________________
अथ यत्क्रिययोत्तरोत्तरभवेषु प्रवर्धमानतया शुभगुणानामनुबन्धो भवति,तथाऽशुभकर्मणः क्षयो भवति; एवं यावन्मोक्षावसानफलं प्राप्यते यया सैव किया। किन्तु क्रियायां क्रियमाणायां S सत्यामपि भवपरम्परा यदि वर्द्धत तर्हि तत्क्रियया किम् ? स तु क्रियाभासः एव ।
क्रिया हि कर्मनिर्जरायाः प्रधानं कारणमस्ति तथा च तदर्थमेव कियाऽपि करणीया;न तुर - पुण्याय । अतः आस्तामशुभबन्धः किन्तु शुभबन्धोऽपि, अविपरीतरूपेण कृतक्रियया बद्धः र प्रत्यूहः एव मोक्षमार्गे । स्यात् लोहमयी शृङ्खला सुवर्णमयी वा । को नाम तत्र भेदः ? ३. बन्धनमेव खलु तया। अत्र तु बन्धनान्मुक्तिरेवाऽभीष्टा । तथैवाऽत्राऽपि शुभाशुभकर्मबन्धनाभ्यां
निर्वाणमेव क्रियायाः साफल्यमस्ति । * अत:एव कर्मनिर्जरायाः कारणीभूता भावसहितैव क्रिया करणीया। अन्यथा तु वस्तुतो * न तत्क्रियया कोऽपि लाभः । ततः एव कथितम् "भावशून्यया क्रियया कृतः कर्मक्षयो
मण्डूकचूर्णनिभो ज्ञेयः, एतादृशः कर्मक्षयो वस्तुतोऽक्षयः एव; यतः प्रावृजादिनिमित्तयोगतः | तच्चूर्णादधिकमण्डूकोत्पत्तिः भवति । तथैवाऽविधिना कृतायाः क्रियायाः अपि ज्ञेयम् ।
तथा च शुभभावनान्वितया क्रियया यः कर्मक्षयो भवेत् सः मण्डूकभस्मतुल्यो ज्ञेयः । येन * कदाऽपि भस्मनो मण्डूकानामुत्पत्तिर्न भवति ।
सुगतशिष्याः आहुःक्रियामात्रतः कर्मक्षयो मण्डूकचूर्णवत्,
भावनातस्तु तद्भस्मवत् इति । तत्समन्वयपूर्वकं पूज्यपादैः श्रीहरिभद्रसूरीश्वरैः गदितम्
कायकिरियाए दोसा खविया मंडुक्कचुण्णतुल्ल त्ति । ते चेव भावणाए नेया तच्छारसरिस त्ति ।।
(योगशतकम्-८६) बन्धो! अत्र कर्म तु तुल्यमेव, तथाऽपि फले विशेषो भेदोऽस्ति । यतः केन प्रकारेण । र कर्म सेव्यते तस्यैव मूल्यमस्ति । समये क्रिया स्ववत्सपालननिभा वर्णिता । किं दृष्टो है मृगाधिपः त्वया खलु ? न नाम केवलं स क्रूरः एव, अपि तु वत्सलोऽपि अस्ति ।
९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org