________________
श्री अजितदेववन्दना
चैत्यवन्दनम्
गर्भस्थेsपि जिने सदा, जनकं जयति माता । क्रीडायां तेनैव यस्य, अजिताख्या जाता जितशत्रुनृपनन्दनो, विजयाजननी जातः । अजितनाथजिन ! जगति जय विजितवैरिसङ्घात ! नगरविनीतामण्डनं, मातङ्गाङ्कितपादः । मोहधुरन्धरवैरिणां, दत्तात् जयं शुभनादः
स्तवनम्
राग - पंथडो निहाळु रे
अजितजिनेश्वर ! मम चेतोम्बरे रे, नित्यं निवस शशीव;
Jain Education International
२
४
કો
तव निवसनतो मम पुण्योदधी रे दधते वृद्धिमतीव ॥ १ ॥ अजितजि ...... तव दर्शनतो मम हृदयाम्बुजं रे, विकसति शतपत्रेण ।
For Private & Personal Use Only
રા
प्रीतिमरन्दं निष्यन्दितमतो रे, पिब दृक्पुटिपत्रेण ॥२॥ अजितजिने..... तव चरणाम्बुजयुगलस्पर्शतो रे, मम नयनाम्बुजमित्रौं । अधिकाधिक तेजोवलयाञ्चितौ रे, जातौ जातु पवित्रौ ॥३॥ अजितजिने.. तव वचनोज्ज्वलदिव्यमरीचयो रे, स्फुरिता हृदि जिनचन्द्र ! । कर्मघनाघनघोरघटावली रे, याता दूरमतन्द्र ! ॥४॥ अजितजि .......
સો
www.jainelibrary.org