SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ P RIYAR passan बहिरङ्गणे मदनः कस्यचिन्निरीक्षणे द्वारि तिष्ठति । करीम्अलिः तस्य सखा आगत्य द्वारि स्थितस्य मदनस्य हस्ते स्वर्णाभरणपूर्णपात्रं निक्षिप्य निर्गच्छति । मदनश्च अमितोल्लसित: गीताश्लोको कण्ठस्थौ उच्चैर्गायति । "इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्।। इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥" । "असौ मया हतः शत्रु र्हनिष्ये चाऽपरानपि। ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥" एवमुच्चैर्गायन् मदनः स्वर्णपात्रं पारितोषकपेटिकायां स्वहस्तेन रिक्तीकृतायां स्थापयित्वा पेटिकां पिधाय पितुरागमनमाकल्प्य अन्तर्गृहे निलीनस्तिष्ठति । अनतिचिरादेव शरच्चन्द्रः हस्तगृहीतसन्मानपत्रः चन्दनहारसुशोभितः गृहं प्रविशति । गीताश्लोकौ स्वेष्टौ गायति । "अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥" "संतुष्टः सततं योगी यतात्मा दृढनिश्चयः मय्यर्पितमनोबुद्धिः यो मद्भक्तः स मे प्रियः ॥" सर्वत्र प्राङ्गणे विकीर्णविक्षिप्तानि सन्मानपत्रशकलानि छिन्नविच्छिन्नपुष्पगुच्छस्तबकानि दृष्टा चकितश्चकितः शरच्चन्द्रो भार्यामुखं निपुणं वीक्षते । निरुत्तरां तां परिलक्ष्य आसन्धामुपविशति । अत्रान्तरे रक्षिपुरुषः भटैः सह द्वारं प्रसभमुद्घाटयन् अन्तः प्रविशति । शरच्चन्द्र उत्थाय तस्मै स्वागतं व्याहरति । शरच्चन्द्रः स्वागतं ते। मध्यरात्रावपि मामभिनन्दितुमागता यूयमिति सम्भावये। नाऽहमेतानि सन्मानपत्राण्यर्हामि । दीनदुर्बलानां विकलाङ्गानां दुर्भगानां जीवने किञ्चिदाशाकिरणं सञ्चारयितुं यत्नशीलोऽस्मि । अनया अल्पसेवया दीनदुर्बलानां गतिर्भर्ता प्रभुः जगन्नाथस्तुष्यतु । रक्षिभट: नाऽहं त्वामभिनन्दितुमुपस्थितोऽस्मि । तव अधिग्रहणाय इहाऽऽगतोऽस्मि। शरच्चन्द्रः (सम्भ्रान्तः) अधिग्रहणाय ? कस्य ? कुतो वा अधिग्रहणम् ? नूनं सम्भ्रान्तोऽस्मि। CARE १२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy