SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कथा -सा. रत्नचूलाश्री: अविवेकः अल्पस्य हेतोः बहु हातुं इच्छन् विचारमूढः प्रतिभाति, किंतु एषाऽऽश्चर्यजनिका वार्ता नास्ति । यथा पुलिन्दः हस्तिनः शिरसः प्राप्तमौक्तिकं मुक्त्वा गुञ्जाफलमेव गृह्णाति । तथाहि__ मेदपाटस्य कस्यचिन्महाराणकस्य पार्वं एको मागधः समासदत् । तस्य स्वकरतलयोः कण्डूयनस्य व्यसनमासीत् । यदा स काव्यानि श्रावयति तदा तस्य तद्व्यसनस्याऽपि प्रदर्शनं प्रकृत्या एवाऽभवत् । महाराजेन स ऊचे यत् यदि त्वं आचतुर्विंशतिघटिकायाः सर्वथा करतलं न कण्डूयेः तर्हि अहं तुभ्यं पञ्चाधिकं शतं ग्रामाणां उपदारूपेण दास्यामि । लोभेनैनं पणं मागधः स्वीकृतवान् कियतीषु घटिकासु व्यतीतासु सतीषु असहिष्णुना तेन वीररसस्य काव्यस्य श्रावणस्य व्याजात् हस्तस्य कण्डूयनं प्रारब्धम् । चारणस्य एतच्छेकत्वं राणकस्य नयनव्यंसकं न जातम् । राणकेन स स्मारितः । तदा बन्दिना प्रत्युक्तं यन् मया कण्डूयनं विना एका घटिकापि स्थातुं न शक्या। भवान् एकदा कण्डूयने एकं ग्रामं अल्पं करोतु । चतुर्विंशतिघटिकायां कण्डूतेः संख्या पंचाधिकशतानि जाता । मागधेन एकोऽपि ग्रामो न प्राप्तः । ___ यथा हस्तकण्डूयनस्य व्यसनात् बन्दिना एकः अपि ग्रामः न लब्धः तथा विषयभोगस्य कण्डूतिः तादृशी एव । विषयभोगः अपि सर्वथा कण्डूयनवत् - त्याज्योऽस्ति । कण्डूते: करणारम्भः परिणतौ भयङ्करः । तथा विषयभोगोऽपि जन्ममृत्युप्रदायकः । ११७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy