SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कथा -॥ निःस्पृहः सर्वकामेभ्यो मानवः सुखमेधते ॥ स्वामी ब्रह्मानन्देन्द्रसरस्वती पो. कल्मने - ५७७४०१ सागर ता., शिवमोग्गा जिल्ला कर्णा अस्ति भारतस्य उत्तरप्रान्ते सुवर्णपुरो नाम जनपदः यत्र समीपस्थे गिरिसानौ लक्ष्मीरमणस्य जगत्प्रभोर्बृहन्मन्दिरम् । तत्रैव गिरिसानौ किञ्चिदूर्ध्वपरिसरे कलहंसकुररीकारण्डादिखगसङ्कुलस्य वर्णविभिन्नचारुपुंखरञ्जितस्य कलकलरवकूजनेन सदा गुञ्जित:, तृणपर्णसमावृतः, तालतमालबिल्वकुटजादिगुल्मगुच्छनिबिडः, कल्हार-कुरुबककर्णिकार-चम्पकाशोककेतकीपुन्नागादिपुष्पराजिशोभितः सुवर्णतीर्थं नाम स्वच्छसलिलकासारः । तत्तीरे करीम्-अलि नाम युवा कृषिकोपयोगिसाधनानां खनित्रकुद्दालटङ्कलवित्रादीनां निशातने निपुणोऽङ्गाराधिश्रयणीं चुल्लीमविरतः प्रज्वलयन् स्वाजीविकां निर्वाहयति स्म । प्रत्यहं कल्ये शरच्चन्द्राभिधोऽर्चकमहाशयः स्वपुत्रेण मदनेन सह गजराजसमारूढः कासारात् पवित्रं जलं स्वामिनोऽभिषेक वहति स्म । तत्र तटाकोपान्ते विचित्रमेकं दृश्यं पथिकान् बहु रञ्जयति स्म । ताकमुपगच्छति गजराजे, तत्सरसि निवसन् भेक एक: उच्छूनबृहदाकृतिः भीकरेण गर्गररवेण तं गजराजं भापयति स्म गजराजश्च भीतभीतः त्वरमाण: यावच्छीघ्रं सलिलमापूर्य तं तटाकप्रदेशं परिहृत्य प्रतिनिवर्तते स्म । शरच्चन्द्रस्य अर्चकस्य पुत्रो मदन: करीम् अलिश्च प्रगाढस्नेहेन वर्तेते । तावुभौ पञ्चष-हायनपर्यन्तं शालायां सहपाठिनावास्ताम् । करीम् जीविकानिर्वहणाय शालाभ्यासादिरतः सन् तमेनं प्रध्मान ( Furnace ) वृत्तिं यापयति स्म । मदनश्च पदवीधरः उद्योगान्वेषणे बहुक्लिश्यमान आसीत् । तस्य पिता शरच्चन्द्रः इदमिदानीं शालाशिक्षकवृत्ति परिसमाप्य अङ्गविकलानां अन्धबधिराणां आश्रयरहितानां कृते स्वीयं निवृत्तिवेतनं विनियुज्य अनाथमन्दिरमेकं निर्वहति स्म । तस्य अमोघां मानवकल्याणसेवां पुरस्कृत्य तस्मै Jain Education International ११९ For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy