________________
-
पत्रम्
-मुनिधर्मकीर्तिविजयः _ नमो नमः श्रीगुरुनेमिसूरये।। आत्मीयबन्धो! चेतन! धर्मलाभोऽस्तु।
अद्य दीर्घविहारयात्रां समाप्य बेंगलूरुनगरं प्राप्ताः वयम्। किं फलं श्रीतीर्थकराणामनुग्रहस्य * पूज्यपादगुरुभगवतां च कृपायाः इत्यस्याऽनुभूतिं अन्वभवमहमद्य खलु । निरन्तरं वाहन
वृन्दानां गमनागमनेन खचिते मार्गे विहारे कुर्वति सत्यपि दीर्घविहारयात्रायामेतादृश्यां निराबाधं सानन्दं वयमागतवन्तः । न केषाञ्चिदपि देहस्य प्रातिकूल्यं सञ्जातम् । एतदेव तेषां प्रसादस्य
फलम् । एवमधुना सर्वेऽपि वयं सक्षेममात्मसाधनायां मग्नाः वर्तामहे। एक ज्ञातं खलु त्वया गतपत्रेण विधेयात्मकेन "कर्मणा शुद्धिः" इत्यस्य सूत्रस्य तात्पर्यम् । म अद्य तत्सूत्रमेव निषेधात्मकेन विज्ञपयितुं प्रयत्यते मया । एतत्सूत्रस्य गर्भे 'न ह्यस्ति प्राधान्यं क्रियायाः अपि तु मनसः शुभभावस्यैव' इति तु निश्चितं त्वया गतपत्रात् । _. बन्धो! विद्यते कर्म रसायनतुल्यम् । रोगिष्ठजनेभ्यो रसायनं दीयते वैद्येन । तेन सह 'कदा, कियन्मानं, केन सह ग्राह्यम्' इति सूचना तथाऽनुपानमपि प्रोच्यते तेन वैद्येन । । अत्राऽधिकं माहात्म्यमनुपानस्यैव वर्तते । यदि चेदातुरेण वैद्योक्तं रसायनं सानुपानं गृह्यते तदाऽवश्यं व्याधिः सर्वथा नश्यति तथा च देहस्य कान्तिरूपबलादिकं विवर्धतेऽपि । किन्तु विपरीतरूपेण रसायनं यदि अङ्गीक्रियते तदा तदेव रसायनं रोगस्य वृद्धः निमित्तं भवति, " कदाचित्तु तदेव हि निधनस्याऽपि कारणं भवेत् खलु । __ उक्तं च - पडिवज्जिऊण किरियं तीए विरुद्धं निसेवइ जो उ।
अपवत्तगाउ अहियं सिग्घं संपावइ विणासं ।।
९१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org