SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ तथैव क्रिया- कर्माऽपि रसायननिभं वर्तते । सर्वज्ञेन भगवता प्रतिजीवं तद्योग्यतानुरूपं । विविधाः क्रिया निरूपिताः सन्ति । अत्राऽपि क्रियाबहुमानः तन्निरूपकबहुमान आदर र उचितविनयो विधिप्रतिषेधोचितविवेकपूर्वकमासेवनमित्यादिकं अनुपानमिव ज्ञेयम् । अतः मैं एतेनाऽनुपानेन सह यदि भगवत्प्रणीतमाज्ञायुतं कर्मकलापमाराध्यते तदा जन्मजरामरण- दुःखालीकस्नेहवार्तादियुक्तः संसाररोगो नश्यते। किन्तु यदि चेत् भगवदाज्ञाविरुद्धेनाऽनुपान राहित्येन च कर्म क्रियते तदा तत्कर्म हि संसारं विवर्धयति । एवं येन कर्मणा परमं पदं प्राप्तुं शक्यते तेनैव कर्मणाऽतिनिकृष्टा नरकगतिरपि अवाप्यते, यदि चित्ते दुर्भावना प्रवर्तेत । कथितं च - जह चेव उ मोक्खफला आणा आराहिया जिणिदाणं । संसारदुक्खफलया तह चेव विराहिया नवरं ।। . - [पंचवस्तु- ११९] ___ अतो वस्तुतः ‘आत्मपरिणतेः विशुद्धिः एव क्रिया' इति ज्ञेयम् । तस्मादेवाऽत्र न क्रियौघस्य (Quantity)माहात्म्यं, किन्तु कीदृग्रीत्या (Quality)तत्क्रियते तस्यैव मूल्यमस्ति । बहुमानपूर्वकं शुभभावनया च कृता स्वल्पाऽपि क्रिया शोभना, परंतु अनादरेणाऽऽशंसया दुर्बुद्ध्या चाऽऽचरिताः अनेकाः अपि क्रियाः असुन्दराः सन्ति । कदाचित् । शुभभावनया कृतायां विहितक्रियायां स्यात् काऽपि स्खलना तथाऽपि तत्र न कर्मबन्धो भवति, यदि भवेत् कदाचित्तदाऽपि पश्चात्तापेन योऽपाकर्तुं शक्यः तादृश एव कर्मबन्धो र भूयेत । किन्तु यथारुचि आशयपूर्वकं भगवदाज्ञाविरुद्धं च क्रियायाः अनादरोऽविधिश्च यदि विधीयते तदा तदर्थं नाऽवकाशः प्रायश्चित्तस्य, तत्तु कर्मावश्यंतया प्रभावं फलं च दर्शयत्येव । यदाहन य तस्स तन्निमित्तो बंधो सुहुमो वि देसिओ समए । अणवज्जो उवओगेण सव्वभावेण सो जम्हा ।। जिअदु व मरदु व जीवो अजदाचारस्स निच्छओ हिंसा। पयदस्स णत्थि बंधो हिंसामित्तेण समिदस्स ।। Art Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy