SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ यथामति सम्भावये, भोः ! अनुमते निवेदयामि | रक्षिभटः कथं समभूत् ? किमभूत् ? श्रोतुमुत्सुका वयम् । वद । करीम्अलिः अग्रे तावत् त्रयोऽपि धूर्तानुचराः धनलुब्धाः स्वर्णाभरणपूर्णपात्रं तथा च धनराशिं समसंविभागेन स्वायत्तीकर्तुमुद्दिष्टाः । त्रयोऽपि स्वर्णाभरणपात्रं पार्श्वे निधाय अपरिमितस्य धनराशेः मौल्यनिर्धारणाय धनपत्र पोटलिकामवमुच्य धनपत्राणि संख्यातुमुद्यताः । आमध्याह्नं संख्यानेन भृशं क्लान्ता: परिश्रान्ताः बुभुक्षिताश्च ते । उभावपि लतीफ सय्यदौ जब्बारं समीपस्थात् ग्रामात् खाद्यं किञ्चित् भिक्षित्वा शीघ्रं प्रतिनिवर्तस्वेत्युक्त्वा तं तदर्थं प्रेषयामासतुः । निर्ग जब्बारे खाद्यसम्पादनार्थमिह लतीफ सय्यदौ तं जब्बारं वञ्चयित्वा सर्वं तत् संपदं स्वयमेव सहभागेन स्वायत्तीचिकीर्षया मिथः समालोच्य संतमसि प्रतिनिवर्तमानं तं वराकं जब्बारं गुहाद्वार एव हन्तुं निश्चिनुताम्। तदनु तावुभावपि लगुडहस्तौ गुहाया: उभयपार्श्वयोः एकैकशः सस्यगुल्मेषु निलीनौ सन्तौ, तस्य वराकस्य जब्बारस्य प्रत्यागमनमेव निरीक्षमाणौ तस्थतुः । तत्र जब्बारः ग्रामजनेभ्यः खाद्यं सुपुष्कलमन्नं संगृह्य यावन्निष्क्रामति तस्मिन्नेव क्षणे तस्य मनसि सर्वां तत्संपदमन्यौ लतीफ सय्यदौ वञ्चयित्वा स्वयमेव स्वायत्तीकर्तुं विनिश्चित्य अग्रे तावत् स्वयमाकण्ठपूर्ति भक्षयित्वा शिष्टेऽन्ने विषं मिश्रयति स्म । विषान्नसहित: यावदेव गुहामपसर्पति संतमसि निलीनौ लतीफ सय्यदौ तं वराक्रं गुहाया द्वार एव व्यापदयित्वा कृतार्थौ स्वंमन्यमानौ गुहान्तः प्रविश्य भृशं बुभुक्षितौ तं विषमिश्रितमन्नं आकण्ठपूर्ति खादित्वा अचिरादेव गतासू भुवमधिशयाते । मारणहोमोऽयमेवं संपन्नः स्यादिति सम्भावये । किंकर्तव्यमूढोऽहं तां गुहां मृत्युदेवतासमाविष्टामिति भिया धनराशि तत्रैव मृत्युदेवतायै समर्प्य तटाकतीरे अङ्गाराधिश्रयणीं चुल्लीं प्रतिष्ठाप्य प्रध्मानवृत्तिमनुसन्दधामि । गजराजमण्डूकचर्यानिमित्तं जनसन्दोहं वीक्ष्य स्वर्णपूर्णपात्रं कासारसलिलात् बहिराच्छिद्य ह्यो मध्यरात्रौ मदनस्य मम प्रियमित्रस्य गृहे दिनद्वयं यावत् तन्निगूह्य रक्षितुं तमभ्यर्थयित्वा तद्धस्ते स्वर्णपूर्णपात्रं न्यासीकृत्य यावदहं तमापृच्छय बहिनिर्गत-स्तदैव दैवलीलया रक्षिभटैरहं गृहीतस्तिष्ठामि । रक्षिभटः यदुक्तं त्वया गजराजमण्डूकचर्यानिमित्तं जनरञ्जनं तस्य किं रहस्यमिति वद । करीम् अलिः शृणुत, मम अङ्गाराधिश्रयणीचुल्ल्या: प्रध्मानेन उद्भूतया अग्निज्वालया १२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy