________________
मरुदेवोदरपद्मिनी - विकसितसितपद्मः । आदिमुनिजनपुङ्गवो, हतनिखिलच्छद्मः ॥५॥ जय आरूढो विमलाचले, नवनवतिपूर्वम् । समवसृतो राजादनी - तल एतदपूर्वम् ॥६॥ जय तुहिनाचलशिखरे वरे तपसोज्झितदेहः । अयुतमितैर्यतिभिर्युतो- ऽलङ्कृतशिवगेहः ॥७॥ जय विमलाचलगिरिभूषणो, गतदूषणपुञ्जः। हृदये मम रमतां सदा, गुणतरुवरकुञ्जः ॥८॥ जय लोकालोकविलोकको, विनतेन्द्रसमाजः । चरणालीनधुरन्धरः प्रथमो जिनराजः ॥॥ जय इत्थं स्तुतः प्रथमतीर्थपतिः प्रसिद्ध-सिद्धाचलाद्यशिखरे प्रथितप्रतिष्ठः । कुर्याच्छुभं मनुकुलाद्यपितामहोऽसौ, पृथ्वीतले सकलनीतिधुरन्धरो नः ॥
स्तुतिः नतसुरासुरशेखरसम्पतन्मधुपिशङ्गितसत्क्रम ! सन्मत ! । जय सुनाभिकुलाम्बुरुहारुण ! विगतरोगतरोऽघतमोऽरुण ! ॥१॥
6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org