________________
अतिक्रूरत्वेन स कुरङ्गवत्सं गृह्णाति, किन्तु स्वबालं तु स सवात्सल्यं स्वीकुरुते । अत्र ।
क्रिया तु ग्रहणरूपेण समाना । तथाऽप्यन्तरङ्गभावभेदो दृश्यते । एकस्यां क्रियायां रक्षणबुद्धिः S अन्यस्यां तु विनाशबुद्धिः वर्तते । तथैवाऽत्र करणीया काचिदपि क्रिया सादरमेवाऽस्माभिः ।
न कदाऽपि क्रियाऽविधिनाऽनादरेण च करणीया । यतः क्रियायाः योऽनादरः सः वस्तुतो तीर्थनाश एव।
भ्रातः ! व्यवहारेऽपि अनुभूयते एवाऽस्माभिः विपरीतकर्मणः फलम् । गृहे यदि पूज्यजनानामनादरो क्रियेत तहि तैः सह सम्बन्धो नश्येत् । विद्यालये गुरुजनानां, आपणे कई । कार्यालये वा तदधिकारिणामुचितो विनयो यदि न विधीयेत तर्हि अवश्यंतया तत्स्थानात् ।
विच्युतिः भवेत् । एवमर्थविषये यदा व्यापाराननुकूलं कर्म कुर्यात्तदा सर्वथाऽर्थाभावो भवेत्, मूलतोऽपि विनाशो भवेत् । अत एव यदि चेद् बाह्यविषयाणां सांसारिकवस्तूनामपि अविधिना विनियोगोऽत्यन्तदुःखं दद्यात्तर्हि भगवनिरूपितस्योत्तमस्य धर्मस्याऽनादरेणाऽवज्ञया च किं र न भवेत् खलु? हन्त ! महाननर्थो भवेदेव ।
पूज्यपादैः श्रीहरिभद्रसूरीश्वरैः प्ररूपितम्अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात्परः ।।
(योगबिन्दुसूत्रम्-२२३) . प्रापयतो धर्मस्याऽविधिः अरुचिश्चाऽनन्तसंसारभाजनत्वम् । दुर्गतौ नैकशः परिभ्रमयतः । पुनः तदर्थं तस्य सुधर्मस्याऽवाप्तिः सुदुष्प्राप्या भवति । अत एव धर्माराधनारूपं कर्म न । कदाचिदपि दुष्टाशयेनाऽविधिना च करणीयम् ॥
अन्तेऽत एव त्वयाऽपि निषेधात्मककर्मणः फलं ज्ञात्वा सदा शुद्धभावनया निर्मलबुद्ध्या निराशंसतया च विधेयात्मकं कर्म करणीयमिति आशासे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org