________________
श्रीऋषभदेववन्दना - १
चैत्यवन्दनम् प्रथमधराधव ! प्रथमजिन ! प्रथमादृतयतिधर्म ! । प्रथमधर्मतीर्थंकर, वन्दे, त्वां कृतशर्म ! ॥१॥ मरुदेवातनुजात ! तात- नाभिनृपतिनन्दन ! । चन्दनरसचर्चितचरण ! गुणसुरतरुनन्दन ! ॥२॥ विमलाचलभूषणमणे ! शिवपावितकैलास ! । अङ्कधुरन्धर ! जय सदा भविकहृदयकृतवास ! ॥३॥
॥१॥
जय
स्तवनम्
राग - बिलावल जय जिनवर ! जगतीपते ! जगतीजनभानो ! । जय जितजन्मजरामृते ! धीरतासुरसानो ! ईक्ष्वाकुवंशाम्बरे, शरदुज्ज्वलचन्द्रः । शरणागतकरुणाकूता - वनिशं गततन्द्रः नाभिराजकुलमण्डनो, दण्डितरिपुवृन्दः । जगति प्रथमनराधिपो, यशसा जितकुन्दः लक्षसुलक्षणलक्षितः, क्नकच्छविकायः। पूर्णैः पञ्चधनुःशतै - मितदेहोच्छायः
॥
जय
॥३॥
जय
॥४॥
जय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org