________________
ower IAN
P
सार्वजनिकसंस्थाभिः प्रदत्तानि पारितोषिकाणि सन्मानपत्राणि बृहत्पेटिकापूर्णानि तस्य । जीर्णमल्पीयसं गृहं बहु शोभयन्ति स्म। __कदाचित् शरच्चन्द्रे क्वचित् सन्मानसमारम्भाय बहिर्निर्गते एकान्ते मातरं मालिनीमुपसृत्य मदनो वदत् ‘अम्ब ! जानास्यहमत्र बहुप्रयत्नेनापि उद्योगमलब्ध्वा भृशं सीदामि। अधिकारिभ्योऽवश्यं देयमुत्कोचधनमपि मयि नास्ति । तवाऽपि जीर्णा शाटिका नूनं बहु शोचनीया । पश्य तावत्, प्रातिवेशिकाः श्रीमन्तः अल्पविद्यावन्तोऽपि समाजे सर्वत्र कथं विराजन्ते, भोगविलासैः कथं मोदमाना विजृम्भन्ति ? पश्य तेषां कुबेरसन्तति, पश्य च अस्य जराजीर्णदरिद्रस्य मत्पितुः सन्ततिम् । किमेभिः सन्मानपत्रैरसंख्याकैः पारितोषिक-पुष्पगुच्छैः साधितं भवति? तस्य मत्पितुः पिता अन्ध आसीत्, अतोऽयमपि जन्मान्धस्तिष्ठति । मम क्लेशं नैव पश्यति । स च तत्पिता बधिर आसीत्, अयमपि जन्मबधिरो मम रोदनं नैव शृणोति । तमेनं जरठं वानरशिखामणिं पितेति सम्भावयितुमपि, सम्बोधयितुमपि जिहेमि । __ (सोद्विग्नः तत्रस्थां पारितोषकपेटिकां प्रसभमुद्घाटयित्वा तत्रस्थानि सन्मानपत्राणि पारितोषिकादीनि चन्दनपुष्पहारादीनि च ततो विकृश्य विच्छिद्य शकलीकृत्य सर्वत्र प्रक्षिपति । सर्वत्र एवं विकीर्णानि भर्तुः सम्मानपत्रादीनि दृष्टा सोद्विग्ना मालिनी कुपुत्रस्य दुश्चरितमसहमाना पत्युः प्रत्यागमनमेव निरीक्षमाणा म्लानवदना अन्तर्गृहं प्रविशति ।) __ अम्ब ! जानीहि, सत्येन ते शपे अद्यतने युगे सरलजीवनं गहनविचारः (Simple living, High thinking) इत्यादि शीलसंहिताः सुतरां निरुपयुक्ताः । धनं धनं धनमेव सर्वम् । धनेन हीनः पशुभिः समानः ।
विद्या ददाति विनयं विनयाद्याति पात्रताम् । पात्रत्वाद्धनमाप्नोति धनाद्भोगः ततः सुखम् ।
धनी सर्वत्र पूज्यते । (बहिः द्वारि लम्बमानं स्थूलाक्षरैः विलिखितं "निःस्पृहः सर्वकामेभ्यो मानवः सुखमेधते" इतीमं फलकं ततोऽपकृश्य तत्स्थाने स्थूलतरैरक्षरैः “निःस्पृहः सर्वकामेभ्यो जरठो दुःखमेधते" इति विलिख्य नूतनं फलकं तत्र लम्बयति ।
अम्बया सह एवं सँल्लपति मदने मध्यरात्रिसमये प्राप्ते, अन्तर्गृह विश्राम्यन्त्यां मालिन्यां,
S
१२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org