________________
अहंकारः
-सा. रत्नचूलाश्रीः स्वामिना विवेकानन्देन सह तस्य शिष्याः भोक्तुमुपविष्टाः । एकस्य शिष्यस्य एष नियम आसीत् यत् कोऽपि भोजनकाले कमपि प्रश्न कुर्यात् । तहि यावत् स तस्योत्तरं न दद्यात् तावत् भोजनं न ग्रहीतव्यम् । नैकशिष्याणां मध्ये केनचित् पप्रच्छे
नरके कः नयति?
प्रश्नस्य प्रत्युत्तरे तेन शिष्येण गदितं - नरकस्य एकं द्वारमेवास्ति, तत् तु नारी । यदुक्तम्_ 'प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ' ।
यः कामभोगेषु मग्नो भवति सोऽपवित्रे नरके गच्छति - इत्यादिका अनेकाः सूक्तीः सोऽश्रावयत् किन्तु प्रश्नस्योचित उत्तरो न प्राप्तः । अन्ते स्वामिना पृष्टम्
क एनं प्रश्नं करोति ? प्रश्नकर्ता उक्तवान्- अहम् । तदुपरि स्वामिना भाषितं- एष 'अहम्' एव सर्वान् नरकं नयति । अहङ्कार एव नरकस्य मुख्यं द्वारम् इति ।।
११८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org