________________
तप्तहृदयो मदनः पितरं कथंकथमपि रक्षितुकामो द्रुतविलम्बेन रक्षागृहं प्रति धावित्वा रक्षिभटेभ्यः करीम्-अलिना सम्भूय स्वर्णपात्रनिगूहनादिकं यथार्थं निवेदयामास । रक्षिपुरुषाः तूर्णं करीम्अलीत्यस्य अन्वेषणे लग्नाः । मदनेन दर्शितमार्गास्ते तटाकोपान्तिकमुपगम्य तत्र अङ्गारश्रयणीचुल्लीप्रध्माने निमग्नं करीमापसदं गृहीत्वा शरच्चन्द्रहस्ताभ्यां निगडबन्धमवमुच्य करीमं निगडबद्धहस्तं कृत्वा तं रक्षिस्थानं प्रत्यानिन्यिरे । दुःसङ्ग सुतरां परिहृत्य ऋजुमार्गे व्यवहार्यमिति मदनं सूक्तं प्रबोधयित्वा तं तत्पितरञ्च शरच्चन्द्रं विससर्जुः ।। ___रक्षिपुरुषः (करीम्-अलिमुद्दिश्य) वद रे धूर्तापसद ! कथं कुत्र स्वर्णपात्रं त्वया प्राप्तं सर्वं यज्जानासि तद् यथावद् वद, नो चेत्... (दण्डं तन्मुखे भ्रामयति ।)
करीम्अलिः यथार्थं वदामि सत्येन ते शपे भोः ! अत्यल्पो मेऽत्र अपराधः । गुणनिधिः मन्त्रिमहोदयः यदधीनेऽहं मदनुचरैस्त्रिभिः जब्बार-लतीफ-सय्यद्-इत्याख्यैः सह पञ्चविंशतिसंवत्सरेभ्यः सेवकोऽस्मि । प्रतिभूरूपेण गृहीतमेतत् स्वर्णपात्रं राज्यकोशे यन्निहितमासीत्, कदाचित् मन्त्रिमहोदयेन गुणनिधिना मद्धस्ते कृत्वा एतत् त्वया समीपवर्तिन्यां गुहायां निगूहितव्यम् । काले तदहं प्रतिग्रहीष्ये । तवाप्यत्र सूक्तः सहभागोऽवश्यं भविता । इत्याज्ञप्तः । तद्वचः शिरसा वहन् अत्रैव अनतिदूरे विद्यमानायां गुहायां निगुहितुं मदनुचरान् जब्बार-लतीफ-सय्यदानहं नियोजयामास ।
रक्षिभटः ततस्ततः?
करीम्अलिः स्वर्णाभरणपूर्ण पात्रं तेन सह धनपत्राणा(currency-notes)मपरिमितानां पोटलिकाञ्च गृहीत्वा ते त्रयोऽपि गुहां प्रति निर्गताः । अपरेछुः गुहायां सर्वं समीचीनं सम्पादितं वा तैर्मदनुचरैरिति परीक्षितुकामोऽहं तत्र गुहां प्राप्तः । यत्तत्र बीभत्सं मद्गोचरितं दृश्यं तद्वर्णयितुमपि न पारयामि।
जब्बार: गुहाद्वारे लगुडघातेन व्यापादितः सन् भुवमधिशेते, लतीफ-सय्यदौ च विषान्नभक्षणेन मृतौ सन्तौ गुहाभ्यन्तरे विकीर्णधनपत्रेषु मध्ये पतितौ व्यसू मया दृष्टौ । विचित्रं दुरूह्यमिदं दुरापन्नं कथं वा घटितं स्यादिति तर्कयन्नहं क्षणकालं गुहामभितः सञ्चरितः । अन्येषां केषाञ्चिदपि पदचिह्नानि परिसरे अदृष्ट्वा संभ्रान्तोऽहम् । मारणहोमोऽयं कथं समभूदिति
-
१२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org