SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ रक्षिभटः सर्वं तवेदं कूटजालं विदिततममस्माभिरुद्घाटितं तिष्ठति । वद कुत्र निक्षिप्त चोरितं स्वर्णाभरणपूर्णं पात्रम् । इदमिदानीमस्माभिः करीम्-अलिः धूर्तापसदः स्वर्णपात्रं स्कन्धे आरोप्य तव गृहं प्रविष्टः सुष्ठ दृष्टः, क्षणद्वयानन्तरमेव रिक्तस्कन्धः बहिरागत्य अन्धे तमसे कुत्रचित् पलायितः, परं रक्षिभटैर्गृहीतः, सद्यः रक्षास्थाने सर्वकारस्य आतिथ्यं भजते । तद्वद, स्वर्णपात्रं कुत्र निगृहितं त्वया चौर्यसहभागिना । नो चेत्... (हस्तगृहीतं दण्डं भ्रमयति ।) शरच्चन्द्रः नूनं सम्भ्रान्तोऽस्मि, भो ! अहं तावनिरपराधीति निवेदयामि । अल्पेन निवृत्तिवेतनेन कुटुम्ब निर्वहतो यावच्छक्ति विकलाङ्गानां सेवायां निरतस्य अल्पतृप्तस्य भगवदर्चने श्रद्दधानस्य शालाध्यापकस्य मम एतादृशं भवदुत्प्रेक्षितं चौर्यादि कुकृत्यमूहितुमपि न शक्यते । __ रक्षिभटः ऊहितुमपि न शक्यते वा? (सहायक रक्षिभटमुद्दिश्य) उद्घाट्य , तां बृहत्पेटिकां सर्वसमक्षम्। (रक्षिपुरुषः तं पारितोषकपेटिकां प्रसभमुद्घाटयति ।) पश्य, पश्याऽत्र त्वया निगृहितं स्वर्णपात्रम् । नाऽत्र अपरः साक्षी अपेक्ष्यते । चोरितेन द्रव्येण सह निगृहीतोऽसि । अर्चकस्य छद्मवेशं धृत्वा भगवन्तं प्रतारयसि । करीम्सदशैः धूर्तापसदैः सह सम्भूय कूटकपटजालं वितन्वानस्त्वं स्वं निरपराधिनं वर्णयसि । छद्मशालाशिक्षकवृत्तिं नाटयन् छात्रान् दुर्मार्गे, दुष्कृत्ये प्रेरयसि, प्रचोदयसि । वेतनेन राज्यकोशं विलुण्ठसि । राष्ट्राय द्रुह्यसि... शरच्चन्द्रः (कर्णी पिधाय क्षणपर्यन्तं स्तम्भीभूतस्तिष्ठति । करीम्-अलीत्यस्य नाम रक्षिपुरुषवचसा विज्ञापितः सन् मदनस्य तेन करीमेण सह विजृम्भमाणं स्नेहं मनसि समाकल्प्य पुत्रवात्सल्येन प्रेमप्लावितहृदयः दुर्मार्गगामिनं पुत्रं दुःसङ्गाभिनिविष्टं मदनं सम्भाव्यमानकष्टपरम्पराभ्यः संरक्षितुकामः) हाँ हाँ भो भटाः ! मयैव चोरितमिदं स्वर्णपात्रं प्रमादेन कुटुम्बसुगमनिर्वहणोद्देशेन । न्यायोचितं दण्डं विधीयताम् । रक्षिभटाः तं शरच्चन्द्रं विकृश्य निगडैर्हस्तौ निबध्य स्वर्णपात्रेण सह अपनिन्युः । नीयमानः शरच्चन्द्रः ‘अद्यप्रभृति अहं श्रीमान् नवकोटिनारायणः, नाऽहं दरिद्रः नाऽहं दुर्भगः, भाग्यशाल्यहं नूनं भाग्यशाली' इत्याक्रन्दन् निर्गच्छति । सर्वमेतद् यद्वृत्तं निरपराधिने हरिश्चन्द्रसदृशाय स्वपित्रे समापन्नं दारुणं दुःसहमपमानं, कठिनकारावाससंकष्टजालं क्षणार्धेन मनसि समाकल्प्य Sound १२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy