदि विधीयते तदा तदर्थं नाऽवकाशः प्रायश्चित्तस्य, तत्तु कर्मावश्यंतया प्रभावं फलं च दर्शयत्येव । यदाहन य तस्स तन्निमित्तो बंधो सुहुमो वि देसिओ समए । अणवज्जो उवओगेण सव्वभावेण सो जम्हा ।। जिअदु व मरदु व जीवो अजदाचारस्स निच्छओ हिंसा। पयदस्स णत्थि बंधो हिंसामित्तेण समिदस्स ।। Art Page #106 -------------------------------------------------------------------------- ________________ अथ यत्क्रिययोत्तरोत्तरभवेषु प्रवर्धमानतया शुभगुणानामनुबन्धो भवति,तथाऽशुभकर्मणः क्षयो भवति; एवं यावन्मोक्षावसानफलं प्राप्यते यया सैव किया। किन्तु क्रियायां क्रियमाणायां S सत्यामपि भवपरम्परा यदि वर्द्धत तर्हि तत्क्रियया किम् ? स तु क्रियाभासः एव । क्रिया हि कर्मनिर्जरायाः प्रधानं कारणमस्ति तथा च तदर्थमेव कियाऽपि करणीया;न तुर - पुण्याय । अतः आस्तामशुभबन्धः किन्तु शुभबन्धोऽपि, अविपरीतरूपेण कृतक्रियया बद्धः र प्रत्यूहः एव मोक्षमार्गे । स्यात् लोहमयी शृङ्खला सुवर्णमयी वा । को नाम तत्र भेदः ? ३. बन्धनमेव खलु तया। अत्र तु बन्धनान्मुक्तिरेवाऽभीष्टा । तथैवाऽत्राऽपि शुभाशुभकर्मबन्धनाभ्यां निर्वाणमेव क्रियायाः साफल्यमस्ति । * अत:एव कर्मनिर्जरायाः कारणीभूता भावसहितैव क्रिया करणीया। अन्यथा तु वस्तुतो * न तत्क्रियया कोऽपि लाभः । ततः एव कथितम् "भावशून्यया क्रियया कृतः कर्मक्षयो मण्डूकचूर्णनिभो ज्ञेयः, एतादृशः कर्मक्षयो वस्तुतोऽक्षयः एव; यतः प्रावृजादिनिमित्तयोगतः | तच्चूर्णादधिकमण्डूकोत्पत्तिः भवति । तथैवाऽविधिना कृतायाः क्रियायाः अपि ज्ञेयम् । तथा च शुभभावनान्वितया क्रियया यः कर्मक्षयो भवेत् सः मण्डूकभस्मतुल्यो ज्ञेयः । येन * कदाऽपि भस्मनो मण्डूकानामुत्पत्तिर्न भवति । सुगतशिष्याः आहुःक्रियामात्रतः कर्मक्षयो मण्डूकचूर्णवत्, भावनातस्तु तद्भस्मवत् इति । तत्समन्वयपूर्वकं पूज्यपादैः श्रीहरिभद्रसूरीश्वरैः गदितम् कायकिरियाए दोसा खविया मंडुक्कचुण्णतुल्ल त्ति । ते चेव भावणाए नेया तच्छारसरिस त्ति ।। (योगशतकम्-८६) बन्धो! अत्र कर्म तु तुल्यमेव, तथाऽपि फले विशेषो भेदोऽस्ति । यतः केन प्रकारेण । र कर्म सेव्यते तस्यैव मूल्यमस्ति । समये क्रिया स्ववत्सपालननिभा वर्णिता । किं दृष्टो है मृगाधिपः त्वया खलु ? न नाम केवलं स क्रूरः एव, अपि तु वत्सलोऽपि अस्ति । ९३ Page #107 -------------------------------------------------------------------------- ________________ अतिक्रूरत्वेन स कुरङ्गवत्सं गृह्णाति, किन्तु स्वबालं तु स सवात्सल्यं स्वीकुरुते । अत्र । क्रिया तु ग्रहणरूपेण समाना । तथाऽप्यन्तरङ्गभावभेदो दृश्यते । एकस्यां क्रियायां रक्षणबुद्धिः S अन्यस्यां तु विनाशबुद्धिः वर्तते । तथैवाऽत्र करणीया काचिदपि क्रिया सादरमेवाऽस्माभिः । न कदाऽपि क्रियाऽविधिनाऽनादरेण च करणीया । यतः क्रियायाः योऽनादरः सः वस्तुतो तीर्थनाश एव। भ्रातः ! व्यवहारेऽपि अनुभूयते एवाऽस्माभिः विपरीतकर्मणः फलम् । गृहे यदि पूज्यजनानामनादरो क्रियेत तहि तैः सह सम्बन्धो नश्येत् । विद्यालये गुरुजनानां, आपणे कई । कार्यालये वा तदधिकारिणामुचितो विनयो यदि न विधीयेत तर्हि अवश्यंतया तत्स्थानात् । विच्युतिः भवेत् । एवमर्थविषये यदा व्यापाराननुकूलं कर्म कुर्यात्तदा सर्वथाऽर्थाभावो भवेत्, मूलतोऽपि विनाशो भवेत् । अत एव यदि चेद् बाह्यविषयाणां सांसारिकवस्तूनामपि अविधिना विनियोगोऽत्यन्तदुःखं दद्यात्तर्हि भगवनिरूपितस्योत्तमस्य धर्मस्याऽनादरेणाऽवज्ञया च किं र न भवेत् खलु? हन्त ! महाननर्थो भवेदेव । पूज्यपादैः श्रीहरिभद्रसूरीश्वरैः प्ररूपितम्अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात्परः ।। (योगबिन्दुसूत्रम्-२२३) . प्रापयतो धर्मस्याऽविधिः अरुचिश्चाऽनन्तसंसारभाजनत्वम् । दुर्गतौ नैकशः परिभ्रमयतः । पुनः तदर्थं तस्य सुधर्मस्याऽवाप्तिः सुदुष्प्राप्या भवति । अत एव धर्माराधनारूपं कर्म न । कदाचिदपि दुष्टाशयेनाऽविधिना च करणीयम् ॥ अन्तेऽत एव त्वयाऽपि निषेधात्मककर्मणः फलं ज्ञात्वा सदा शुद्धभावनया निर्मलबुद्ध्या निराशंसतया च विधेयात्मकं कर्म करणीयमिति आशासे । Page #108 -------------------------------------------------------------------------- ________________ मुनिरनकीर्तिविजयः अहोऽद्भुतानि (१) समाजसेवक:(?) जन एकः समाजसेवकः सञ्जातः । हस्तविनुतानि(खादी) वस्त्राण्येव स परिदधाति । समाजसेवकश्च यो भवति तेन परेषां दुःखानि अपनेतव्यानि भवन्ति इति मत्वा सोऽपि यथावकाशं तत्र प्रवर्तते स्म। एकदा ग्रामे कश्चित् प्रधान आगतः । सेवाकार्यार्थं तु प्रधानेन सह सम्पर्कः कर्तव्य एवेति मत्वा सेवकः स तस्य साक्षात्कारार्थं गतवान् । तत्सार्द्ध चैका विधवा स्त्री: अप्यासीत् । स सेवकः प्रधानमुद्दिश्योक्तवान्- 'महाशय ! दारिद्यं सततं वर्धते । जना वृत्तिमपि न लभन्ते कथमपि।' प्रधान उवाच-'श्रीकारस्तु तदर्थं प्रयत्नरतो वर्तत एव ।' 'अस्या विधवायाः स्त्रियः कृते तु तात्कालिकी व्यवस्था काऽपि कर्तव्या । पञ्च पुत्रा एतस्या विद्यन्ते । सर्वेऽपि बुभुक्षापीडिता जीवन्ति । स्वावासस्य भाटकमपि दातुं नैषा समर्था । गृहस्वामी तु गृहं रिक्तं कर्तुं सततं कथयति । तदर्थं च न्यायालयं गन्तुमपि स प्रवृत्तोऽस्ति । तपस्विन्येषा कुत्र गमिष्यति?'-इति समाजसेवकेन निवेदितं दुःखेन । प्रधानः –'सत्यमेतद् । किन्तु, एषा स्त्रीः किं तव सम्बन्धिनी? सेवकः - 'न,न ! अहं त्वेतस्या गृहस्य स्वामी अस्मि' इति । Page #109 -------------------------------------------------------------------------- ________________ (2) शौर्यम् (?) सामान्यत: स रात्रिसमये न कदापि बहिर्निर्गच्छति । किन्तु, एकदा तथा प्रसङ्ग उपस्थितो यतो रात्रावेव तेन बहिर्गन्तव्यमभूत् । रात्रौ तु स्तेनादिकानां भयं प्रवर्तत एव । तस्य रात्रिगमनं ज्ञात्वा प्रातिवेश्मिका आगताः । तेषां कथनानुसारं स छुरिकाखड्गकुन्तादिशस्त्रैः सज्जीभूय निर्गतः । स्वल्पेनैव कालेन किन्तु रूदन् सन् प्रत्यागतवान् सः । लुण्टाकैः लुण्टित आसीत् सः । वस्त्रपर्यन्तं सर्वमपि लुटतं तैः । प्रातिवेश्मिकादिजनास्तं तादृशं प्रत्यागतं दृष्ट्वाऽऽश्चर्यमनुभूतवन्तः । कश्चित् पृष्टवानपि - 'भोः ! कथं भवान् लुण्टित: ? स उक्तवान्- ‘दण्डप्रहारेण' । पुन:- अरे ! भवत्सकाशं तु छुरिकाखड्गादिशस्त्राणि आसन्नेव खलु ? तर्हि कथमेवं भूतम् ? स उवाच- रे मूर्खशिरोमणयः ! भवन्तो न ज्ञातुं समर्था एतद् । शृण्वन्तु तावत्- - ममैकस्मिन् हस्ते खड्ग आसीत्, अपरस्मिश्च हस्ते कुन्तः । एवं चोभावपि मम हस्तौ व्यस्तावास्ताम् । अतः केन हस्तेन प्रतिकर्तव्या मया ते? ९६ Page #110 -------------------------------------------------------------------------- ________________ (३) दीर्घदृष्टि: (?) जन एकः पर्यटितुं निर्गतो गृहात् । नवीनमद्भुतवेषं धृत्वा स निर्गत आसीत् । मस्तकस्थं शिरस्त्रमपि बहुमूल्यमासीत् । मित्रैः सहोपाहारगृहं गतवान् । शिरस्त्रमुत्तार्य तेन काष्ठासनोपरि स्थापितम् । चायपानं च मित्रैः सहाऽऽस्वादपूर्वकं कृतवान् । तावद् धूर्तस्यैकस्य दृष्टिपथमागतं तच्छिरस्त्रम् । अवसरं च लब्ध्वा त्वरितं स तदपहृत्य पलायितः । अकस्मादेवं घटितं दृष्ट्वा स खिन्नोऽभवत् । किन्तु झटित्येव तज्जनं ग्रहीतुं सज्जोऽभवत् ।धूर्तस्य पृष्ठे च स धावितवान् । मित्राण्यपि तत्सहायार्थं तमन्वसरन् । स च झटिति बहिनिर्गत उपाहारगृहात् । मित्राणि बहिरागत्य पश्यन्ति यत् कस्यां दिशि स गतः । किन्तु दृश्यं दृष्ट्वा तानि आश्चर्यमनुभूतवन्ति । तैः दृष्टं यद् धूर्तः स एकस्यां दिशि धावति, स जनश्च न तमनुसरति किन्तु विपरीतायामेव दिशि धावति । कथमेवं स करोती' ? ति आश्चर्यमासीत्तेषाम् । किन्तु कौतुकेन तान्यपि तं जनमन्वसरन् । स च धावन् स्मशानद्वारमागत्य स्थितवान् । तन्निकटं गत्वा मित्राण्यपृच्छन् भो! तं धूर्त मुक्त्वा किमर्थमत्राऽऽगतोऽसि? स्वस्थः सन् स उक्तवान्- अरे! धावं धावं च स कुत्र कियत्पर्यन्तं वा गमिष्यति? कदाचिदपि तेन त्वत्रैवाऽऽगन्तव्यमस्ति ।अतस्तदाऽहं तं ग्रहीष्यामि ! ९७ Page #111 -------------------------------------------------------------------------- ________________ - - ELEAKEDA (४) ज्ञानपूर्विका क्रिया (?) जनः कश्चिदासीत् । कुक्कुट्यां तस्य विशेषरुचिरासीत् । किन्तु 'कथं ताः पालनीयाः' -इत्यालस्येनाऽनुगृहितः स न पालयति । प्रातिवेश्मिकानां गृहेषु बढ्यःकुक्कुट्यः आसन् । अतः स्वरुचिपोषणार्थं स तेषां गृहेभ्यः चौर्यं कृत्वा कुक्कुटीर्गृह्णाति । प्रातिवेश्मिकाः सर्वेऽपि तस्य तथाव्यवहारेण दुष्कृत्येन त्रस्ताः खिन्नाश्च जाताः । एकेन जनेन तु नामसङ्केतादिरहितं पत्रं तस्योपरि संप्रेष्य सावधानीकृतोऽपि स यद्'अद्यप्रभृति कुक्कुटीनां चौर्यकार्यं निश्चितरूपेण स्थगयितव्यं त्वया । अन्यथा तु पादभञ्जनमेव करिष्ये' इति । अथ पत्रमिदं गृहीत्वा स आरक्षकास्थानं गतवान् । आरक्षकाधिकारिणे च तत्प्रदत्तम् । तस्य पठनानन्तरं पुनः स उक्तवान्-'महाशय! एवं प्रकारेण मां भापयति कश्चित् । स कः, केनेतादृशं पत्रं प्रेषितमिति भवता शोध्यम् ।' ___ अधिकारी उवाच-'किमत्र नामज्ञानस्य प्रयोजनम्? यदि त्वं कुक्कुटीचौर्यं कुर्वन् स्यात् तहि तन्न त्वया कर्तव्यम् । तथा च न कोऽपि पत्रं लिखिष्यति' इति । किञ्चिद् विचार्य स उक्तवान्- 'महोदय ! नाम तु ज्ञेयमेव । अन्यथा, कस्य कुक्कुट्याः चौर्यं मया न कार्य इति कथं जानीयाम्?' इति । Page #112 -------------------------------------------------------------------------- ________________ अनुवादः - मुनिधर्मकीर्तिविजयः झेनकवेः एषा पङ्क्तिः"रन्ध्रहीना वेणुः तद्वादनमतिकठिनम्" रन्ध्रहीनवेणोः वादनं न कठिनमेव , अपि त्वशक्यमस्ति । "अस्त्यस्मिन् जगति मनोज्ञस्य संगीतस्य प्रसारस्य सामर्थ्यमस्यां वेणौ"इति तात्पर्यमेतत्पङ्क्तेः। "तवेण्वाः रिक्तभागे प्रतिनियतान्तरे छिद्राणि तथा च पिहितस्य द्वारस्य वातायनस्य चोद्घाटनम्"एतदेवाऽत्राऽऽवश्यकम् । केवलमत्र तत्र कृतैः छिद्रैः संगीतस्य मधुरसुरावलिः प्रसरति । किन्तु तच्छ्रवणार्थं निरोधनीयो बहिःस्थितः कोलाहलः, सर्वतो मौनं धरणीयम् , तावन्मानं कर्तव्यं यावत् निःशब्दोऽपि शब्दः श्रूयेत।। ___ अस्तित्वस्य स्वकीयः प्रशस्तः आरावोऽस्ति । स्वकीयं संगीतमप्यस्ति । तस्य निरन्तरं लयबद्धानि आन्दोलनानि सर्वत्र प्रवहन्त्येव । यदि चेत्तदान्दोलनग्रहणस्योत्सुकता तर्हि एतत्परमं पवित्रं संगीतमानन्दोदधौ निमज्जयिष्यति। ततो बन्धो! चल चल वयं सर्वेऽप्येतन्मधुरस्य संगीतस्याऽनुभूत्यर्थं प्रयाणं कुर्याम । - 0 ९९ Page #113 -------------------------------------------------------------------------- ________________ - काव्यानुवादः मुनिरत्नकीर्तिविजयः आभना सूरज चंद्र ने तारा मोटा मोटा तेजराया; आतमनो तारो प्रगटाव दीवो तुं विण सर्व पराया। (भोगीलाल गांधी 'उपवासी') सूर्यो विधुस्तारकवृन्दमभ्रे, तेजस्विनोऽन्येऽपि च सन्तु किन्तु । प्रज्वालय स्वीयमिहाऽऽत्मदीपं सर्वं, विना त्वां , पकीयमेव ॥ १०० Page #114 -------------------------------------------------------------------------- ________________ काव्यानुवादः मुनिरत्नकीर्तिविजयः (२) अंचलो अज्ञाननो ओढी 'जटिल', रडतुं रह्यंबिंदु जाण्युं नहीं के अ स्वयं सागर हशे . (जटील) १०१ अज्ञानरूपं परिवेष्ट्य वस्त्रं सदा रुदच्चास्ति, कियद् विचित्रम् ? | ज्ञातं स्व-रूपं न हि बिन्दुना यद् 'अहं स्वयं सागर एव नान्यः ' ॥ Page #115 -------------------------------------------------------------------------- ________________ 44 काव्यानुवादः। मुनिरत्नकीर्तिविजयः (३) अमृत मळ्युं पण अमर थयो नहि, पीवानी जुक्ति न जाणी रे; कां तो घटमां गयुं ना आना, कां पीवामां आव्युं पाणी। (गणपतराम) पीयूषमाप्याडप्यमरो न जातः पानस्य कृत्यं ननु नाऽवबुद्धम् । अन्तः प्रविष्टं न कदाचिदस्य पयोऽथ वा पीतमनेन शुद्धम् ॥ १०२ Page #116 -------------------------------------------------------------------------- ________________ कथा विजयसूर्योदयसूरिः एकदा देवा दानवा मनुष्याश्च प्रजापतिमुपदेशार्थमुपतस्थुः। प्रजापतिना त्रिभ्योऽपि सर्वसामान्योपदेशो दत्तः - 'द"द“द' इति ।। देवैर्विचारितम् - वयं भोगमग्नाः, विषयासक्ताश्च । अतो दकारेण 'दम' इति इन्द्रियदमस्योपदेशोऽस्मभ्यं दत्तः । अतोऽस्माभिरिन्द्रियदमे यत्नः कार्यः। दानवैः स्वनिरीक्षणं कृतम् । स्वस्योगस्वभावमुपलक्ष्य तैनिश्चितं यद् - अतः पर- मस्माभिर्दयालुत्वेन वर्तितव्यम् । द- इत्यनेनाऽस्मभ्यं दयाया उपदेशो दत्तः। । मानवैः स्वस्वभावगता लोभान्धता संग्रहशीलता चा ज्ञाता । तैर्विचारितम् - 'द' इतिशब्देन 'दानं कुर्वन्तु' इति वयमुपदिष्टाः । तथैव च प्रयतितव्यमस्माभिः। एवं च विचारयद्भिः त्रिभिरपि स्वस्वदोषा ज्ञाताः । उपदेशस्य सारोऽपि गृहीतः । तथा च दोषान् त्यक्त्वा गुणान् स्वीकृतवन्तस्ते सर्वेऽपि । -0 व्यक्षरस्तु भवेन्मृत्युः, त्र्यक्षरं ब्रह्म शाश्वतम् । 'ममे' ति व्यक्षरो मृत्युः, 'न ममे' ति च शाश्वतम् ।। (महाभारते) १०३ Page #117 -------------------------------------------------------------------------- ________________ - - कथा समाधानम् विजयसूर्योदयसूरिःअमेरीका- इत्याख्यो देशोऽस्ति । तस्मिन् लिंकननामा वाक्कीलोऽभवत् । तस्य पार्श्वे कोऽप्येको धनिक आगतः। तेन सहाऽन्योऽपि कश्चिज्जन आसीत् । धनिको लिंक न-महोदयायोक्त वान् - 'अहं सार्धद्वयडोलरमितं धनमस्मान्मनुष्यान्मार्गयामि । स च मह्यं तन्न दत्ते । अतः कमप्युपायं दर्शयतु।' लिंकनः- कथं स न ददाति? धनिकः- स निर्धनोऽस्ति । लिंकनः- तर्हि स कथं दद्यात् ? धनिकः - (साग्रहम्) न । कमप्युपायं करोतु । लिंकन:- ओम् । दर्शयामि । किन्तु तदर्थ तु मह्यं दशडोलरमितं धनं देयं भवता। धनिकः- स्वीकरोमि। एवं कथितो धनराशिस्तेन दत्तः। तस्मात् पञ्चडोलरमितं धनं तस्मै निर्धनाय लिंकनो दत्तवान् । उक्तवान् च - 'अस्मात् सार्धद्वयमस्मै धनिकाय देहि । सार्धद्वयं ।। च त्वं रक्ष' । पञ्चडोलरमितं धनं च स्वयं गृहीतवान् । पश्चात् धनिकं प्रति उक्तवान् लिंकनः - ‘प्राप्तं ते धनम्?' एतेन विलक्षीभूतो धनिकः 'ओम्' इत्युक्तवान् । तदनु च लिंकनः अमेरिकादेशस्य प्रमुखो जातः । -० १०४ Page #118 -------------------------------------------------------------------------- ________________ लोभः सर्वविनाशकः मुनिरत्नकीर्तिविजयः आसीत् कस्मिश्चिन्नगरे साहित्य सङ्गीत - कलादिविषय- रसिकः एको नृपतिः । नित्यं तस्य सभायां विदुषां सम्मेलनं भवति स्म । तत्र च ज्ञानचर्चा प्रचलति स्म । नित्यं च नवीनाः स्वदेशस्था अन्यदेशीयाः पण्डिताः कवयो विविधविषयनिपुणाश्च जनास्तत्राऽऽगत्य स्वस्वविषयनैपुण्यं प्रदर्शयन्ति स्म राज्ञः पुरत: । राजाऽपि प्रसन्नो भूत्वा तेषां सर्वेषां यथोचितं सम्माननं कृत्वा तान् प्रीणयति स्म । कथा - S एकदा तस्य सभायां परदेशीयः कश्चित्कविरागतः । स च शीघ्रं काव्यानि कुर्वन्नासीत् । सोऽनेकानि पदालङ्कारादिलालित्यपूर्णानि अश्रुतपूर्वाणि काव्यान्यश्रावयत् राजानं राजसभां च । सर्वेऽपि तादृशान्यद्भुतकाव्यानि समाकर्ण्याऽतीव प्रसन्ना अभवन् । राजाऽपि तस्य तथा काव्यशक्तित: चमत्कृतिमनुभवन्नानन्दितोऽभूत् । आज्ञप्तवान् च स निजं प्रधानं यत् एकादशवादनतो द्वादशवादनपर्यन्तं वित्तकोषस्य द्वारमुद्घाटयतु । तावत्यां वेलायां • यावन्ति स उवोढुं शक्नुयात् तावन्ति रत्नमणिसुवर्णादिद्रव्याणि यथेच्छमेष कविवरो गृह्णातु " इति । " अद्य 4 राज्ञ आज्ञां शिरस्यवधार्य तं कविं सादरं नीत्वा प्रधानो गतवान् । मार्गे कविना विचारितं यत्- “गृहात् पात्रानयने तु समयक्षतिर्भविष्यति । अतो मार्गादेव किमपि पात्रं ग्रहीष्ये" इति । एवं चैकस्या विपणेर्धान्यभरणयोग्यः स्यूतस्तेन क्रीतः । एकादशवादनसमयो जात: । प्रधानेन कोषस्य द्वारमुद्घाटितम् । तत्र च रत्नमणि - मौक्तिक - सुवर्ण- - रजत- हीरकाद्यनेकानि बहुमूल्यानि वस्तून्यासन् । प्रधानः कवि प्रत्युवाच "कविवर ! प्रारभताम् । राजाज्ञामनुसृत्य द्वादशवादनपर्यन्तं यथेच्छं यथाशक्ति च यावन्तं भारं भवान् वोढुं शक्नुयात् तावन्तं गृह्णातु " इति । १०५ Page #119 -------------------------------------------------------------------------- ________________ अथ कविः ‘सुवर्णमुद्रा एव ग्रहीतव्या' इति विचिन्त्य तद्ग्रहणे प्रवृत्तोऽभवत् । पञ्चदशनिमेषा व्यतीताः । पश्चाद् यावत् स्यूतमुद्वोढुं स प्रयत्नं कृतवान् न किन्तु / तत्राऽतिभारात् स सफलोऽभवत् । तथाऽपि लोभाविष्टः स तस्मात् स्यूतात् कतिचित् सुवर्णमुद्रा न्यूनाः कर्तुं न सज्जोऽभवत् । किन्तु – “सर्वा अपि मुद्रा निष्कास्यहीरकाण्येव ग्रहीतव्यानि । तानि तु यदि स्वल्पान्यपि भविष्यन्ति तथाऽपि बहुमूल्यानि भविष्यन्ति" इति विचिन्त्य हीरकाणि तेन भृतानि । पुनश्च लोभेन तेन स्यूत आकण्ठं भृतः । अतः पुनरपि तद्भारवहनेऽसमर्थः स समभवत् । एवमेव चाऽर्धघण्टासमयो व्यतीतः । तदनु विचारपरिवर्तनात् तानि निष्कास्य रौप्यमुद्रास्तत्र भृतास्तेन । पुनश्च तथैव / सञ्जातः । एवं तावत् खिन्नः सन् स व्यचारयत् यद्-'यदि ग्रहीतव्यमेव तर्हि कथं - सुवर्णमेव न गृह्णीयाम् ?' इति । किन्तु लोभस्तस्य कटीं नाऽमुञ्चत् । अतो वारं वारं स निष्फल एव भवति । एवमेव च झटिति समयो व्यतीतः । पञ्चनिमेषा एवाऽवशिष्टाऽधुना । तथाऽपि न तस्य मनःस्थितौ परिवर्तनं जातम् । अनेकशो निष्फलता प्राप्तोऽपि जनो न स्वलोभावेशं त्यक्तुं शक्नोति । एवं च पुनः सोऽचिन्तयत्- "यदि नाम रत्नानि न हि ग्रहीष्यामि तर्हि लोका मां मूर्ख मंस्यन्ते । अतः सर्वमन्यद् विमुच्य रत्नान्येव । गृह्णीयाम्" इति । एवं यावत् सुवर्णमुद्राः सन्त्यज्य रत्नानि ग्रहीतुमुद्युक्त: सोऽभवत् तावत् द्वादशवादनसूचका घण्टा वादिता । तदैव च प्रधानोऽवक्-"कविवर ! समयः समाप्तोऽधुना । भवान् तु यथागतो रिक्त एव स्थितोऽधुनाऽपि, यन्न किञ्चिदपि भवता गृहीतम् । सम्प्रति बहिरागच्छतु" इति । अनेन च खिन्नेन तेन कविना स्यूतस्तत्रैव विदारितः। १०६ Page #120 -------------------------------------------------------------------------- ________________ कथा समर्पणम् -मुनिधर्मकीर्तिविजयः आसीत् "समर्थः स्वामी रामदासः" नाम गुरुः। भक्तशिष्यवृन्दैः परिवृतः स प्रभुध्याने एव निमग्नः आसीत् । तस्य सर्वेऽपि शिष्याः गुरुभक्तिपरायणाः आसन् । सदा गुर्वाज्ञायाः अनुपालनं परिशुद्धं कुर्वन्तः आसन् । “गुरुवाक्यं ब्रह्मवाक्यं" इति मन्यन्ते स्म ते ।। एकदा “शिष्याणां परीक्षां कुर्याम्" इति विचारो जातो गुरोः चित्ते । तत्पालनार्थं गुरुणा स्वकीयादुद्यानादेकं परिपक्वमाम्रफलमानीतम् । पश्चाद् रहसि स्थित्वा तेन तदानफलं स्वकीयचरणे बद्धम् । तस्योपरि चातुर्येण वस्त्रपट्टिका तथा वेष्टिता यथा न ज्ञायेत केनाऽपि। द्वितीयदिने शिष्याः गुरोः वन्दनार्थमागताः । तदा स गुरुः पुनः पुनः पीडायाः व्याजेनाऽऽक्रन्दति स्म। शिष्यैः व्याकृतम् - प्रभो! किं भूतम् ? किं न स्वास्थ्यस्याऽऽनुकूल्यं वर्तते ? गुरुः आह- वत्साः! मम पादे एकः पिटको जातः , तस्य वेदनया पीडयाम्यहम् । सहसैवोत्थायैकः शिष्यः उवाच- प्रभो! काऽऽज्ञा? अधुनैवौषधानि आनयेयम् ! गुरुणा गदितम्- वेदनायाः शान्त्यर्थमेकः एवोपायः, यदि नाम कोऽप्येतस्मात् पिटकात् स्वमुखेन पूतं लिह्यात् तदा वेदना नश्येत् । एतच्छ्रुत्वैव सर्वे शिष्याः स्तब्धाः अभूवन् । तथा च ते परस्परं मुखमपश्यन् च । सर्वेषां वदनेषु तत्क्षणं ग्लानिः सञ्जाता। ___ सर्वेषां चित्ते गुरुं प्रति पूज्यभावः आदरश्चाऽऽसीदेव । तदर्थं किमपि कर्तुं प्रयत्नवन्तः आसन् । किन्तु एषा घटना तु प्राणहारिणी। पिटकस्य पूतं तु विषमेव । ततो यदि केनाऽपि गृह्यत तर्हि तदीये शरीरेऽप्येते पिटकाः उत्पद्येरन् । तदा १०७ Page #121 -------------------------------------------------------------------------- ________________ ) कदाचिद् मृत्युरपि भवेत् । इति विज्ञाय सर्वे शिष्याः तूष्णी स्थिताः । __रामदासो गुरुः आह- किं युष्मन्न कोऽपि गुरोः प्राणरक्षणार्थमेतादृशं साहसिकं कार्यं कर्तुं समर्थोऽस्ति? सर्वे मूकाः जाताः। कक्षे शान्तिः प्रसृता। सहसैवैकः शिष्यः उत्थितः । गुरोः समीपं गत्वा तस्मात् पिटकान्मुखेन पूतं ग्रहीतुमारब्धवान् । क्षणमात्रेण पूतं गृहितं तेन । किन्त्वहा ! आश्चर्यम्! न पूतं पिटकान्निर्गतम् , अपि त्वतीवमधुरोऽमृतनिभः आम्ररसो निर्गतः । गुरुः अपि अस्य शिष्यस्याऽपूर्वं साहसं निरीक्ष्याऽऽनन्दितोऽभूत् । तस्य प्रशंसा प्रकुर्वन् आह- वत्साः! यो विषं पातुमुद्यतो भवति स एवाऽमृतमपि प्राप्नोति । एषः बालक: आगामिनि काले विश्वप्रसिद्धो राजा भविष्यति। तस्य नाम शास्त्रपृष्ठेऽपि अड्कितं भविष्यतिः "छत्रपतिः शिवाजी" एवैषः बालकः। -0 harsohav. imgeymoon.ACKDAMAKRATO 'अहं-ममेति मन्त्रोऽयं, मोहस्य जगदान्ध्यकृत् । अयमेव हि 'नञ्' पूर्वः, प्रतिमन्त्रोऽपि मोहजित् ।। (ज्ञानसारे) १०८ Page #122 -------------------------------------------------------------------------- ________________ कथा भावनायाः प्राधान्यम् - मुनिकल्याणकीर्तिविजयः वैराग्यं समत्वमलिप्तत्वमनासक्तिश्च केषुचित् आत्मसु तथा परिणमन्ति यथा ते साक्षात् विषयेषु संसारे च प्रवृत्तिमन्तो दृश्यमाना अपि भावतोऽप्रवृत्तिमन्त एव भवन्ति । पद्मिनीपत्रं जलेनेव सर्वथाऽलिप्ताश्चैव वर्तन्ते । जयवर्म-विजयवर्माभिधयोभ्रा”विषयेऽपि एवमेवा ऽभवत् । _ तथाहि - अस्मिन्नेव भारते वर्षे कमनीयरमणीनां रमणीयमुखकमलैः कमलवनमिव शोभमानं रत्नसञ्चयं नाम नगरमासीत् । तत्राऽनुसृतनयधर्मा नित्यं कृतपरोपकारकर्मा जयवर्मा नाम राजाऽऽसीत् । स च समरमध्ये समग्रेषु शत्रुसैन्येषु पलायमानेषु सम्मुखीनं ह्यात्मानमेवाऽपश्यत् करवालसङ्क्रान्त-प्रतिबिम्बच्छलेन । तस्य च - यस्या निर्मलहसितेनोपहसितमिवाऽमृतं लज्जयाऽद्याऽप्यात्मानं न प्रकाशयति - सा -जयावली नाम पट्टमहिषी आसीत् । तथा दानैकशूरः कलाकलापकुशलः करुणाप्रवणहृदयश्च तस्य सहोदरो युवराजश्च विजयवर्मा नामाऽनुज आसीत् । तथा निजविशिष्टमतिविजितसुरमन्त्री सुमति म महामन्त्री आसीत् । अथाऽन्यदा तन्नगरे तारागणैश्चन्द्र इवाऽनेकैः साधुभिः परिवृतो निरुपमज्ञानकलाकलितश्च युगन्धरो नाम जैनाचार्यो ग्रामानुग्रामं विचरन् विहारक्रमेणाऽऽगतः । स च नगराद् बहिरेव नन्दनकाननोद्याने निर्दोषभूमाववग्रहं याचित्वोषितः । उद्यानपालकेनाऽपि वृतान्त एष सन्दिष्टो राज्ञे । अतः सोऽपि हृष्टमानसो जयवर्मा निजराज्ञी - युवराज - मन्त्रीसचिवो बहुभिश्च नागरैः परिवृत आचार्यभगवन्तं वन्दितुं गजमारुह्य तत्र प्राप्तवान् ।। ततो भूतलस्पृष्टललाटतलौ द्वावपि भ्रातरौ तत्परिवारश्च गुरुभगवन्तं प्रणम्य तत्सम्मुखमुपविष्टाः गुरुभगवताऽपि तयोर्द्वयोर्योग्यतामवगम्य भवनिर्वेदप्रधाना वैराग्यरसनिर्झरिणी देशना प्रारब्धा यथा - "भो भव्यजनाः ! दुर्वारदुःखसन्दोहसलिलसम्पूर्णं, १०९ Page #123 -------------------------------------------------------------------------- ________________ जन्मजरामरणसमुल्लसत्कल्लोलदुर्लङ्घ, क्रोधवाडवाग्निदुर्गम, मोहमहावर्तभीषणस्वरूपं, मानगिरिदुरवगाहं, मायाविशालवल्लीपरिनद्धं, घनमूर्छामत्स्यालिसङ्कलं, पापपङ्कसम्भृतं, रागोरगसंरुद्धं, विविधामयमकरदुष्प्रेक्ष्यम्, अनवरतपतन्महापत्तिसङ्कीर्णं, दुर्धरविषयपिपासोच्छलद्वेलाप्रसरविषमं भवसमुद्रमिमं ती| यदि मोक्षपरतीरमुपलब्धुं वाञ्छथ तर्हि प्रवरगुणसन्दोहकलितं प्रवज्याप्रवहणमारुहत ।" इति । एतच्छ्रुत्वा सुमतिमन्त्रिणा पृष्टं - प्रभो ! ननु प्रवज्यैव जीवानां मोक्षलाभहेतुरिति नैकान्तः । यतो भगवती मरुदेवी तु अगृहीतचारित्राऽपि केवलं भावनाभावितान्तःकरणैव निर्वाणपदवीं सम्प्राप्ता । अतः शुभभावनैव गुरु कर्मक्षयनिमित्तम् न तु केवलं चारित्रम् । - तदा गुरुभिः कथितः स यत्- भोः ! अनेकेषु जन्मसु कृतसुकृतयोग एव सम्यगनुचीर्णचारित्राणां क्रमशः शुभभावनारूपेण परिणमति । सैव च शुभभावना गुरु कर्मक्षयनिमित्तं भवति । यत् पुनरकृतव्रताया एव मरुदेव्या भावना जाता सा तु त्रपुक-टात्कृतेन जागरणतुल्या। _ मन्त्री पृच्छति स्म- भगवान् ! किं पुनस्तत् त्रपुक - टात्कृतेन जागरणम् तदा गुरुणोक्तं भोः ! तत्परामर्शस्तु कथानकेनैवावबुध्येताऽऽतः शृणु तत्कथानकम्___ महावटनाम्नि ग्रामे वसन्तपालाभिधष्ठक्कुर आसीत् तथा त्रपुको नाम ग्रामरक्षको नित्यं ग्रामं रक्षति स्म । अथ तस्य व सन्तपालस्याऽत्यन्तं प्रियः कुक्कुट एक आसीत् यस्य पद्मरागमयीव रकतवर्णा शिखा, जात्यकाञ्चचनघटितमिव पिशङ्गं चञ्चुपुटं, घुसृणविलिप्तमिव पिञ्जरं चरणयुग्मं तथा विविधरत्नखचिता इव चित्रवर्णा पिच्छाः शोभन्ते स्म । स ठकुरो नित्यं तं ताम्रचूडं स्वदृष्टिगोचरमेव रक्षति स्म तेन विना च क्षणमपि निर्वृतिं न लभते स्म । तस्य गृहस्य समीप एव एका चण्डा नाम स्त्री अवसत् । अथैकदा गर्भवत्यास्तस्याः कुक्कुट- मांसभक्षणस्य दोहदो जातः । ग्रामे च तत्र नाऽन्यः कोऽपि कुक्कुट आसीत् । अतस्तया कथमपि स ग्रामाधिपसत्कः कुक्कुटो हृत्वा हत्वा च भक्षितः । इतो वसन्तपालोऽपि तं ताम्रचूडमदृष्ट्वाऽतीव व्याकुलो जातः । तेन च ग्रामरक्षकस्त्रपुक आहूय कथमपि तं कुक्कुटं शोद्धमादिष्टः । स तु समग्रेऽपि ग्रामे बहुशोधनानन्तरमपि तत्प्रवृत्तिमलभमानो घोषणां कृतवान् यत् यः कोऽपि मां कुक्कुटशुद्धि ज्ञापयिष्यति तस्मै अहं विंशति दीनाराणां दातेति । ११० Page #124 -------------------------------------------------------------------------- ________________ एतच्छ्रुत्वा चण्डायाः प्रातिवेश्मिकी चपला नाम काचित् स्त्री यथाकथमपि चण्डायाः कुक्कुटभक्षणवृत्तं ज्ञात्वा धनलोभेन त्रपुकं कथितवती यत् – चण्डयैव स कुक्कुटो भक्षितोऽस्ति । अत्र कः प्रत्ययः? इति त्रपुकेन पृष्टे, चण्डामुखेनैवैतत् कथनं श्रावयिष्यामि - इति प्रतिज्ञातं चपलया । ततः सा तं स्वगृहं नीत्वा जवनिकान्तः स्थापितवती । तदनु कपटस्नेहं प्रदर्श्य चण्डां निजगृहमाहूयाऽकथयत् - हले चण्डे ! तस्य कुक्कुटस्य वृतान्तं मूलतोऽपि मां श्रावय । तच्छ्रोतुं हि महत् कुतूहलं मम । साऽपि चाऽज्ञातकपटा तत्कथनमारब्धवती । यावत् च स कुक्कुटो मया भक्षित - इति सा कथितवती तावत् चपलया हस्तस्थेन दण्डेन जवनिकोपरि टात्कृतम् । त्रपुकं च ज्ञापयितुं कथितमपि - यत् - अयि जवनिके ! शृणोषि वा ? अनया चण्डयैव भक्षितः स कुक्कुट इति । एतद् दृष्ट्वा विचक्षणया चण्डया चिन्नितं यत् - नूनमेषा वञ्चकी त्रपुकं ग्रामरक्षकमत्र स्थापियत्वा मां कुक्कुटस्वरूपं पृष्टवती । अतोऽधुना यथाऽयं मद्भणितमलीकं जानीयात् तथा करोमीति । ततः प्रत्युत्पन्नमत्या तया कथितं यद - एतावतैवाऽहं जागृताऽभवदिति । चपलाऽपृच्छत् - ननु जागृताऽहमित्यस्य कोऽर्थः खलु ? तयोदितं - सखि ! मया हि स्वप्ने एव दृष्टोऽयं वृत्तान्तो न पुनः सत्यम् । एतद्वचनं श्रुत्वा चपला विलक्षा जाता । तत्समीहितं च व्यनश्यत् । इति कथां समाप्याऽऽचार्यभगवता कथितं यदयं [पनयो मन्त्रिन् ! यथा त्रपुक-टात्कृतेन कदाचित् जागरणं सम्भवेत् एवमेव प्रव्रज्यां विनाऽपि जीवानां मोक्षः कदाचिदेव सम्भवेत् । न पुनः सर्वदा। यतो ये सिद्धा ये सेत्स्यन्ति ये च सिद्ध्यन्ति प्रायस्तेषां सर्वेषामपि चारित्रमेवैकं शुभभावनानिमित्तमस्ति न पुनरन्यत् किञ्चित् । देशनामिमां श्रुत्वा संविग्नमानसौ द्वावपि भ्रातरौ प्रतिबुद्धौ । द्वाभ्यामपि मनस्येव निश्चितं यदहं चारित्रं ग्रहीष्ये । अतो गृहं गत्वा जयवर्मनरेन्द्रेण लघुबन्धवे कथितं- भ्रातः ! वत्स ! इदानीं वंशक्रमागतं राज्यमेतत् त्वं प्रतिपद्यस्व प्रतिपालय च । गुरुमुखात्परिणतिविरसं विषायितं च विषयसुखं श्रुत्वा तत्र विरक्तमानसोऽहं कर्मगिरिदलव्रजायितां प्रव्रज्यामेवाऽऽ श्रयिष्यामि । एतन्निशम्य युवराजेनाऽपि प्रत्युक्तं - ज्येष्ठ ! दुर्वारदुःखविसरसंभृतात् चारकायिताच्च १११ Page #125 -------------------------------------------------------------------------- ________________ संसारात् सर्वथा निर्विण्णचित्तः प्रव्रज्यामेव ग्रहीतुं संयमं चाऽऽचरितुमुधुक्तोऽस्मीति न मम राज्यादानेऽस्ति काचिदीप्सा । राजाऽकथयत् - वत्स ! इयन्तं कालं यावन्मयैव राज्यं पालितम् । सम्प्रति त्वमपि नतनरनाथनिवहं साम्राज्यं पालय । योग्ये च काले सुते राज्यभारं संक्रमय्य संयमं गृह्णीयाः । यतो हि योग्ये समये क्रियमाणं सर्वमपि शोभते । विजयवर्मोवाच - राजन् ! यदि यमो मे मरणविलम्बाक्षराणि दद्यात् तर्हि राज्यं कृत्वैवाऽहं संयममाचरिष्यामि यत उक्तं - __ अहमद्य करोमीदं श्वः करिष्ये पुनरिदं कृत्यम् । इति को मन्त्रयति मतिमान् तरङ्गगक्षणभङ्गरे जीविते ।।। - अतश्चिन्तामणिरत्नमिव लब्ध्वा दुर्लभं मानुषं विषयप्रमादपरवशतया न निष्फलयिष्यामि अहम् । अपि तु नागपाशमिव गृहवासं कथमपि मुक्त्वा दीक्षां ग्रहीष्याम्येव । म एतच्छ्रुत्वा विजयवर्मणश्च निश्चलं मनः, दृढं निश्चयं, निबिडं च दीक्षानुरागं विलोक्य राज्ञा कथितं - यद्येवं तहि त्वमेकल एवाऽधुना दीक्षां गृह्णीयाः, अहं तु नैताः प्रजा अनाथाः मोक्तुं शक्तः । यदा राज्यस्य पालकः कश्चित् समर्थ उपलभ्येत तदा राज्यं सुस्थं कृत्वा तस्मै च दत्वाऽहमपि क्रमेण दीक्षां ग्रहीष्ये । । ततश्च जयवर्मनृपविहितनिष्क्रमणोत्सवपूर्वकं महादानपुरस्सरं च शुभे दिने उत्तमे च मुहूर्ते संसारवासं त्यक्त्वा विजयवर्मणा गुरुभगवतो हस्तेन दीक्षा गृहीता । जयवर्मनृपस्तु भावयतिरिव दीक्षामनोरथान् भावयन् निरपेक्षतया निःस्पृहतया च प्रजाः पालयन् राज्यधुरं च वहन् गृहावासे स्थितः।। __ इतो दीक्षाग्रहणानन्तरं विजयवर्ममुनिर्गुरुभगवतः पुण्यनिश्रायां समस्तशास्त्राण्यागमांश्चाऽधीयानो निरवद्यतया संयममाचरन् प्रव्रज्यां पालयति स्म । उत्तमां साधनामाराधनां च करोति स्म । एवं क्रमेण योग्यतां प्राप्तः स गुरोरेकाकिविहारायाऽनुज्ञां सम्प्राप्य ग्रामनगरादिषु विहरन् रत्नसञ्चयपुरं समागतः । नगरासन्नोद्याने वसतिं याचित्वा तत्र स्थितः सः । तदोद्यानपालकमुखात् तदागमनवृत्तं ज्ञात्वा राजाऽपि राज्ञीप्रमुखपरिवारपरिकरितस्तं - ११२ Page #126 -------------------------------------------------------------------------- ________________ वन्दितुकामस्तत्राऽऽगतः । अथ सोऽपि विजयवर्ममुनिः सर्वेभ्यस्तेभ्यो देशनारूपेणधर्माराधनेन स्वर्गापर्वग- सौख्यपरम्पराप्राप्तिं तत्र च विघ्नभूतस्य विषयकषायादिसेवनस्य परिणामदारुणत्वं देशनारूपेणोपवर्णितवान् । तत् सर्वं श्रुत्वाऽत्यन्तं संविग्नमानसया जयावलीदेव्या नियम एको गृहीतो यथा - इह स्थितस्य मुनेरेतस्य दर्शनं विना नाऽन्नपानग्रहणं कार्यमिति । तथा च नित्यमेव मुनेः पर्युपासनापरायास्तस्या दिनानि व्ययन्ति । अन्यदा देशस्योपरिवासे महावृष्टिर्जाता । एतेनोपरिष्टाद् वहन्ती नदी ह्यापूरयुक्ताऽभवत् । सा च नदी नगरोद्यानयोर्मध्ये जलातिरेकत्वात् महावेगेन प्रवहन्ती सर्वथा दुस्तरा सञ्जाता । अत: कारणात् सा जयावली देव्यपि मुनिवन्दनाय गन्तुं न शक्नोति स्म । तथा च गृहीतनियमप्रतिबद्धा साऽन्नजलादिकमपि न जगृहे । एतेन म्लानवदनां तां दृष्ट्वा राजा पृष्टवान् तत्कारणम् । यत् देवि ! किमिति त्वं म्लाना दृश्यसे ? तयाऽप्युक्तं - मयाऽद्य मुनिवन्दननियमो न पालितो नद्यां पूरागमनात् । अतोऽद्य भोजनत्यागादहं म्लानाऽभवमिति । राज्ञोक्तं - देवि ! न ज्ञायते कदैषा नदी विरंस्यति इति । त्वं पुनः सुकुमारा तो भोजनं विना बहु कष्टं प्राप्स्यसि । अत एकं कार्यं कुरु - नदीसमीपं गत्वा नद्यै कथयेदं यद् - यदि मद्देवरदीक्षाग्रहणप्रभृति मे भर्ता मया सह विषयासेवनं विहितं तर्हि हे भगवति ! त्वं मा विरम, यदि च न विहितं तर्हि मे मार्गं ददातु । इति । एतच्छ्रुत्वा सोपहासं तयोक्तं - भोः स्वामिन्! मया सह चिराय विषयसौख्यं सेवित्वाऽपि ह्येवं वदन् भवान् अचलत्वकलिङ्गगमो द्विज इवाऽत्यन्तं साहसिकोऽस्ति । राज्ञा कथितं देवि ! कुविकल्पान् सर्वथा सन्त्यज्य प्रथमं तत्र गच्छ मद्भणितं च कुरुष्व । तयाऽपि पुनः प्रत्युक्तं - आर्यपुत्र ! किमर्थमेवं कृतामपि विषयसेवामपलपसि ? भवान् हि मां शठ इवाऽलीकवचनैः प्रतारयति किन्तुं दिव्यस्वरूपां नदीं प्रतारयितुं कस्य सामर्थ्यमस्ति किल ? राजा दृढस्वरेण कथितवान् - देवि ! अलमधिकविचारणेन । त्वं मम वचनानुसारं प्रवर्तस्व केवलम् । तदा कुपितया देव्याऽप्युक्तं - राजन् ! किमहं ग्रहगृहीता वा ? यतो भवतो विषयसुख ११३ Page #127 -------------------------------------------------------------------------- ________________ सेवने सर्वदा साक्षिणी अहमस्मि । तथा मया सहैव भवता मदङ्गेष्वेव चैतत् सेवनं कृतमस्ति । एतादृश्यपि अहं सत्यप्रियायास्तस्या नद्याः पुरतोऽसत्यमादेशं भवद्वचनेन भणन्ती कस्य हसनीया न भवेयम् ? श्रुत्वैत् राज्ञा सा भुजयोर्गृहीत्वा पुनः साग्रहं समादिष्टा बहुभणितेन कृतं देवि ! । केवलमेकवारमेव त्वं मदुक्तं कुरु । तदनु यद् भविष्यति तद् द्रक्ष्यामः । एतन्निशम्य राज्ञी तदुक्तं चित्तेऽश्रद्दधत्यपि राज्ञ उपरोधेन शिबिकामारुह्य नदीसमीपं गतवती । तत्र च तटद्वयप्ररूढान् वृक्षान् उत्खनितुं दक्षामभ्रंलिहलहरीभृतां मत्स्यकच्छपादिजलचरकुलसङ्कुलां नदीं दृष्ट्वा देव्या भणितं - भगवति ! यदि मद्देवरदीक्षाग्रहणप्रभृति मे भत्रा विषयप्रसङ्गो न कृतस्तर्हि मे मार्गं प्रयच्छ । एतद्भणनसमनन्तरमेव पश्यन्त्या एव तस्या नदीमध्ये विवररूपेण मार्गः सञ्जातः । एतेनाऽतीव विस्मयापन्ना सा तेनैव मार्गेण गत्वा यावदुद्यानपार्श्वं प्राप्ता तावन्नदी पूर्ववदेव जलपूर्णा सञ्जाता । एतद्दृष्टवा पुनरप्यारश्चर्यचकिता सा मुनिसमीपं गत्वा वन्दित्वा च नद्युत्तरणनिमित्तं नृपवचनादिवृत्तान्तं तं कथितवती । तदा मुनिरपि तस्याः प्रतिबोधादिगुणं विचिन्त्य साधूनामनुचितमपि तां कथितवान् - देवि ! पुनरपि भवती नदीं गत्वा एवं वदतु यद् - व्रतग्रहणानन्तरमद्यपर्यन्तमपि यदि मम देवरेण भोजनं न कृतं तदा हे भगवति ! त्वं विरम्य मे मार्गं देहि अन्यथा नेति । एतच्छ्रुत्वा विस्मयान्विताऽपि सा नगरं प्रतिनिवर्तमाना नदीं प्राप्य तन्मुनिवचनं कथितवती । तदानीमपि नद्या मार्गे दत्ते चित्ते चित्रिता सा क्रमेण गृहं प्राप्ता । ततो भोजनादि निवर्त्य नृपतिं तत् सर्वमपि वृत्तं कथितवती जयावली । पृष्टवती च प्रभो ! द्वयोरपि युवयोरत्यद्भुतस्य चरितस्याऽस्य रहस्यं किम् ? राजोवाच देवि ! श्वो मुनिभगवन्तं गमिष्याम आवाम् । स एव ते संशयोच्छेदं करिष्यति । तत् स्वीकृत्य कथं कथमपि तद्दिनं व्यतीतवती सा । अन्यस्मिन् दिने गतौ द्वावपि मुनिं वन्दितुमद्याने । ततो मुनिं वन्दित्वा जयावली पृच्छति स्म - भगवन् ! युवयोर्द्वयोरपि चरितमिन्द्रजालमिवाऽत्यन्तमाश्चर्यकारि । यथा - आर्यपुत्रेण - ११४ 1 Page #128 -------------------------------------------------------------------------- ________________ हि मत्प्रत्यक्षं कृताऽपि विषयसेवाऽपलपिता सा च नद्याऽप्यकृतेति सम्मता, तथा तया मार्गोऽपि प्रदत्तः । तथा धृत-शालि-मोदक-मण्डकादिभोजनं मया स्वहस्तेनैव भवते प्रतिलाभितं, तच्च भवता किमन्यस्मै दत्तम् ? अथवेयन्तं कालं भवानाहारेण विना देहं कथं नियूंढवान् ? ततश्च कृतमपि भोजनमपलपन् भवानपि साहसिक एव । तथाऽपि नदीदेव्या तदकृतमिति प्रतिपद्य मे मार्गः प्रदत्तः । अतो नद्यपि भवतोईयोरपि सदृश्येव संघटिताऽस्ति । यतः सा भवद्भ्यां कृतमकृततया प्रतिपादितमपि बहुमन्यते । ततः किरहस्यकमस्य वस्तुतत्त्वमिति जिज्ञासा भृशं बाधते माम् । तदा विजयवर्ममुनिना सस्मितं कथितं-भाग्यवति ! यद्यत्र तव महत्कौतुकं तर्हि शृणु । मम व्रतग्रहणानन्तरं सर्वदा राजा एवं चिन्तयन्नासीत् यथा - कदा स दिवस उदेष्यति यदाऽहं सर्वसङ्गान् परिहृत्य गुरुपदमूले प्रव्रज्यां प्रतिपत्स्ये ? कमलपुष्पात् मधुरं मकरन्दसन्दोहमिव मधुकरः कदाऽहं द्वादशाङ्गी गुरुमुखकमलाद् ग्रहीष्ये ? कदा च भिक्षागतोऽहं गृहे गृहे दुर्वचनानि सहमानस्तथाऽपि स्फुरितासमप्रशमरसो द्वाविंशति परीषहान् सहिष्ये? कदा ह्यहं बाहुबलिमुनिरिव साधूनां भक्तपानादिदानेनोपष्टम्भं करिष्ये? कदा च साधूनां विश्रामणां वैयावृत्त्यं च विधास्ये? कदाऽहं समसुखदुःखप्रसरः समकनकप्रस्तरः समस्वपक्ष-विपक्षः समतरुणीतनूत्करः सममोक्षभवश्च भविष्यामि? इत्येवं सर्वदा सर्वथा च वैराग्यप्रधानो राजा परोपरोधेन विषयेषु प्रवृत्तोऽपि भावतस्त्वप्रवृत्त एवाऽऽसीत् अस्ति च। तथा साधूनां क्षुद्वेदनां शमयितुं, वैयावृत्त्यं कर्तुं, ईर्यासमिति पालयितुं, संयममाराधयितुं, प्राणान यापयितुं, धर्मचिन्तां च साधयितुमुद्गमोत्पादैषणादिदोषै रहितो भिक्षाचर्यायां च प्राप्त एवाऽऽहारो भोक्तव्यः । एभिः षड्भिः कारणैराहारं भुञ्जानोऽपि साधुरकृतभोजन एव उपोषित एव च भाषितो भगवद्भिः । अत एवाऽऽवाभ्यां कृतमपि विषयसेवनं भोजनं चाऽकृतमिति कथितं तच्च नद्याऽपि स्वीकृतं भवत्यै च मार्गः प्रदत्तः । किमद्याऽपि कश्चित् संशयो विद्यते भवत्याः? . तदाऽतीव मुदितया देव्याऽपि-सुष्ठु बोधिताऽस्मि भगवन् ! भवतेति कथयित्वा मुनिगदितं ११५ Page #129 -------------------------------------------------------------------------- ________________ - सर्वमपि प्रतिपन्नम्। ततः प्रभृति साऽपि जिनपूजन-मुनिवन्दन-दानादितत्परा विविधव्रत-नियमतन्निष्ठा पुण्यसञ्चयनिरता च दिनानि गमयति स्म । राजाऽपि स्वपुत्रं सोमवर्माभिधं राज्येऽभिषिच्य महत्संवेगनिर्वेदमापन्नो दीक्षां गृहीतवान् । ततो द्वावपि बन्धू कृततीव्रतपश्चरणौ नित्यं वैराग्यादिभावनाभावितान्तःकरणौ कर्मक्षयप्रवणौ क्रमेण कैवल्यं लब्ध्वा मुक्तिं प्राप्तवन्तौ । [आधारग्रन्थ:- आचार्यश्रीसोमप्रभसूरिविरचितः कुमरवालपडिबोहो (कुमारपालप्रतिबोध:)] FONTERESiatepunwarenewsmaATION MANDURATIONRNEHRAMMARY Samsirvarsistan viewers. A LAMRALANCIATICAUSE INMARIPerienc e अहिंसालक्षणो धर्मो मान्या देवी च भारती । ध्यानेन मुक्तिमाप्नोति सर्वदर्शनिनां मतम् ।। ११६ Page #130 -------------------------------------------------------------------------- ________________ कथा -सा. रत्नचूलाश्री: अविवेकः अल्पस्य हेतोः बहु हातुं इच्छन् विचारमूढः प्रतिभाति, किंतु एषाऽऽश्चर्यजनिका वार्ता नास्ति । यथा पुलिन्दः हस्तिनः शिरसः प्राप्तमौक्तिकं मुक्त्वा गुञ्जाफलमेव गृह्णाति । तथाहि__ मेदपाटस्य कस्यचिन्महाराणकस्य पार्वं एको मागधः समासदत् । तस्य स्वकरतलयोः कण्डूयनस्य व्यसनमासीत् । यदा स काव्यानि श्रावयति तदा तस्य तद्व्यसनस्याऽपि प्रदर्शनं प्रकृत्या एवाऽभवत् । महाराजेन स ऊचे यत् यदि त्वं आचतुर्विंशतिघटिकायाः सर्वथा करतलं न कण्डूयेः तर्हि अहं तुभ्यं पञ्चाधिकं शतं ग्रामाणां उपदारूपेण दास्यामि । लोभेनैनं पणं मागधः स्वीकृतवान् कियतीषु घटिकासु व्यतीतासु सतीषु असहिष्णुना तेन वीररसस्य काव्यस्य श्रावणस्य व्याजात् हस्तस्य कण्डूयनं प्रारब्धम् । चारणस्य एतच्छेकत्वं राणकस्य नयनव्यंसकं न जातम् । राणकेन स स्मारितः । तदा बन्दिना प्रत्युक्तं यन् मया कण्डूयनं विना एका घटिकापि स्थातुं न शक्या। भवान् एकदा कण्डूयने एकं ग्रामं अल्पं करोतु । चतुर्विंशतिघटिकायां कण्डूतेः संख्या पंचाधिकशतानि जाता । मागधेन एकोऽपि ग्रामो न प्राप्तः । ___ यथा हस्तकण्डूयनस्य व्यसनात् बन्दिना एकः अपि ग्रामः न लब्धः तथा विषयभोगस्य कण्डूतिः तादृशी एव । विषयभोगः अपि सर्वथा कण्डूयनवत् - त्याज्योऽस्ति । कण्डूते: करणारम्भः परिणतौ भयङ्करः । तथा विषयभोगोऽपि जन्ममृत्युप्रदायकः । ११७ Page #131 -------------------------------------------------------------------------- ________________ अहंकारः -सा. रत्नचूलाश्रीः स्वामिना विवेकानन्देन सह तस्य शिष्याः भोक्तुमुपविष्टाः । एकस्य शिष्यस्य एष नियम आसीत् यत् कोऽपि भोजनकाले कमपि प्रश्न कुर्यात् । तहि यावत् स तस्योत्तरं न दद्यात् तावत् भोजनं न ग्रहीतव्यम् । नैकशिष्याणां मध्ये केनचित् पप्रच्छे नरके कः नयति? प्रश्नस्य प्रत्युत्तरे तेन शिष्येण गदितं - नरकस्य एकं द्वारमेवास्ति, तत् तु नारी । यदुक्तम्_ 'प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ' । यः कामभोगेषु मग्नो भवति सोऽपवित्रे नरके गच्छति - इत्यादिका अनेकाः सूक्तीः सोऽश्रावयत् किन्तु प्रश्नस्योचित उत्तरो न प्राप्तः । अन्ते स्वामिना पृष्टम् क एनं प्रश्नं करोति ? प्रश्नकर्ता उक्तवान्- अहम् । तदुपरि स्वामिना भाषितं- एष 'अहम्' एव सर्वान् नरकं नयति । अहङ्कार एव नरकस्य मुख्यं द्वारम् इति ।। ११८ Page #132 -------------------------------------------------------------------------- ________________ कथा -॥ निःस्पृहः सर्वकामेभ्यो मानवः सुखमेधते ॥ स्वामी ब्रह्मानन्देन्द्रसरस्वती पो. कल्मने - ५७७४०१ सागर ता., शिवमोग्गा जिल्ला कर्णा अस्ति भारतस्य उत्तरप्रान्ते सुवर्णपुरो नाम जनपदः यत्र समीपस्थे गिरिसानौ लक्ष्मीरमणस्य जगत्प्रभोर्बृहन्मन्दिरम् । तत्रैव गिरिसानौ किञ्चिदूर्ध्वपरिसरे कलहंसकुररीकारण्डादिखगसङ्कुलस्य वर्णविभिन्नचारुपुंखरञ्जितस्य कलकलरवकूजनेन सदा गुञ्जित:, तृणपर्णसमावृतः, तालतमालबिल्वकुटजादिगुल्मगुच्छनिबिडः, कल्हार-कुरुबककर्णिकार-चम्पकाशोककेतकीपुन्नागादिपुष्पराजिशोभितः सुवर्णतीर्थं नाम स्वच्छसलिलकासारः । तत्तीरे करीम्-अलि नाम युवा कृषिकोपयोगिसाधनानां खनित्रकुद्दालटङ्कलवित्रादीनां निशातने निपुणोऽङ्गाराधिश्रयणीं चुल्लीमविरतः प्रज्वलयन् स्वाजीविकां निर्वाहयति स्म । प्रत्यहं कल्ये शरच्चन्द्राभिधोऽर्चकमहाशयः स्वपुत्रेण मदनेन सह गजराजसमारूढः कासारात् पवित्रं जलं स्वामिनोऽभिषेक वहति स्म । तत्र तटाकोपान्ते विचित्रमेकं दृश्यं पथिकान् बहु रञ्जयति स्म । ताकमुपगच्छति गजराजे, तत्सरसि निवसन् भेक एक: उच्छूनबृहदाकृतिः भीकरेण गर्गररवेण तं गजराजं भापयति स्म गजराजश्च भीतभीतः त्वरमाण: यावच्छीघ्रं सलिलमापूर्य तं तटाकप्रदेशं परिहृत्य प्रतिनिवर्तते स्म । शरच्चन्द्रस्य अर्चकस्य पुत्रो मदन: करीम् अलिश्च प्रगाढस्नेहेन वर्तेते । तावुभौ पञ्चष-हायनपर्यन्तं शालायां सहपाठिनावास्ताम् । करीम् जीविकानिर्वहणाय शालाभ्यासादिरतः सन् तमेनं प्रध्मान ( Furnace ) वृत्तिं यापयति स्म । मदनश्च पदवीधरः उद्योगान्वेषणे बहुक्लिश्यमान आसीत् । तस्य पिता शरच्चन्द्रः इदमिदानीं शालाशिक्षकवृत्ति परिसमाप्य अङ्गविकलानां अन्धबधिराणां आश्रयरहितानां कृते स्वीयं निवृत्तिवेतनं विनियुज्य अनाथमन्दिरमेकं निर्वहति स्म । तस्य अमोघां मानवकल्याणसेवां पुरस्कृत्य तस्मै ११९ Page #133 -------------------------------------------------------------------------- ________________ ower IAN P सार्वजनिकसंस्थाभिः प्रदत्तानि पारितोषिकाणि सन्मानपत्राणि बृहत्पेटिकापूर्णानि तस्य । जीर्णमल्पीयसं गृहं बहु शोभयन्ति स्म। __कदाचित् शरच्चन्द्रे क्वचित् सन्मानसमारम्भाय बहिर्निर्गते एकान्ते मातरं मालिनीमुपसृत्य मदनो वदत् ‘अम्ब ! जानास्यहमत्र बहुप्रयत्नेनापि उद्योगमलब्ध्वा भृशं सीदामि। अधिकारिभ्योऽवश्यं देयमुत्कोचधनमपि मयि नास्ति । तवाऽपि जीर्णा शाटिका नूनं बहु शोचनीया । पश्य तावत्, प्रातिवेशिकाः श्रीमन्तः अल्पविद्यावन्तोऽपि समाजे सर्वत्र कथं विराजन्ते, भोगविलासैः कथं मोदमाना विजृम्भन्ति ? पश्य तेषां कुबेरसन्तति, पश्य च अस्य जराजीर्णदरिद्रस्य मत्पितुः सन्ततिम् । किमेभिः सन्मानपत्रैरसंख्याकैः पारितोषिक-पुष्पगुच्छैः साधितं भवति? तस्य मत्पितुः पिता अन्ध आसीत्, अतोऽयमपि जन्मान्धस्तिष्ठति । मम क्लेशं नैव पश्यति । स च तत्पिता बधिर आसीत्, अयमपि जन्मबधिरो मम रोदनं नैव शृणोति । तमेनं जरठं वानरशिखामणिं पितेति सम्भावयितुमपि, सम्बोधयितुमपि जिहेमि । __ (सोद्विग्नः तत्रस्थां पारितोषकपेटिकां प्रसभमुद्घाटयित्वा तत्रस्थानि सन्मानपत्राणि पारितोषिकादीनि चन्दनपुष्पहारादीनि च ततो विकृश्य विच्छिद्य शकलीकृत्य सर्वत्र प्रक्षिपति । सर्वत्र एवं विकीर्णानि भर्तुः सम्मानपत्रादीनि दृष्टा सोद्विग्ना मालिनी कुपुत्रस्य दुश्चरितमसहमाना पत्युः प्रत्यागमनमेव निरीक्षमाणा म्लानवदना अन्तर्गृहं प्रविशति ।) __ अम्ब ! जानीहि, सत्येन ते शपे अद्यतने युगे सरलजीवनं गहनविचारः (Simple living, High thinking) इत्यादि शीलसंहिताः सुतरां निरुपयुक्ताः । धनं धनं धनमेव सर्वम् । धनेन हीनः पशुभिः समानः । विद्या ददाति विनयं विनयाद्याति पात्रताम् । पात्रत्वाद्धनमाप्नोति धनाद्भोगः ततः सुखम् । धनी सर्वत्र पूज्यते । (बहिः द्वारि लम्बमानं स्थूलाक्षरैः विलिखितं "निःस्पृहः सर्वकामेभ्यो मानवः सुखमेधते" इतीमं फलकं ततोऽपकृश्य तत्स्थाने स्थूलतरैरक्षरैः “निःस्पृहः सर्वकामेभ्यो जरठो दुःखमेधते" इति विलिख्य नूतनं फलकं तत्र लम्बयति । अम्बया सह एवं सँल्लपति मदने मध्यरात्रिसमये प्राप्ते, अन्तर्गृह विश्राम्यन्त्यां मालिन्यां, S १२० Page #134 -------------------------------------------------------------------------- ________________ P RIYAR passan बहिरङ्गणे मदनः कस्यचिन्निरीक्षणे द्वारि तिष्ठति । करीम्अलिः तस्य सखा आगत्य द्वारि स्थितस्य मदनस्य हस्ते स्वर्णाभरणपूर्णपात्रं निक्षिप्य निर्गच्छति । मदनश्च अमितोल्लसित: गीताश्लोको कण्ठस्थौ उच्चैर्गायति । "इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्।। इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥" । "असौ मया हतः शत्रु र्हनिष्ये चाऽपरानपि। ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥" एवमुच्चैर्गायन् मदनः स्वर्णपात्रं पारितोषकपेटिकायां स्वहस्तेन रिक्तीकृतायां स्थापयित्वा पेटिकां पिधाय पितुरागमनमाकल्प्य अन्तर्गृहे निलीनस्तिष्ठति । अनतिचिरादेव शरच्चन्द्रः हस्तगृहीतसन्मानपत्रः चन्दनहारसुशोभितः गृहं प्रविशति । गीताश्लोकौ स्वेष्टौ गायति । "अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥" "संतुष्टः सततं योगी यतात्मा दृढनिश्चयः मय्यर्पितमनोबुद्धिः यो मद्भक्तः स मे प्रियः ॥" सर्वत्र प्राङ्गणे विकीर्णविक्षिप्तानि सन्मानपत्रशकलानि छिन्नविच्छिन्नपुष्पगुच्छस्तबकानि दृष्टा चकितश्चकितः शरच्चन्द्रो भार्यामुखं निपुणं वीक्षते । निरुत्तरां तां परिलक्ष्य आसन्धामुपविशति । अत्रान्तरे रक्षिपुरुषः भटैः सह द्वारं प्रसभमुद्घाटयन् अन्तः प्रविशति । शरच्चन्द्र उत्थाय तस्मै स्वागतं व्याहरति । शरच्चन्द्रः स्वागतं ते। मध्यरात्रावपि मामभिनन्दितुमागता यूयमिति सम्भावये। नाऽहमेतानि सन्मानपत्राण्यर्हामि । दीनदुर्बलानां विकलाङ्गानां दुर्भगानां जीवने किञ्चिदाशाकिरणं सञ्चारयितुं यत्नशीलोऽस्मि । अनया अल्पसेवया दीनदुर्बलानां गतिर्भर्ता प्रभुः जगन्नाथस्तुष्यतु । रक्षिभट: नाऽहं त्वामभिनन्दितुमुपस्थितोऽस्मि । तव अधिग्रहणाय इहाऽऽगतोऽस्मि। शरच्चन्द्रः (सम्भ्रान्तः) अधिग्रहणाय ? कस्य ? कुतो वा अधिग्रहणम् ? नूनं सम्भ्रान्तोऽस्मि। CARE १२१ Page #135 -------------------------------------------------------------------------- ________________ रक्षिभटः सर्वं तवेदं कूटजालं विदिततममस्माभिरुद्घाटितं तिष्ठति । वद कुत्र निक्षिप्त चोरितं स्वर्णाभरणपूर्णं पात्रम् । इदमिदानीमस्माभिः करीम्-अलिः धूर्तापसदः स्वर्णपात्रं स्कन्धे आरोप्य तव गृहं प्रविष्टः सुष्ठ दृष्टः, क्षणद्वयानन्तरमेव रिक्तस्कन्धः बहिरागत्य अन्धे तमसे कुत्रचित् पलायितः, परं रक्षिभटैर्गृहीतः, सद्यः रक्षास्थाने सर्वकारस्य आतिथ्यं भजते । तद्वद, स्वर्णपात्रं कुत्र निगृहितं त्वया चौर्यसहभागिना । नो चेत्... (हस्तगृहीतं दण्डं भ्रमयति ।) शरच्चन्द्रः नूनं सम्भ्रान्तोऽस्मि, भो ! अहं तावनिरपराधीति निवेदयामि । अल्पेन निवृत्तिवेतनेन कुटुम्ब निर्वहतो यावच्छक्ति विकलाङ्गानां सेवायां निरतस्य अल्पतृप्तस्य भगवदर्चने श्रद्दधानस्य शालाध्यापकस्य मम एतादृशं भवदुत्प्रेक्षितं चौर्यादि कुकृत्यमूहितुमपि न शक्यते । __ रक्षिभटः ऊहितुमपि न शक्यते वा? (सहायक रक्षिभटमुद्दिश्य) उद्घाट्य , तां बृहत्पेटिकां सर्वसमक्षम्। (रक्षिपुरुषः तं पारितोषकपेटिकां प्रसभमुद्घाटयति ।) पश्य, पश्याऽत्र त्वया निगृहितं स्वर्णपात्रम् । नाऽत्र अपरः साक्षी अपेक्ष्यते । चोरितेन द्रव्येण सह निगृहीतोऽसि । अर्चकस्य छद्मवेशं धृत्वा भगवन्तं प्रतारयसि । करीम्सदशैः धूर्तापसदैः सह सम्भूय कूटकपटजालं वितन्वानस्त्वं स्वं निरपराधिनं वर्णयसि । छद्मशालाशिक्षकवृत्तिं नाटयन् छात्रान् दुर्मार्गे, दुष्कृत्ये प्रेरयसि, प्रचोदयसि । वेतनेन राज्यकोशं विलुण्ठसि । राष्ट्राय द्रुह्यसि... शरच्चन्द्रः (कर्णी पिधाय क्षणपर्यन्तं स्तम्भीभूतस्तिष्ठति । करीम्-अलीत्यस्य नाम रक्षिपुरुषवचसा विज्ञापितः सन् मदनस्य तेन करीमेण सह विजृम्भमाणं स्नेहं मनसि समाकल्प्य पुत्रवात्सल्येन प्रेमप्लावितहृदयः दुर्मार्गगामिनं पुत्रं दुःसङ्गाभिनिविष्टं मदनं सम्भाव्यमानकष्टपरम्पराभ्यः संरक्षितुकामः) हाँ हाँ भो भटाः ! मयैव चोरितमिदं स्वर्णपात्रं प्रमादेन कुटुम्बसुगमनिर्वहणोद्देशेन । न्यायोचितं दण्डं विधीयताम् । रक्षिभटाः तं शरच्चन्द्रं विकृश्य निगडैर्हस्तौ निबध्य स्वर्णपात्रेण सह अपनिन्युः । नीयमानः शरच्चन्द्रः ‘अद्यप्रभृति अहं श्रीमान् नवकोटिनारायणः, नाऽहं दरिद्रः नाऽहं दुर्भगः, भाग्यशाल्यहं नूनं भाग्यशाली' इत्याक्रन्दन् निर्गच्छति । सर्वमेतद् यद्वृत्तं निरपराधिने हरिश्चन्द्रसदृशाय स्वपित्रे समापन्नं दारुणं दुःसहमपमानं, कठिनकारावाससंकष्टजालं क्षणार्धेन मनसि समाकल्प्य Sound १२२ Page #136 -------------------------------------------------------------------------- ________________ तप्तहृदयो मदनः पितरं कथंकथमपि रक्षितुकामो द्रुतविलम्बेन रक्षागृहं प्रति धावित्वा रक्षिभटेभ्यः करीम्-अलिना सम्भूय स्वर्णपात्रनिगूहनादिकं यथार्थं निवेदयामास । रक्षिपुरुषाः तूर्णं करीम्अलीत्यस्य अन्वेषणे लग्नाः । मदनेन दर्शितमार्गास्ते तटाकोपान्तिकमुपगम्य तत्र अङ्गारश्रयणीचुल्लीप्रध्माने निमग्नं करीमापसदं गृहीत्वा शरच्चन्द्रहस्ताभ्यां निगडबन्धमवमुच्य करीमं निगडबद्धहस्तं कृत्वा तं रक्षिस्थानं प्रत्यानिन्यिरे । दुःसङ्ग सुतरां परिहृत्य ऋजुमार्गे व्यवहार्यमिति मदनं सूक्तं प्रबोधयित्वा तं तत्पितरञ्च शरच्चन्द्रं विससर्जुः ।। ___रक्षिपुरुषः (करीम्-अलिमुद्दिश्य) वद रे धूर्तापसद ! कथं कुत्र स्वर्णपात्रं त्वया प्राप्तं सर्वं यज्जानासि तद् यथावद् वद, नो चेत्... (दण्डं तन्मुखे भ्रामयति ।) करीम्अलिः यथार्थं वदामि सत्येन ते शपे भोः ! अत्यल्पो मेऽत्र अपराधः । गुणनिधिः मन्त्रिमहोदयः यदधीनेऽहं मदनुचरैस्त्रिभिः जब्बार-लतीफ-सय्यद्-इत्याख्यैः सह पञ्चविंशतिसंवत्सरेभ्यः सेवकोऽस्मि । प्रतिभूरूपेण गृहीतमेतत् स्वर्णपात्रं राज्यकोशे यन्निहितमासीत्, कदाचित् मन्त्रिमहोदयेन गुणनिधिना मद्धस्ते कृत्वा एतत् त्वया समीपवर्तिन्यां गुहायां निगूहितव्यम् । काले तदहं प्रतिग्रहीष्ये । तवाप्यत्र सूक्तः सहभागोऽवश्यं भविता । इत्याज्ञप्तः । तद्वचः शिरसा वहन् अत्रैव अनतिदूरे विद्यमानायां गुहायां निगुहितुं मदनुचरान् जब्बार-लतीफ-सय्यदानहं नियोजयामास । रक्षिभटः ततस्ततः? करीम्अलिः स्वर्णाभरणपूर्ण पात्रं तेन सह धनपत्राणा(currency-notes)मपरिमितानां पोटलिकाञ्च गृहीत्वा ते त्रयोऽपि गुहां प्रति निर्गताः । अपरेछुः गुहायां सर्वं समीचीनं सम्पादितं वा तैर्मदनुचरैरिति परीक्षितुकामोऽहं तत्र गुहां प्राप्तः । यत्तत्र बीभत्सं मद्गोचरितं दृश्यं तद्वर्णयितुमपि न पारयामि। जब्बार: गुहाद्वारे लगुडघातेन व्यापादितः सन् भुवमधिशेते, लतीफ-सय्यदौ च विषान्नभक्षणेन मृतौ सन्तौ गुहाभ्यन्तरे विकीर्णधनपत्रेषु मध्ये पतितौ व्यसू मया दृष्टौ । विचित्रं दुरूह्यमिदं दुरापन्नं कथं वा घटितं स्यादिति तर्कयन्नहं क्षणकालं गुहामभितः सञ्चरितः । अन्येषां केषाञ्चिदपि पदचिह्नानि परिसरे अदृष्ट्वा संभ्रान्तोऽहम् । मारणहोमोऽयं कथं समभूदिति - १२३ Page #137 -------------------------------------------------------------------------- ________________ यथामति सम्भावये, भोः ! अनुमते निवेदयामि | रक्षिभटः कथं समभूत् ? किमभूत् ? श्रोतुमुत्सुका वयम् । वद । करीम्अलिः अग्रे तावत् त्रयोऽपि धूर्तानुचराः धनलुब्धाः स्वर्णाभरणपूर्णपात्रं तथा च धनराशिं समसंविभागेन स्वायत्तीकर्तुमुद्दिष्टाः । त्रयोऽपि स्वर्णाभरणपात्रं पार्श्वे निधाय अपरिमितस्य धनराशेः मौल्यनिर्धारणाय धनपत्र पोटलिकामवमुच्य धनपत्राणि संख्यातुमुद्यताः । आमध्याह्नं संख्यानेन भृशं क्लान्ता: परिश्रान्ताः बुभुक्षिताश्च ते । उभावपि लतीफ सय्यदौ जब्बारं समीपस्थात् ग्रामात् खाद्यं किञ्चित् भिक्षित्वा शीघ्रं प्रतिनिवर्तस्वेत्युक्त्वा तं तदर्थं प्रेषयामासतुः । निर्ग जब्बारे खाद्यसम्पादनार्थमिह लतीफ सय्यदौ तं जब्बारं वञ्चयित्वा सर्वं तत् संपदं स्वयमेव सहभागेन स्वायत्तीचिकीर्षया मिथः समालोच्य संतमसि प्रतिनिवर्तमानं तं वराकं जब्बारं गुहाद्वार एव हन्तुं निश्चिनुताम्। तदनु तावुभावपि लगुडहस्तौ गुहाया: उभयपार्श्वयोः एकैकशः सस्यगुल्मेषु निलीनौ सन्तौ, तस्य वराकस्य जब्बारस्य प्रत्यागमनमेव निरीक्षमाणौ तस्थतुः । तत्र जब्बारः ग्रामजनेभ्यः खाद्यं सुपुष्कलमन्नं संगृह्य यावन्निष्क्रामति तस्मिन्नेव क्षणे तस्य मनसि सर्वां तत्संपदमन्यौ लतीफ सय्यदौ वञ्चयित्वा स्वयमेव स्वायत्तीकर्तुं विनिश्चित्य अग्रे तावत् स्वयमाकण्ठपूर्ति भक्षयित्वा शिष्टेऽन्ने विषं मिश्रयति स्म । विषान्नसहित: यावदेव गुहामपसर्पति संतमसि निलीनौ लतीफ सय्यदौ तं वराक्रं गुहाया द्वार एव व्यापदयित्वा कृतार्थौ स्वंमन्यमानौ गुहान्तः प्रविश्य भृशं बुभुक्षितौ तं विषमिश्रितमन्नं आकण्ठपूर्ति खादित्वा अचिरादेव गतासू भुवमधिशयाते । मारणहोमोऽयमेवं संपन्नः स्यादिति सम्भावये । किंकर्तव्यमूढोऽहं तां गुहां मृत्युदेवतासमाविष्टामिति भिया धनराशि तत्रैव मृत्युदेवतायै समर्प्य तटाकतीरे अङ्गाराधिश्रयणीं चुल्लीं प्रतिष्ठाप्य प्रध्मानवृत्तिमनुसन्दधामि । गजराजमण्डूकचर्यानिमित्तं जनसन्दोहं वीक्ष्य स्वर्णपूर्णपात्रं कासारसलिलात् बहिराच्छिद्य ह्यो मध्यरात्रौ मदनस्य मम प्रियमित्रस्य गृहे दिनद्वयं यावत् तन्निगूह्य रक्षितुं तमभ्यर्थयित्वा तद्धस्ते स्वर्णपूर्णपात्रं न्यासीकृत्य यावदहं तमापृच्छय बहिनिर्गत-स्तदैव दैवलीलया रक्षिभटैरहं गृहीतस्तिष्ठामि । रक्षिभटः यदुक्तं त्वया गजराजमण्डूकचर्यानिमित्तं जनरञ्जनं तस्य किं रहस्यमिति वद । करीम् अलिः शृणुत, मम अङ्गाराधिश्रयणीचुल्ल्या: प्रध्मानेन उद्भूतया अग्निज्वालया १२४ Page #138 -------------------------------------------------------------------------- ________________ तप्तं कासारसलिलम् । तसेन कासारसलिलेन तप्तं तन्निहितं स्वर्णाभरणपूर्णपात्रम् ।। तप्तस्वर्णाभरणपूर्णपात्रेण प्रभावितो मण्डूकराजः उच्छूनः सन् मदमत्तः स्वेन भीकरगर्गररवेण गजराजमपि भर्त्सयितुं भापयितुं, कम्पयितुं प्राभवत् । अहो मादकस्य धनद्रव्यस्य महिमा ! ___इत्येतत् करीम्अलिनिवेदितं श्रुत्वा नितरां मोमुद्यमानाः रक्षिभटाः निगडबन्धनात्तं मोचयित्वा ऋजुमार्गगमनाय सूक्तं प्रबोधयित्वा तं विससर्जुः । स्वर्णपात्रं च राज्यकोशागारे पुनः स्थापितम् । राजाज्ञया मन्त्रिमहोदयः पदच्युतः राज्यान्निष्कासितः । अत एव इदानीमपि तज्जनपदं स्वर्णपुरमिति तत्कासारश्च स्वर्णतीर्थमिति अन्वर्थनामनी भजेते । AneersyndonescanMS homeRemoiravivaily W सत्यं यूपं तपो ह्यग्निः, कर्माणि समिधो मम । अहिंसामाहुतिं दद्या-देष यज्ञः सनातन ।। NERA A .ONTRA DAREKANNAPanihone lati RAMANAWrmwari PhoneOWANAfairs aniwwwindiansomaidateMPOONAMODARA २ SARASHTRA १२५ Page #139 -------------------------------------------------------------------------- ________________ - मर्म-नम -मुनिरत्नकीर्तिविजयः दूरवाणी-द्वारा बहुकालं यावत् वार्तालापं कृतवन्तौ द्वौ सुहृदौ। सहसैवैकोऽपरस्मै पृष्टवान्- भो! भवान् कुतो वदति ? स उक्तवान्- मुखात् । بلوفهد रासिनीनामकः कश्चन महान् संगीतज्ञ आसीत् । यदा स जीवन् आसीत् तदैव तस्य प्रशंसकैः तस्य मूर्ति स्थापयितुं निश्चयः कृतः । तदर्थं च धनराशिरप्येकत्रीकृता।। वृत्तान्तमेनं रासिनी ज्ञातवान् । स कस्मैचिदपृच्छत् - एतस्मिन् कार्ये कियान् व्ययो भविष्यति? एककोटिफ्रान्कमितः- उत्तरं प्राप्तवान् सः । रासिनी उक्तवान् - एतस्माद् राशेरधु मह्यं ददातु । मूर्तेः स्थानेऽहं स्वयमेवोपस्थास्यामि । १२६ Page #140 -------------------------------------------------------------------------- ________________ मार्कट्वेइन-इत्यस्य भाषणमायोजितमेकस्मिन् लघुग्रामे । मार्कट्वेइनः तद्ग्रामं गत्वा नापितस्य पार्श्वे गतवान्। 'भवानस्मिन् ग्रामेऽनभिज्ञ इव प्रतिभाति खलु?'-केशकर्तनं कुर्वन् सन् नापितः पृष्टवान् । 'आम् । अद्यैवाऽऽगतोऽस्मि ।' 'अद्य भवानागत इति शोभनं कृतम् । अद्य तु ग्रामे मार्कट्वेइन-इत्यस्य भाषणमायोजितमस्ति । भवानपि लाभान्वितो भविष्यति ।' 'ओह् ! अत्युत्तमम् ।'-ट्वेइनमहोदयो गाम्भीर्येणोक्तवान् । 'किन्तु भवता मूल्यपत्रिका(TICKET)क्रीता खलु ?' 'नैव!' 'मूल्यपत्रिकास्तु सर्वा अपि विक्रीताः सन्ति । भवता उत्थातव्यं भवेत् !' 'मम भाग्यं त्वेवमेवाऽस्ति । यदाऽपि स जनो भाषणं करोति तदा मया तूत्थातव्यमेव भवति ।' - मुनिकल्याणकीर्तिविजयः म अथैकदा हस्तिनामन्येषां च विविधकीटकानां मध्ये पादकन्दुक (football)स्पर्धाऽभवत् । स्पर्धारम्भ एव हस्तिभिः शीघ्रतया क्रीडद्भिः षड् अङ्का (Goals) प्राप्ताः । एतावता कीटकपक्षतः शतपदी (Centipede) खेलायां प्रवृत्तवती । तया तु शीघ्रमेव बहून् अङ्कान् कृत्वा हस्तिभ्यः पराजयो दत्तः । स्पर्धानन्तरं केनचित् पत्रकार-प्राणिना शतपदी पृष्टा - भोः ! त्वमियत् शोभनं म . क्रीडसि तदा स्पर्धारम्भ एव किमिति नाऽऽगता क्रीडितुम् ? LD । तयोक्तं-तदानीं त्वहं पादत्रधारणे व्यापृताऽऽसम् । १२७ Page #141 -------------------------------------------------------------------------- ________________ - भोः ! त्वत्कृतेऽतीव दुःखदः समाचारोऽस्ति । तव पत्नी त्वत्प्रातिवेश्मिकेन साकं कुत्रचिद् विनष्टाऽस्ति । भोः ! प्रथमं दुःखदं समाचारं कथय । भवत्यै लज्जा नाऽस्ति किल !! भवत्याश्चतसृभिः सखीभिस्तु विवाहोच्छेदोऽपि (Divorce) कृतः, तव तु विवाहस्याऽपि वार्ता न श्रूयते !! १२८ Page #142 -------------------------------------------------------------------------- ________________ (उपाहारगृहे ग्राहकेन प्रतीक्षकाय (waiter) किञ्चिद् भोजनमादिष्टम् । बहुना कालेनाऽपि तन्नाऽऽनीतम् । अतस्तेन मुख्याधिकारिणे कथितम् ।) मुख्याधिकारी किं तस्य प्रतीक्षकस्य श्मश्रु आसीत् वा? ग्राहकः तदानीं तु नाऽऽसीत् । प्रायः एतावता कालेनोद्गतं स्यात् । कथ्यते सौराष्ट्रेषु यत् लुण्टाको जोगीदासः केवलं धनिकानेवाऽपीडयत् अलुण्टत् च । यतः कुतश्चित्तेन विज्ञातमासीद् यद् दुर्गतानां पार्वे धनमेव न भवति । - मुनिधर्मकीर्तिविजयः भिक्षुकः श्रेष्ठिन् ! देहि रूप्यकमेकम् । श्रेष्ठी हन्त ! नास्ति। भिक्षुकः श्रेष्ठिन् ! केवलं रूप्यकस्यैवैकस्य प्रश्नोऽस्ति । श्रेष्ठी विना मूल्यं तस्योत्तरं ददाम्यहम् । कथं त्वयाऽहं सदा वर्ण्य ? करोम्यहमसत्यभाषणस्याऽभ्यासम्। १२९ Page #143 -------------------------------------------------------------------------- ________________ । संवेगमंजरीकलयं - मुनिकल्याणकीर्तिविजयः मोहरायस्स चेव आणाए वट्टमाणं जीवं उवालंभेइ - पच्चक्खं रे जिअ ! मोहरायधाडी गिहमि लूडेइ । सव्वस्सं तह वि तुमं आणाए तस्स वट्टेसि ॥२६॥ हा हा कहं न हीणस्स तव मिच्छत्तमंतिणा सद्धि । निच्चं पि वंचणपरेण मूढ ! एयारिसो नेहो ? ॥२७॥ की अन्वयः रेजिअ! पच्चक्खं (चेव तुह) गिहमि मोहरायधाडी सव्वस्सं लूडेइ । तह वि तुमं तस्स च्चिय आणाए वट्टेसि (ता) रे मूढ ! निच्चं पि वंचणपरेण मिच्छत्तमंतिणा सद्धि हीणस्स तव एयारिसो नेहो कहं न (संभवइ?) भावार्थः रे जीव! तस्स सव्वेसिं चोराण महारायस्स मोहरायस्स सेन्नं तुह अत्तगिहमि धाडि पाडिऊण तस्स अंतट्ठियाइं नाणदंसणचरित्ताईणि रयणाई तहा अन्नं पि तुह सव्वं गुणधणं लूडेइ । एत्थ वि एयं कारणं जं तुमए तस्स मोहरायस्स आणाणुसासणं अंगीकयं अत्थि तओ य तत्थ तुमं चिंतिउं चेव न पारेसि जमेसो मोहराया मम महामोल्लं गुणधणं लूडेइ। तहा मं च निद्धणं रोरं च करिउं पयट्टिओ अत्थि । एएण कारणेणं चेव तं सव्वहा निस्संकत्तणेण वट्टेसि । तहा रे मूढ ! जं तए मोहरायस्स आणा अंगीकया ता हीणस्स तुज्झ जइ सव्वं पि संभवई तो निच्चं पि सव्वेसिं मुद्धजणाण वंचणाए च्चिय तप्परेण मिच्छत्तमंतिणा सद्धि एयारिसो नेहो वि कहं न संभवइ? त्ति ।। जीवं मोहरायस्साऽऽणं मिच्छत्तमंतिसिणेहं चएउं सद्धम्ममहारायस्स सामित्तं तस्स चेय महामंतिणो सिणेहं पडिवज्जेउं उवइसइ - १३० Page #144 -------------------------------------------------------------------------- ________________ SPREAD अज्जवि मुंचसु एअंमा मा दुक्खाण भायणं होसु । सद्धम्ममहारायं पडिवज्जसु सामिअंजीव ! ॥२८॥ सद्धम्ममहामंतिं कल्लाणकलावकारणं पयओ। आराहसु जेणेसो दावइ तुह सिवपुरे रज्जं ॥ २९॥ अन्वयः (रे) जीव ! अज्ज वि एअं मुंचसु (जेण) दुक्खाण भायणं मा मा होसु (तहा) सद्धम्ममहारायं सामिअंपडिवज्जसु । (तहा य) पयओ (होऊण) कल्लाणकलाव कारणं सद्धम्ममहामंतिं आराहसु जेणेसो तुह सिवपुरे रज्जं दावइ ।। वार्थः रे जीव ! अज्ज वि अहुणा वि सव्वं तस्स मोहरायस्स वंचणपवंचं जाणेउं पि तस्स आणं सव्वहा मुंचसु । जेण भविस्सकाले तं दुरियदुक्खाणं भायणं न हवेज्ज । किं तु सव्वहा सुहदायगस्स तस्स सद्धम्ममहारायस्स चेव सामित्तणं पडिवज्जसु। तहा य तेण कूडकवडभरिएण मिच्छत्तमंतिणा सद्धि सिणेहं पि मोत्तुं कल्लाणाणं अखंडाए अक्खयाए य परंपराए मूलं कारणं सद्धम्महामंतिं पयओ होऊण निययसव्वसत्तीए आराहसु जेण तुज्झोवरि संतुट्ठो सो मंती तुमं एयाओ दुरंताओ संसारचारयाओ मोएऊण निच्चसुहावासे सिवपुरे चेव अणंतं कालं जाव रज्जं दावेज्ज। संवेगस्स फलं दरिसेइ - इअ जइ संवेगपरो खणं रे जीव ! होसि ता तुज्झ। सुलहा सिवसुहलच्छी लद्धमणुअदेवभद्दस्स ॥३०॥ अन्वयः इह रे जीव ! खणं (पि) जइ संवेगपरो होसि ता लद्धमणुअदेवभद्दस्स तुज्झ सिवसुहलच्छी सुलहा चेव । भावार्थः रे भाविभद्द जीव ! इअ पुव्ववण्णिअप्पगारेण जइ तं खणमेत्तं पि संवेगतप्परो वेरग्गरसाहिसित्तो य होस्ससि ता तुज्झ - अन्नेसिं सवणमेत्ते वि दुल्लहा सिवनयरस्स लच्छी मज्झं मझेण देव-मणुयगईणं उत्तिमे सुहे अप्पेउं सव्वहा सुलहा हविस्सइ । १३१ Page #145 -------------------------------------------------------------------------- ________________ एयाए संवेगमंजरीए सवणस्स फलं पयडेइ संवेगमंजरीमिमं सवणावतंसभावं नयंति सुअणा अमिलाणसोहं । जे निच्चमेव सिरिसिद्धिवहूकडक्खलक्खोवलक्खिअतणू खलु ते हवंति ॥३१॥ ॥ इइ सम्मत्ता संवेगमंजरी || अन्वयः जे सुअणा इमं अमिलाणसोहं संवेगमंजरीं निच्चमेव सवणावतंसभावं नयंति ते खलु सिरिसिद्धिवहूकडक्खलक्खोवलक्खि अतणू हवंति । भावार्थ: जे पण्णावंतो सुयणा एयं सव्वहा सोहाजुत्तं पच्चग्गं तह चेव अमिलाणभावं चावि संवेगतरुणो मंजरीं चिय अण्णं सव्वं असोहणं चइऊणं सवणस्स अवतंसं करेंति तेसिं चेव तणुणो सिरिसिद्धिवहूए लक्खेहिं कडक्खेहिं उवलक्खिआ हवंति ते चेव य सिरिसिद्धिकामिणीए निम्मलनेहस्स भायणं हवंति इइ ॥ - उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् ? । आयुषः खण्डमादाय रविरस्तं प्रयास्यति ॥ १३२ Page #146 -------------------------------------------------------------------------- ________________ मह पाकिद सिक्खा परंपरा __-अरैयीरामशर्मा मूलम् : जयइ इ सअलं पुण्णं तं खु किदण्णत्तणं पुणो सं सम् । तं किअमाणत्तणं करिस्समाणण्णसत्तणं उण तं तम् ।। १ ।। | छाया : (जयति च सकलं पुण्यं तत् खलु कृतज्ञत्वं पुनः स्वं स्वम् । तत् क्रियमाणज्ञत्वं करिष्यमाणजसत्त्वं अपि तत् तत् ॥)। | टिप्पणी : सकलं पुण्यं तु कृतज्ञत्वं जयति, उत्कृष्टत्वात् एवं क्रियमाणज्ञत्वं करिष्यमाणज्ञत्वं च पुण्योत्तमम् - इति भावः । - इह मह पाउअसिक्खागुरुसिच्चपरंपरा कहिज्जइ अ। एदेण दाव दंसिअपहेण पाउअसरस्सई जयइ ॥ २ ॥ ८ छा. - (इह मम प्राकृतशिक्षागुरु - शिष्यपरम्परा कथ्यते च । एतेन तावत् दर्शितपथेन प्राकृतसरस्वती जयति ।) __ - एत्थ णु पाउअविज्जाविण्णाणपरंपरादुवई। 'मइसूरुमंतिमूला विस्सगुणादस्सकारगुरुमूला ॥ ३ ॥ छा. - (अत्र तु प्राकृतविद्याविज्ञानपरम्पराद्वयी। मैसूरुमन्त्रिमूला विश्वगुणादर्शकारगुरुमूला ।) टि. - १. मैसूरुदेशः कर्णाटे प्रसिद्धः । तद्राजधानी श्रीरङ्गपत्तमनासीत् । तत्र यदुगिरीयः तिरुमलैयार्यः प्रधानमन्त्री आसीत् त्रिशतसंवत्सरेभ्यः पूर्वं चिकदेवरायनाम्नः प्रसिद्धस्य राज्ञः । २. विश्वगुणादर्शचम्पूग्रन्थकर्ता काञ्चीपुरवेङ्कटध्वरिकविः । मू. - 'सिरिजग्गुवेंगडज्जो कुप्पण्णज्जो वि सज्जयज्जो वि। मह पाकिदविण्णाणे (ज्जाए) गुरुगुरुगुरुआ कमेण ताणं णमो ।। ४ ।। १३३ Page #147 -------------------------------------------------------------------------- ________________ छा. - (श्रीजग्गुवेङ्कटायः कुप्पण्णार्योऽपि सज्जयार्योऽपि । सो मम प्राकृतविज्ञाने (विद्यायाः) गुरु-गुरु-गुरुकाः क्रमेण तान् नुमः ।) टि. - १. श्रीजग्गुवेङ्कटार्यः - मम श्रीरामशर्मणः मातामहः विद्यागुरुश्च । २. सज्जयायः - पूर्वं यादवाद्रिस्थः ततो मुम्मडिकृष्णराजकाले मैसूरुनगरं गतः। - सज्जयतादज्जस्स णु तिरुमलतादज्जओ गुरू अ पिदा । · पुत्तो सक्किदपाकिद सिच्चो वि तहेव्व णामवन्तो अ ।। ५ । - (सज्जयतातार्यस्य नु तिरुमलतातार्यकोगुरुश्च पिता । पुत्रः संस्कृतप्राकृतशिष्योऽपि तथैव नामवांश्च ॥) - सज्जवुत्तस्स तहा सिच्चो वि अखानखानपल्लीओ। णरसीहसत्तिअक्खो पाकिदसद्दप्पदीविआकत्ता ॥ ६ ॥ छा. - (सज्जयपुत्रस्य तथा शिष्योऽपि च कानकानपल्लीकः । नरसिंहशास्त्राख्यः प्राकृतशब्दप्रदीपिकाकर्ता ।) है. टि. - १. कानकानपल्ली तु अद्य बेंगलूरुसमीपे कनकपुरं इति प्रथितम् । २. प्राकृतशब्दप्रदीपिकाग्रन्थः आन्ध्राक्षरैः सविंशतिशतसंवत्सरेभ्यः पूर्वं मैसूरविद्यातरङ्गिणीमुद्राक्षरशालायां सज्जयताताचार्येण प्रकाशितः । | मू. - सज्जयतादगुरू सिरितिरुमल नेल्लूरुतादवुत्तो णु। विस्सगुणादस्सकइप्पढमगुरुप्पेट्ठतादवंसो सो ।। ७ ।। छा. - (सज्जयतातगुरुः श्रीतिरुमलनेल्लूरुतातपुत्रो नु। विश्वगुणादर्शकवि - प्रथमगुरुप्रेष्ठतातवंशस्सः ।।) टि. - १. नेल्लूरुनगरं आन्ध्रप्रदेशे पूर्वदिशि पिनाकिनीनदीतीरे विराजते । १ मू. - अण्णो देव्वसिहामणि तिरुमलयज्जो खुजउगिरिप्पमुहो। जो जग्गुवेंगडज्ज'सगोत्तो चिकदेवरायमंतिकुलो ॥ ८ ॥ १३४ Page #148 -------------------------------------------------------------------------- ________________ छा. - (अन्यो देवशिखामणितिरुमलैयायः खलु यदुगिरिप्रमुखः । | यो जग्गुवेङ्कटार्यसगोत्र: चिकदेवरायमन्त्रिकुलः ।) - १. देवशिखामणितिरुमलैयायः स्वगहे स्त्रियस्सर्वाः बालाश्च संस्कृतं कन्नडं च जानन्तीति हेतोः अट्टालकवातायनद्वारा पार्श्वगृहस्थेन तादृशेन वरदनारायणेन पण्डितेन सह प्राकृतभाषयैव गूढार्थबोधकवाक्यानि संलपति स्मेति इतिवृत्तं कैंकर्यतिरुवेंगडायः मम बन्धुः आह स्म । २. यदुगिरिः कर्णाटके मण्डजिल्लायां नारायणक्षेत्रं पर्वतोपरि स्थितं मेलुकोटे इति प्रसिद्धम्। ३. सगोत्रः समानगोत्रर्षिप्रवरः विश्वामित्राघमर्षणकौशिकाठ्यार्षेयप्रवरान्वितः कौशिकगोत्रः यजुश्शाखाध्यायी आपस्तम्बसूत्र इति विशेषः ।। ४. चिकदेवरायः अप्रतिमवीरः औरंगजेबस्य देहलीबादशाहस्य राजकीयमित्रं आसीत् । - पाईणो 'जउपुरगअदा मिलियल्पिल्लयज्जवंसवरो। पाउअबासण - लेक्कणसत्तिअरो वरदनारणो अण्णो ॥ ९ ॥ - छा. - (पारीणो यदुपुरगत - द्राविडेयल्पिल्लैयार्यवंशवरः । प्राकृतभाषणलेखनशक्तिधरो वरदनारणोऽन्यः ।) * टि. - १. यदुपुरं यदुगिरिसमीपे भक्तपुरं तोण्मूरु इति प्रसिद्धम् । २. इयल्पिल्लैयार्यः द्राविडदिव्यप्रबन्धज्ञः बालपण्डित इति सहस्राधिकसंवत्सरेभ्यः पूर्वं आसीत् ।। ___- सिरिजग्गुवेंगडस्स णु पिदा वि पाउअकई अ लेक्कणिओ। सिरिजग्गुसिंगरज्जो जस्स खु आसूरिजीयरो सिच्चो ।। १० ।। - छा. - (श्रीजग्गुवेङ्कटस्य नु पितापि प्राकृतकविश्च लेखनिकः । श्रीजग्गुशिङ्गार्यो यस्य खल्वासूरिजीयरश्शिष्यः ॥) टि. - १. आसूरिजीयरः सन्यासी पण्डितप्रवरः भारतस्वातन्त्र्यसङ्ग्रामे - १३५ Page #149 -------------------------------------------------------------------------- ________________ बालगङ्गाधरतिलकस्य आप्तमित्रं आसीत् । - सिरि जग्गुवउलबूसणकई अ सिच्चो णु वेंगडज्जस्स । वक्करणजक्कवट्टी सिच्चो आसूरिजीयरस्सेक्को ।। ११ । * छा. - (श्रीजग्गुवकुलभूषणकविश्च शिष्यो नु वेङ्कटार्यस्य । वोक्करणचक्रवर्ती शिष्य आसूरिजीयरस्यैकः ॥) - १. जग्गुवकुलभूषणकविः प्रसन्नकाश्यपादिपञ्चविंशत्यधिकसंस्कृत - प्राकृतोभयमय-नाटकनिर्माता आसीत् । यस्य अस्मिन् चित्रभानुसंवत्सरे संस्कृतज्ञैः जन्मशताब्दोत्सवः दिवङ्गतस्य आचरितः । २. वोक्करणशब्दः पुष्करिणीशब्दस्य कर्णाट अपभ्रंशः पुष्करिणीवंश्यः कौशिकगोत्रः श्रीनिवासचक्रवर्तिनामाऽसौ जैनप्राकृतग्रन्थानामपि प्रत्यवेक्षकः आसीत्। - 'तिरुवालियण्णणामो वेंगडपुत्तो वि पाउअप्पमुहो। जेण मिउमहुरललिअंगीअं पाउअकइत्तणं जयइ ।। १२ ।। - (तिरुवालियण्णनामा वेङ्कटपुत्रोऽपि प्राकृतप्रमुखः । येन मृदुमधुरललितं गीतं प्राकृतकवित्वं जयति ॥) टि. - १. तिरुवालियण्ण इति द्राविडं नाम, सुदर्शनाचार्य इत्यर्थः । मू. - अज्ज वि मह कण्णसुहं गीअं कण्णस्स गुंजइव्व इइ । तस्स मह मादुलस्स णु कज्जं पज्जलिअमुद्दणं कइणो । १३ ।। __ - (अद्यापि मम कर्णसुखं गीतं कर्णस्य गुञ्जतीवेति । तस्य मम मातुलस्य नु कार्यं प्रज्वलितमुद्रणं कवेः ।।) टि. - १.मातुलः मम मातुः ज्येष्ठभ्राता । १- मू. - सिरिजग्गुवउलबूसणसिच्चो यम्मारवंसवरदकई। . अज्ज खु पाउअसिक्खाणिउणा तिरुवालि जक्कवट्टिअ -वरदा ॥ १४ । | छा. - (श्रीजग्गुवकुलभूषणशिष्यो यम्बारवंशवरदकविः । १३६ Page #150 -------------------------------------------------------------------------- ________________ अद्य खलु प्राकृतशिक्षानिपुणाः तिरुवालि-चक्रवति-वरदाः ।।) + टि. - १. चक्रवर्ती मूलकारिकारचनकाले जीवन्नासीत् । अधुना टिप्पणीरचनकाले नास्ति । सप्तवर्षेभ्यः पूर्वमेव कालधर्मं गतः । मू. - इइ मह पाकिदसिक्खागुरुसिच्चपरंपरा कहिआ । एदेण जाव दंसिअपहेण पाउसरस्सई जयइ इइ ॥ १५ ॥ र छा. - (इति मम प्राकृतशिक्षागुरुशिष्यपरंपरा कथिता । एतेन यावत् दर्शितपथेन प्राकृतसरस्वती जयतीति ।।) MAITRETIREONagariankandomurvaad ArorammaunDesimaaCATIONSIBIANNA 20RARTomai अधिकारात् त्रिभिर्मासैः, माठपत्यात् त्रिभिर्दिनैः । शीघ्रं नरकवाञ्छा चेत् दिनमेकं पुरोहितः ॥ AINTED RANIPRIDIOMeroNSARSA १३७ Page #151 -------------------------------------------------------------------------- ________________ मूलम् छाया व मं टि. मू. छा. टि. و छा. - 1 - - - (अअ (११) - अइ (१२) - अउ (१३) - अए (१४) - अओ (१५), इति एकादशमुख्यसंज्ञा लिपिगा । - संखा-सण्णा - अरैयश्रीरामशर्मा अ -इ-उ-ए-ओ-सरा पंच णु य-व-र-ल-वण्णेहिं संजुआ चऊहिं । णवसंखालेक्कणगा सुण्णस्स 'सवण्णचिण्णमिइ सण्णा । अ ।। (अ(१) - इ(२) - उ ( ३ ) - ए (४) - ओ (५) - स्वराः पञ्च नु य(६) - व(७) - र(८) - ल ( ९ ) वर्णैस्संयुताश्चतुर्भिः । नवसंख्यालेखनगाः शून्यस्य 'स(०)' वर्णचिह्नमिति संज्ञा ॥ १ ॥ ) सवर्णचिह्नं - स इतिवर्ण शून्यस्य चिह्नमित्यर्थ: । अअ-अइ-अउ-अए-अओ - इइ एक्कादसमुक्खसण्णिआ लिविआ । दक्खिणगइलिविवामा 'पडिसक्कदउत्तरा ण वामगमा । ई । दक्षिणगतिलिपिवामा प्रतिसंस्कृतोत्तरा न वामगमा ॥ २ ॥ ) १. प्रतिसंस्कृतोत्तरा संस्कृतभाषात्मकशास्त्रेषु संख्यानां वामतो गतिः - इति विद्यमानं नियमं विना दक्षिणतो गतिं संख्यावाचकवर्णोच्चारणे प्राकृतभाषा धारयतीति विशेषः । अस- इस-उस-एस-ओस इइ यस-वस-रस सम्मिया लस त्ति णव । दस अससइई ठिअ सअअसहस्सक्कमाणुआ लिविआ | उ ॥ (अस (१०) - इस (२०) - उस (३०) - एस (४०) - ओस (५०) इति यस (६०) वस (७०) - रस (८०) सम्मिता लस (९०) इति नव । दशका असस (१००) इति स्थित शतकसहस्रक्रमानुगा लिपिका ॥ ३ ॥) १३८ Page #152 -------------------------------------------------------------------------- ________________ MERA A MISSNESCOM मू. - इइ गुरुपरंपरागअसण्णा विण्णाविअज्ज रामेण । जउगिरिपाउअपंडिअ - 'वरदावरनारणक्खगुरुगइआ ॥ ए। ___ - (इति गुरुपरम्परागतसंज्ञा विज्ञापिताऽद्य रामेण । यदुगिरिप्राकृतपण्डित - वरदावरनारणाख्यगुरुगदिता ॥ ४ ॥) ___ - १. वरदनारायणगुरोः वरदनामा ज्येष्ठभ्राताऽपि संस्कृतप्राकृतपण्डित आसीत् । मू. - 'वुड्ढिविहीणा लिविआ सिणिद्धसुद्धअसणामआ वण्णा । सक्कदपउइअपाउअकण्णाए सवण्णललिअतणुवण्णा ॥ ओ॥ ___ - (वृद्धिविहीना लिपिका स्निग्धशुद्धकसनामका वर्णाः । संस्कृतप्रकृतिकप्राकृतकन्यायाः सवर्णललिततनुवर्णाः ।। ५ ॥) ___- १. वृद्धिविहीना - ऐ-औ इति वर्णद्वयं प्राकृतभाषायां नास्तीति भावः । ___- धम्मो जअइ 'समन्तो समन्तभद्दस्स विस्सगुणभद्दो । जो विट्ट सिरिणाहो तस्स तणू विस्समेव्व सिद्दगई ॥ य ।। छा. - (धर्मोजयति समन्त्रः समन्तभद्रस्य विश्वगुणभद्रः । यो विष्णुः श्रीनाथस्तस्य तनुविश्वमेव सिद्धगतिः ॥ ६॥) टि. ___ - १. समन्त्रधर्मस्य देवताः मन्त्रैरेव स्मर्यन्ते इति वैदिकीप्रक्रिया। २. लक्ष्मीपतिर्नारायणः सर्वं जगत् स्वशरीरतया व्यापनभरणस्वाम्यैः पालयतीति तात्पर्यम् । विष्णुसहस्रनामस्तोत्रे व्यासमहर्षिसङ्कलिते सिद्धावतारपराणि नामान्यपि सन्तीति स एव समन्तभद्रधर्मधारालोकानुग्राहक इति विशेषः । १३९ Page #153 -------------------------------------------------------------------------- ________________ Page #154 -------------------------------------------------------------------------- ________________